द्वितीये कल्पे आत्मापि स्वयमेव प्रकाशेत, किमिति विषयानुभवमपेक्षेत ? अथ चैतन्यस्वभावत्वेऽपि नात्मा स्वयम्प्रकाशः, विशेषे हेतुर्वाच्यः । न हि चैतन्यस्वभावः सन् स्वयं परोक्षोऽन्यतोऽपरोक्ष इति युज्यते । किं च समत्वान्नेतरेतरापेक्षत्वं प्रकाशने प्रदीपयोरिव । तृतीयेऽपि कल्पे अनिच्छतोऽप्यात्मैव चिति प्रकाश आपद्यते, न तदतिरिक्ततथाविधफलसद्भावे प्रमाणमस्ति । कथम् ? प्रमाणजन्यश्चेदनुभवः, तथा सति स्वगतेन विशेषेण प्रतिविषयं पृथक् पृथगवभासेत, सर्वानुभवानुगतं च गोत्ववदनुभवत्वमपरमीक्ष्येत । न च ‘नीलानुभवः पीतानुभवः’, इति विषयविशेषपरामर्शशून्यः स्वगतो विशेषो लक्ष्यते ॥
विशेषहेतुर्वाच्य इति ।
आत्मानुभवयोः चिद्रूपत्वाविशेषेऽपि आत्मनः स्वयम्प्रकाशत्वे विशेषहेतुर्वाच्य एव, न कदाचिदप्युक्तो भवतीत्यर्थः ।
घटापरोक्ष्यवदात्मापरोक्ष्यमपि ज्ञानाधीनमिति, नेत्याह -
न हि चैतन्यस्वभावः सन्निति ।
प्रदीपस्य स्वोत्पत्त्यर्थं प्रदीपान्तरापेक्षा विद्यत इत्याशङ्क्य विशिनष्टि -
प्रकाशन इति ।
अनुभवस्य क्रियात्वद्रव्यत्वयोरसम्भवात् गुणत्वे वक्तव्ये सवितृप्रकाशवत्तस्य स्वधर्म्यात्मत्वं सत्तायामव्यभिचारात् आत्मस्वरूपतैवेत्यात्मैव चिद्रूपप्रकाशः स्यादित्याह –
अनिच्छतोऽपीति ।
आत्मनोऽन्यत् कादाचित्कद्रव्यमनुभव इति नेत्याह -
न तदतिरिक्तेति ।
जन्यानुभवस्याजन्यात्मातिरिक्तत्वमस्तीति शङ्कते -
कथमिति ।
अनुभवस्य स्वतो भेदाभावेन देशकालानवच्छेदादात्मस्वरूपतैव न जन्यत्वमित्युपपादयति -
प्रमाणजन्यश्चेदित्यादिना ।
अनुभवभेदे सति तेष्वनुभव इत्येकशब्दप्रयोगहेतुत्वेन अनुभवत्वं नाम सामान्यं वक्तव्यम् । तच्च सामान्यं किं जडं चित्स्वभावं वा, जडं चेन्नानुभवगतं स्यात् चैतन्यं चेत् अनुभवस्वरूपत्वादेव नानुभवगतत्वम् । अतः सामान्याभावाच्च नानुभवभेद इत्येकात्मैकानुभवएकात्मैक्यानुभव ? इत्य इत्याहेतिइत्याह -
सर्वानुभवानुगतं चेति ।