तर्ह्यहङ्कारस्योपादाननिमित्तस्वरूपप्रमाणकार्यादि सर्वं वक्तव्यमिति तत्राह -
तदुच्यत इत्यादिना ।
तत्रापि ‘येय’मित्यादिना उपादानमविद्येति निर्दिशति ।
वाच्यवाचकरूपेण परिणामसमर्थमित्याह -
नामरूपमिति ।
पत्रपुष्पादिरूपेण परिणामशक्तीः स्वात्मन्यन्तर्भाव्य यथा बीजमवतिष्ठते, तद्वद् विविधप्रपञ्चरूपेण परिणामशक्तीः पूर्वप्रपञ्चविनाशजन्यसंस्कारांश्च स्वात्मन्यतर्भाव्य अवस्थितबीजावस्थामाह –
अव्याकृतमिति ।
विद्यानिवर्त्येत्याह –
अविद्येति ।
अनुपपन्ननिर्वाहिकेत्याह –
मायेति ।
उपादानकारणमित्याह –
प्रकृतिरिति ।
आच्छादनरूपमित्याह –
अग्रहणमिति ।
शब्दादिहीनतया इन्द्रियाद्यविषयमित्याह –
अव्यक्तमिति ।
स्वाश्रयमेव विषयीकरोतीत्याह -
तम इति ।
स्वातिरिक्तनिमित्तानपेक्षमित्याह –
कारणमिति ।
स्वस्मादीषद्विभक्तस्वकार्यं स्वतावन्मात्रं करोतीत्याह -
लय इति ।
लीयतेऽस्मिन् इति लय इति विग्रहः ।
आत्मपरतन्त्रेत्याह –
शक्तिरिति ।
स्वाश्रयात्मनः स्वस्वभावे प्रबुद्धे निवर्त्यतनिवर्त्यतमिति इत्याह –
महासुप्तिरिति ।
स्वाश्रयात्मानमेकमनेकमिव करोतीत्याह –
निद्रेति ।
ज्ञानातिरेकेण स्वतोऽन्यतो वा न नश्यतीत्याह –
अक्षरमिति ।
व्यापीत्याह –
आकाशमिति ।
निवृत्तेः पुमर्थत्वाय निवर्त्याविधायाः अनर्थहेतुत्वमाह -
चैतन्यस्य स्वत एवेति ।
अविद्याकर्मपूर्वप्रज्ञेति ।
भ्रान्तिः, कर्म, पूर्वानुभवसंस्कार इत्यर्थः ।
एवं रूपाज्ञानमितिएवंरूपमज्ञान किमर्थमित्याशङ्क्य, सुषुप्ते आत्मनोऽद्वयरूपाच्छादकत्वाय प्रपञ्चसंस्काराश्रयत्वाय चेत्याह -
सुषुप्ते प्रकाशाच्छादनेति ।
परमेश्वराधिष्ठितत्वलब्ध इति ।
अविद्यायां चैतन्यैक्याध्यासः अहङ्कारस्य निमित्तकारणमित्यर्थः । विज्ञानक्रियाशक्तिद्वयाश्रय इति स्वरूपं दर्शयति ।
कार्यं दर्शयति -
कर्तृत्वभोक्तृत्वैकाधार इति ।
प्रमाणं दर्शयति -
कूटस्थचैतन्यसंवलनसञ्जातज्योतिरिति ।
चैतन्ये अध्यासः संवलनमुच्यते । अध्यस्ताहङ्कारेऽभिव्यक्तं चैतन्यं यत् तज्ज्योतिरित्युच्यते । तेन ज्योतिषा सिद्ध्यतीत्यर्थः ।
स्वयं प्रकाशमान इति ।
स्वसत्तायां प्रकाशाव्यभिचारीत्यर्थः ।
अहङ्कारस्यानुमेयत्वं नैयायिकाद्यनुमतं व्यावर्तयति -
अपरोक्ष इति ।
यत्सम्भेदादिति ।
आत्मनि सर्वातदारोपनिमित्तं कार्यान्तरमाह -
कूटस्थचैतन्य इति ।
अविकारिचैतन्य इत्यर्थः ।
आत्मधातुरिति ।
आत्मतत्त्वमित्यर्थः ।
क्रमुकताम्बूलादिशबलेन सत्यलौहित्योत्पत्तिवत् अहङ्कारचैतन्ययोः शबलेन सत्यकर्तृत्वाद्युत्पत्तिः कस्मान्न स्यात् ? इत्याशङ्कां व्यावर्तयति -
मिथ्यैवेत्येवकारेण ।
किमिति तर्हि सुषुप्ते न स्यादिति अत आह -
स च सुषुप्त इति ।
संस्कारनिर्मितह्यस्तनप्रपञ्चो विलीन इत्याह -
समुत्खातेति विशेषणेन ।
कुतस्त्यः कुत्र भवः ? क्वापि नास्तीत्यर्थः ।
तर्हि अविद्या स्वस्मिन्नाश्रितधर्मलक्षणावस्थापरिणामत्रयवत्तया अहङ्कारनिर्भासरूपात् साक्ष्यात्मनोऽन्यतया प्रधानाख्यप्रकृतिरूपेणाहङ्कारस्य कारणम् , नात्मन्यध्यस्ततयाऽविद्यात्वेनेति साङ्ख्यचोद्यमनूद्यपरिहरति -
न चैवं मन्तव्यमिति ।
तत्र महदादिकार्यरूपेणावस्थानं धर्मपरिणामः तस्यैव धर्मस्य क्रमेणानागतवर्तमानातीतरूपापत्तिलक्षणपरिणामः, अवस्थापरिणामस्त्वतीतमतीतरतरमतीततमम् ,
अनागतमनागततरमनागततममिति ।
तत्रैवाद्यतनचिरन्तनाद्यवस्थापत्तिरिति द्रष्टव्यम् ।
आत्मनोऽन्यस्वतन्त्रप्रकृतिकार्यत्वे सति अहङ्कारादेरिदमिति पृथक्त्वेपृथक्त्वत्वेनेतिनावभासः स्यात् , अहमित्यात्मतयावभासो न स्यादित्याह -
तथा सतीति ।
अहङ्कृतिरित्यहंप्रत्ययविषयभूतात्मोच्यते । भोक्तृत्वादिः, अहङ्कारादिरित्यर्थः । तद्विशेषः स्वतन्त्रप्रकृतेर्विशेषः कार्यमित्यर्थः ।
बुद्धिसुखदुःखेच्छादिधर्म्यहङ्कारस्य चात्मनैक्यावभासाभ्युपगमे तस्यैवात्मत्वमस्तु, नात्मनः पृथग्भूतो नैयायिकाद्यभिमतमनोव्यतिरिक्तोऽहङ्कारो नामास्तीत्याशङ्क्याह -
स च परिणामविशेष इति ।
नन्वात्मन एव विज्ञानरूपेण क्रियारूपेण च परिणामशक्तिद्वयं किं न स्यादित्याशङ्क्य निरवयवसर्वनिरवयव इतिगतासङ्गस्य परिणामासम्भवात् मिथ्यैव परिणामतच्छक्तिरित्याह –
तेनान्तःकरणोपरागनिमित्तमिति ।