पञ्चपादिका
वक्तव्यकाशिका
 
कथं पुनः स्फटिके लोहितिम्नो मिथ्यात्वम् ? उच्यतेयदि स्फटिकप्रतिस्फालिता नयनरश्मयो जपाकुसुममुपसर्पेयुः, तदा विशिष्टसंनिवेशं तदेव लोहितं ग्राहयेयुः हि रूपमात्रनिष्ठश्चाक्षुषः प्रत्ययो दृष्टपूर्वः ; नापि स्वाश्रयमनाकर्षद्रूपमात्रं प्रतिबिम्बितं क्वचिदुपलब्धपूर्वम्ननु अभिजातस्येव पद्मरागादिमणेः जपाकुसुमादेरपि प्रभा विद्यते, तया व्याप्तत्वात् स्फटिकोऽपि लोहित इवावभासते ; तथापि स्वयमलोहितो मिथ्यैव लोहित इत्यापद्येतअथ प्रभैव लोहितोऽवभासते, स्फटिक इति ; शौक्ल्यमपि तर्हि स्फटिके प्रकाशेतअथ प्रभया अपसारितं तदिति चेत् , तर्हि नीरूपः कथं चाक्षुषः स्यात् ? रूपिद्रव्यसंयोगात् ; वायोरपि तथात्वप्रसङ्गात् प्रभानिमित्तं लौहित्यं तत्रोत्पन्नम् ; उत्तरकालमपि तथा रूपप्रसङ्गात्अभ्युपगम्य प्रभामिदमुक्तम्यथा पद्मरागादिप्रभा निराश्रयापि उन्मुखोपलभ्यते, तथा जपाकुसुमादेःतदेवं स्फटिकमणावुपधानोपराग इव चिदात्मन्यप्यहङ्कारोपरागःततः सम्भिन्नोभयरूपत्वात् ग्रन्थिरिव भवतीति अहङ्कारो ग्रन्थिरिति गीयते

कुसुमगतमेव सत्यलौहित्यं स्फटिकादविविक्तं भातीत्यख्यातिवादी चोदयति -

कथं पुनरिति ।

प्रतिस्फालिता इति ।

स्फाटिकस्य तेजोद्रव्यत्वात् ततः प्रतिहता यदि जपाकुसुमं गच्छेयुरित्यर्थः ।

तदेव जपाकुसुममेव लोहितं गृह्णातीत्यागृह्णन्तीतिशङ्क्य, तर्हि सन्निवेशविशिष्टं पुष्पं लोहितमिति ग्राह्येयुरित्याह –

विशिष्टसन्निवेशमिति ।

दोषबलादिन्द्रियस्य कुसुमसंयोगाभावात् न सन्निवेशग्रहणमिति, नेत्याह -

न हि रूपमात्रनिष्ठ इति ।

रूपमात्रं स्फटिके प्रतिबिम्बितं स्फटिकात्मना भातीत्यन्यथाख्यातिवादी वदति, तन्नेत्याह -

नापि स्वाश्रयमिति ।

लौहित्यगुणाश्रयद्रव्यप्रभावद्द्रव्यस्य स्फटिके व्याप्त्यङ्गीकारात् तद्द्वारेणागतं रूपं स्फटिकात्मना भातीति चोदयति -

नन्वभिजातस्येवेति ।

कुलीनस्यासङ्करस्येत्यर्थः ।

स्फटिकसंसृष्टं लौहित्यं संसर्गस्य मिथ्यात्वात् तद्विशिष्टरूपेण मिथ्येत्याह -

तथापि स्वयमलोहित इति ।

लौहित्यस्य न स्फटिकसंसर्गावभास इत्यख्यातिवादिनो मतं ददाति -

अथ प्रभैवेति ।

शौक्ल्यमपि तर्हीति ।

संयुक्तसमवायस्य संयोगस्य वा विद्यमानत्वादिति भावः ।

प्रभयापसारितमिति ।

लौहित्याख्यविरोधिगुणया प्रभयेत्यर्थः ।

रूपिद्रव्यसंयोगादिति पं० पां०न रूपिसंयोगादिति ।

रूपिप्रभासंयोगानां न चाक्षुषत्वमित्यर्थः ।

'जपाकुसुमं प्रभावत् रक्तत्वात् पद्मरागादिवत्’ इत्याशङ्क्याह -

यथा पद्मरागादिप्रभेति ।

निराश्रयपीतिमाश्रयमण्यवच्छेदकदेशाद्देशान्तरं व्याप्य मां प्रति समागच्छतीति प्रतीयत इत्यर्थः ।

अहङ्कारोपराग इत्यत्र आत्मनि कर्तृत्वाद्यनर्थारोपहेतुरित्यध्याहारः । नाहङ्कारस्यानर्थहेतुत्वं ‘भिद्यते हृदयग्रन्थिमु० उ० २ - २ - ९’ रिति हृदयग्रन्थेरनर्थहेतुत्वस्य श्रुत्यवगतत्वादिति तत्राह -

ततः सम्भिन्न इति ।