तत्र जडरूपत्वादुपरक्तस्य न तद्बलादुपरागस्य साक्षाद्भावः, चिद्रूपस्य पुनरुपरागः तद्विषयव्यापारविरहिणोऽपि तद्बलात् प्रकाशते ॥ तेन लक्षणत इदमंशः कथ्यते, न व्यवहारतः । व्यवहारतः पुनः यदुपरागादनिदमात्मनोऽहङ्कर्तृत्वं मिथ्या, तदात्मनः तद्व्यापारेण व्याप्रियमाणस्यैव व्यापारपूर्वको यस्य परिच्छेदः, स एवेदमात्मको विषयः । अत एव 'अहमि’त्यसम्भिन्नेदमात्मकोऽवभासः इति विभ्रमः केषाञ्चित् । दृष्टश्च लक्षणतः तद्व्यवहारार्होऽपि तमननुपतन् । तद्यथा अङ्कुरादिफलपर्यन्तो वृक्षविकारो मृत्परिणामपरम्परापरिनिष्पन्नोऽपि घटवल्मीकवत् न मृण्मयव्यवहारमनुपतति, व्युत्पन्नमतयस्तु तद्व्यवहारमपि नातीवोल्बणं मन्यन्ते । अत एव निपुणतरमभिवीक्ष्य रूपकपरीक्षकवदहङ्कारं निरूपयतां सम्भिन्नेदंरूपः सः इत्यभिहितम् । यत् पुनः दर्पणजलादिषु मुखचन्द्रादिप्रतिबिम्बोदाहरणम् , तत् अहङ्कर्तुरनिदमंशो बिम्बादिव प्रतिबिम्बं न ब्रह्मणो वस्त्वन्तरम् , किं तु तदेव तत्पृथगवभासविपर्ययस्वरूपतामात्रं मिथ्या इति दर्शयितुम् । कथं पुनस्तदेव तत् ? एकस्वलक्षणत्वावगमात् ।
आत्मा स्वात्मन्यारोपिताहङ्कारं तद्धर्मादिनावभासयेत् , उपरक्तत्वात् स्फटिकादिवत् इति तत्राह -
जडरूपत्वादिति ।
आत्मनो विज्ञानव्यापारशून्यत्वाज्जाड्यादिविशेष इति तत्राह –
व्यापारविरहिणोऽपीति ।
तद्बलात् प्रकाशत इति ।
चित्संसर्गबलादहङ्कारादिः प्रकाशत इत्यर्थः ।
तेन लक्षणत इति ।
ज्ञानक्रियाव्यवधानमन्तरेण चैतन्यकर्मत्वादेवाहङ्कारस्यार्थस्वभावतः इदंरूपता कथ्यते, न प्रतिभासत इत्यर्थः ।
ज्ञानक्रियाव्यवधानेन सिद्धः प्रतिभासत इदंरूपो विषय इत्याह -
व्यवहारतः पुनरिति ।
अत्र व्यापारपूर्वको यस्य परिच्छेदः स एव व्यवहारतः पुनरिदमात्मको विषय इति पूर्वमन्वयः ।
आत्मनो देहघटादिविषयज्ञानव्यापारो नास्तीत्याशङ्क्याह -
तद्व्यापारेण व्याप्रियमाणस्यैवेति ।
देवदत्तव्यापारेण यज्ञदत्तो व्याप्रियमाण इव यथा न भवति, तद्वत् अहङ्कारव्यापारेणात्मनो व्यापारवत्ता न युक्तेत्याशङ्क्याह -
तदात्मन इति ।
परिणाम्यहङ्कारैक्ये आत्मनोऽपि परिणामित्वं प्राप्तमिति ; नेत्याह –
मिथ्येति ।
व्यापारशक्तिमत्वाभावे व्यापाराश्रयत्वं न सम्भवतीत्यशङ्क्य शक्तिमदहङ्कारोपाधिकत्वेनात्मन्यपि शक्तिरध्यस्तेत्याह –
यदुपरागादिति ।
अहङ्कर्तृत्वमिति ।
व्यापारव्यारजनकमितिजनक शक्तिमत्वमित्यर्थः ।
अहङ्कारस्य शक्तिमत्वं यथा स्वत एव स्यात् तद्वदात्मनोऽपि शक्तिः स्वत एवास्त्वित्याशङ्क्य चित्स्वरूपस्य वास्तवशक्तिमत्वं न सम्भवतीत्याह –
अनिदमात्मन इति ।
अहङ्कारसाक्षिणोर्मध्ये अज्ञानव्यवधानात् प्रतिभासत इदं रूपं स्यादिति तत्राह -
अत एवाहमिति ।
अज्ञानमात्रव्यवधानातिरिक्तज्ञानक्रियाव्यवधानाभावादेवेत्यर्थः ।
अर्थत इदंरूपत्वेऽपि तथा प्रतिभासाभावे दृष्टान्तमाह –
दृष्टश्चेति ।
ननु तत्रेतितत्त्वविमर्शेऽपि मृण्मयव्यवहारो न जायते । इह तु विमर्शेऽपि युष्मदर्थता व्यवह्रियते, अतो नायं दृष्टान्त इत्यत आह –
व्युत्पन्नमतयस्त्विति ।
विमर्शेऽहङ्कारस्य युष्मदिति व्यवहारमपि सुलभं न मन्यन्त इत्यर्थः ।
अत एवेति ।
विमर्शेऽपि युष्मदिति व्यवहारस्य दुर्लभत्वादेव, गुरुतरयत्नवता लभ्यतअत्रापूर्णं दृश्यते ...... - मुक्तमित्यर्थः ।
यदि स्फटिकोदाहरणेन आत्मन्यनात्माअनात्मध्यासेतिध्याससिद्धिः तर्हि श्रुतिषु दर्पणजलाद्युदाहरणं किमर्थमिति तत्राह –
यत्पुनरिति ।
ब्रह्मणो वस्त्वन्तरभावे किं ब्रह्मणः कल्पितत्वमिति, नेत्याह –
किन्त्विति ।
विपर्ययस्वरूपविपर्यस्तरूपतेतितेति ।
संसारिरूपतेत्यर्थः ।
प्रत्यङ्मुखताभेदावभासाभ्यां प्रतिबिम्बस्य बिम्बाद्वस्त्वन्तरत्वमिति चोदयति -
कथं पुनस्तदेव तदिति ।
एकस्वलक्षणत्वावगमादिति ।
एकस्वरूपलक्षणत्वेन मदीयमिदं मुखमिति दर्पणगतमुखव्यक्तेः स्वग्रीवास्थमुखव्यक्त्यैक्यप्रत्यभिज्ञानादित्यर्थः ।