पञ्चपादिका
वक्तव्यकाशिका
 
ननु तत्त्वमसिवाक्यात् बाधो दृश्यते, मैवम् ; तत्र’तत्त्वमि’ति बिम्बस्थानीयब्रह्मस्वरूपताप्रतिबिम्बस्थानीयस्य जीवस्योपदिश्यते ; अन्यथा न’तत्त्वमसी’ति स्यात् , किन्तु‘न त्वमसी’ति भवेत् , ‘ रजतमस्ती’तिवत्किं शास्त्रीयोऽपि व्यवहारः प्रतिबिम्बस्य पारमार्थिकमिव बिम्बैकरूपत्वं दर्शयतिनेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचननोपरक्तं वारिस्थं मध्यं नभसो गतम्इतियस्तु मन्यते पराक्प्रवणप्रवृत्तनयनरश्मिभिः बिम्बमेव भिन्नदेशस्थं गृह्यते, किन्तु दर्पणप्रतिस्फालितैः परावृत्त्य प्रत्यङ्मुखैः स्वदेशस्थमेव बिम्बं गृह्यते इति, तमनुभव एव निराकरोतीति, पराक्रम्यतेकथं पुनः परिच्छिन्नमेकमेकस्वभावं विच्छिन्नदेशद्वये सर्वात्मना अवभासमानमुभयत्र पारमार्थिकं भवति ? वयं विच्छेदावभासं पारमार्थिकं ब्रूमः, किं तु एकत्वं विच्छेदस्तु मायाविजृम्भितः हि मायायामसम्भावनीयं नाम ; असम्भावनीयावभासचतुरा हि सा

तत्त्वमसिवाक्यादितितत्त्वमसिद्धि इति ।

स्थाणुः पुरुष इति वाक्यात् पुरुषस्येव संसारिणो बाधो दृश्यत इत्यर्थः ।

सोऽयमिति वाक्यादिवैक्यमुपदिश्यत इत्याह –

मैवमिति ।

अन्यथा न तत्त्ववमसीति स्यात् इति, त्वमसीति न स्यादित्यन्वयः ।

उपरक्तमिति ।

राहुग्रस्तमित्यर्थः ।

न वारिस्थमिति ।

वारिस्थप्रतिबिम्बस्य बिम्बादित्यैक्ये सति हि वारिस्थमादित्यं नेक्षेतेति निषेधसम्भव इति भावः ।

ग्रीवास्थमुखस्य दर्पणस्थत्वाख्यदर्पणसम्बन्धो न गृह्यते । किन्तु तदेव मुखं दर्पणादविविक्तं प्रकाशत इति अख्यातिमतमनूद्य दूषयति -

यस्तु मन्यत इति ।

अनुभव एव निराकरोतीति ।

स्वात्मानं निरीक्ष्यमाणं पुरुषान्तरं दर्पणानुप्रविष्टमिव प्रतिबिम्बस्यानुभवः, तन्निराकरोतीत्यर्थः ।

उभयत्र पारमार्थिकत्वमाकाशस्य दृष्टमिति तद्व्यावर्तयति -

परिच्छिन्नमिति ।

परिच्छिन्नपरमाण्वोः देशद्वये सत्यत्वं विद्यत इति आशङ्क्य द्वयोः देशद्वये सत्यत्वमस्तु, एकस्य परिच्छिन्नस्य उभयत्र सत्यत्वं न सम्भवतीत्याह –

एकमिति ।

परिच्छिन्नस्यैकस्य पितृपुत्रसम्बन्धस्योभयत्र सत्यत्वं दृश्यत इत्याशङ्क्य एकत्र पितृत्वमन्यत्र पुत्रत्वमिति उभयात्मकत्वात्तस्य तथात्वमस्तु, एकस्वभावस्य मुखस्य न तथात्वमित्याह –

एकस्वभावमिति ।

एवंरूपस्य अवयविद्रव्याख्यावयवद्वये सत्यत्वं विद्यत इत्याशङ्क्य संश्लिष्टावयवद्वये सत्यत्वमस्तु, विच्छिन्नदेशद्वये सत्यत्वं न सम्भवतीत्याह -

विच्छिन्नदेशद्वय इति ।

पूर्वोक्तस्वभावस्य वंशस्य विच्छिन्नभित्तिद्वये सत्यत्वं दृश्यत इत्याशङ्क्य तत्रांशद्वयेनोभयत्रनोभयत्यत्वमितिसत्यत्वं सम्भवति, इह तु न सर्वात्मना उभयत्र सत्यत्वं सम्भवतीत्याह -

सर्वात्मना अवभासमानमिति ।

विच्छेदावभासमिति ।

बिम्बात् भिन्नत्वावभासं भिन्नदेशस्थत्वावभासं चेत्यर्थः ।

भेदस्य सत्यत्वाभावे किं भेदविरोधितादात्म्यं सत्यमित्युक्तमिति, नेत्याह –

किन्त्वेकत्वमिति ।

मायालक्षणकारणविशेषोक्त्या कथमेकस्य उभयत्र युगपत् स्थितिरिति ? तत्राह -

न हि मायायामिति ।