तत्त्वमसिवाक्यादितितत्त्वमसिद्धि इति ।
स्थाणुः पुरुष इति वाक्यात् पुरुषस्येव संसारिणो बाधो दृश्यत इत्यर्थः ।
सोऽयमिति वाक्यादिवैक्यमुपदिश्यत इत्याह –
मैवमिति ।
अन्यथा न तत्त्ववमसीति स्यात् इति, त्वमसीति न स्यादित्यन्वयः ।
उपरक्तमिति ।
राहुग्रस्तमित्यर्थः ।
न वारिस्थमिति ।
वारिस्थप्रतिबिम्बस्य बिम्बादित्यैक्ये सति हि वारिस्थमादित्यं नेक्षेतेति निषेधसम्भव इति भावः ।
ग्रीवास्थमुखस्य दर्पणस्थत्वाख्यदर्पणसम्बन्धो न गृह्यते । किन्तु तदेव मुखं दर्पणादविविक्तं प्रकाशत इति अख्यातिमतमनूद्य दूषयति -
यस्तु मन्यत इति ।
अनुभव एव निराकरोतीति ।
स्वात्मानं निरीक्ष्यमाणं पुरुषान्तरं दर्पणानुप्रविष्टमिव प्रतिबिम्बस्यानुभवः, तन्निराकरोतीत्यर्थः ।
उभयत्र पारमार्थिकत्वमाकाशस्य दृष्टमिति तद्व्यावर्तयति -
परिच्छिन्नमिति ।
परिच्छिन्नपरमाण्वोः देशद्वये सत्यत्वं विद्यत इति आशङ्क्य द्वयोः देशद्वये सत्यत्वमस्तु, एकस्य परिच्छिन्नस्य उभयत्र सत्यत्वं न सम्भवतीत्याह –
एकमिति ।
परिच्छिन्नस्यैकस्य पितृपुत्रसम्बन्धस्योभयत्र सत्यत्वं दृश्यत इत्याशङ्क्य एकत्र पितृत्वमन्यत्र पुत्रत्वमिति उभयात्मकत्वात्तस्य तथात्वमस्तु, एकस्वभावस्य मुखस्य न तथात्वमित्याह –
एकस्वभावमिति ।
एवंरूपस्य अवयविद्रव्याख्यावयवद्वये सत्यत्वं विद्यत इत्याशङ्क्य संश्लिष्टावयवद्वये सत्यत्वमस्तु, विच्छिन्नदेशद्वये सत्यत्वं न सम्भवतीत्याह -
विच्छिन्नदेशद्वय इति ।
पूर्वोक्तस्वभावस्य वंशस्य विच्छिन्नभित्तिद्वये सत्यत्वं दृश्यत इत्याशङ्क्य तत्रांशद्वयेनोभयत्रनोभयत्यत्वमितिसत्यत्वं सम्भवति, इह तु न सर्वात्मना उभयत्र सत्यत्वं सम्भवतीत्याह -
सर्वात्मना अवभासमानमिति ।
विच्छेदावभासमिति ।
बिम्बात् भिन्नत्वावभासं भिन्नदेशस्थत्वावभासं चेत्यर्थः ।
भेदस्य सत्यत्वाभावे किं भेदविरोधितादात्म्यं सत्यमित्युक्तमिति, नेत्याह –
किन्त्वेकत्वमिति ।
मायालक्षणकारणविशेषोक्त्या कथमेकस्य उभयत्र युगपत् स्थितिरिति ? तत्राह -
न हि मायायामिति ।