पञ्चपादिका
वक्तव्यकाशिका
 
ननु सत्येव बिम्बैकतावगमे प्रतिबिम्बस्य तद्गतो विच्छेदादिमिथ्यावभासः, तथा ब्रह्मैकतावगमेऽपि जीवस्य विच्छेदादिमिथ्यावभासो निवर्तितुमर्हति, उच्यतेदेवदत्तस्याचेतनांशस्यैव प्रतिबिम्बत्वात् , सचेतनांशस्यैव वा प्रतिबिम्बत्वे प्रतिबिम्बहेतोः श्यामादिधर्मेणेव जाड्येनाप्यास्कन्दितत्वात् तत् प्रतिबिम्बं बिम्बैकरूपतामात्मनो जानाति ; अचेतनत्वात् , तथा चानुभवः बिम्बचेष्टया विना प्रतिबिम्बं चेष्टतेइतियस्य हि भ्रान्तिरात्मनि परत्र वा समुत्पन्ना, तद्गतेनैव सम्यग्ज्ञानेन सा निवर्तते, यस्तु जानीते देवदत्तः प्रतिबिम्बस्यात्मनोऽभिन्नत्वं, तद्गतेन दोषेण संस्पृश्यते, नापि ज्ञानमात्रात् प्रतिबिम्बस्य निवृत्तिः ; तद्धेतोः दर्पणादेः पारमार्थिकत्वात्जीवः पुनः प्रतिबिम्बकल्पः सर्वेषां प्रत्यक्षश्चिद्रूपः नान्तःकरणजाड्येनास्कन्दितः चाहङ्कर्तृत्वमात्मनो रूपं मन्यते, बिम्बकल्पब्रह्मैकरूपताम् ; अतो युक्तस्तद्रूपावगमे मिथ्यात्वापगमः

औपाधिकधर्माध्यासस्य तत्त्वज्ञानादततज्ञानादननिवृत्तेरितिनिवृत्तेः एकत्वज्ञानेन निवर्तत इति परिहर्तुं जीवो ब्रह्मात्मतां न जानाति, प्रतिबिम्बत्वाद्देवदत्तप्रतिबिम्बवदिति शङ्कां प्रथमं परिहरति -

उच्यत इति ।

शरीरमेव चेतनमिति लोकायतः, तत्राह -

सचेतनांशस्यैव वेति ।

प्रतिबिम्बहेतोरिति ।

दर्पणस्येत्यर्थः ।

जाड्येनाप्यास्कन्दितत्वादिति ।

शरीरस्याचेतनत्वपक्षे स्वायजाड्येनेतिस्वीयजाड्येन, चेतनत्वपक्षे दर्पणजाड्येनास्कन्दितत्वादित्यर्थः । अचेतनत्वादित्यत्र लोकायतपक्षे अचेतनसमत्वादिति योज्यम् ।

तथा चानुभव इति ।

प्रतिबिम्बस्यापि चेतनत्वे बिम्बचेष्टां विनापि कदाचित् बिम्बवच्चेष्टेत तदभावात् प्रतिबिम्बस्याचेतनत्वमनुभूयत इत्यर्थः ।

बिम्बदेवदत्तस्येव बिम्बभूतब्रह्मण एव भ्रमनिरासितत्त्वज्ञानाश्रयत्वं स्यादिति शङ्कायां जीवत्वाज्ञत्वभ्रान्तत्वाभावान्न ज्ञानाश्रयत्वमित्याह -

यस्य हि भ्रान्तिरिति ।

आत्मनीति विषयसप्तमी ; देवदत्ते बिम्बत्वभ्रान्तत्वयोः सतोः कस्मात् भ्रान्तत्वस्यैव सम्यग्ज्ञानाश्रयत्वे प्रयोजकत्वम् उच्यत इत्याशङ्क्य भ्रान्तरूप्यं प्रति देवदत्तस्य बिम्बत्वाभावात् तत्र भ्रान्तत्वमेव सम्यग्ज्ञानाश्रयत्वे प्रयोजकं दृष्टं, तद्वदिहापि स्यादिति मत्वाह -

परत्र वेति ।

वाशब्द इवार्थः । अत्रापि विषयसप्तमी ।

स्वस्य जीवैक्यं ब्रह्म न जानाति चेत् सर्वज्ञताहानिः, जानाति चेत् स्वात्मन्येव संसारं पश्येदिति, नेत्याह -

यस्तु जानीत इति ।

कर्तृत्वादेरुपाधिभूताहङ्कारादेराविद्यत्वात्कर्मानपेक्षया एकत्वज्ञानेनैव निराससिद्धिः । अन्यत्रोपाधेः सत्वादनिवृत्तिरिति व्यवहितचोद्यं परिहरति -

नापि ज्ञानमात्रादिति ।

प्रतिबिम्बस्येति ।

प्रतिबिम्बभावस्य औपाधिकधर्मस्येत्यर्थः ।

जीवः प्रतिबिम्बं न भवति । प्रतिबिम्बत्वे सम्प्रतिपन्नवदचेतनत्वप्रसङ्गात् इत्याशङ्क्य जीवस्य चित्त्वमभ्युपगम्य प्रतिबिम्बत्वाभावः साध्यते ? उत प्रतिबिम्बत्वमभ्युपगम्य चित्त्वाभावः साध्यते इति विकल्प्य प्रतिबिम्बत्वाभावश्चेत् साध्यते तदा ‘रूपं रूपं प्रतिरूपो बभूव’कठो०उ० २ - ५ - ९, १०. इत्यादिश्रुतिविरुद्धमनुमानमित्याह -

जीवः पुनरिति ।

तर्हि जीवोऽचेतनः प्रतिबिम्बत्वात् सम्प्रतिपन्नवदिति जडत्वं साध्यते इत्याशङ्क्य प्रत्यक्षविरुद्धम् इत्याह -

सर्वेषां न इति ।

उपाधिजाड्येनातिरस्कृतचैतन्यत्वेन प्रत्यक्ष इत्याह –

नान्तःकरणजाड्येनेति ।

चिन्मात्रत्वं ब्रह्मत्वं नाम तद्रूपत्वं प्रत्यक्षं चेत् श्रवणादिवैयर्थ्यमित्याशङ्क्याह -

स चाहमिति ।