औपाधिकधर्माध्यासस्य तत्त्वज्ञानादततज्ञानादननिवृत्तेरितिनिवृत्तेः एकत्वज्ञानेन निवर्तत इति परिहर्तुं जीवो ब्रह्मात्मतां न जानाति, प्रतिबिम्बत्वाद्देवदत्तप्रतिबिम्बवदिति शङ्कां प्रथमं परिहरति -
उच्यत इति ।
शरीरमेव चेतनमिति लोकायतः, तत्राह -
सचेतनांशस्यैव वेति ।
प्रतिबिम्बहेतोरिति ।
दर्पणस्येत्यर्थः ।
जाड्येनाप्यास्कन्दितत्वादिति ।
शरीरस्याचेतनत्वपक्षे स्वायजाड्येनेतिस्वीयजाड्येन, चेतनत्वपक्षे दर्पणजाड्येनास्कन्दितत्वादित्यर्थः । अचेतनत्वादित्यत्र लोकायतपक्षे अचेतनसमत्वादिति योज्यम् ।
तथा चानुभव इति ।
प्रतिबिम्बस्यापि चेतनत्वे बिम्बचेष्टां विनापि कदाचित् बिम्बवच्चेष्टेत तदभावात् प्रतिबिम्बस्याचेतनत्वमनुभूयत इत्यर्थः ।
बिम्बदेवदत्तस्येव बिम्बभूतब्रह्मण एव भ्रमनिरासितत्त्वज्ञानाश्रयत्वं स्यादिति शङ्कायां जीवत्वाज्ञत्वभ्रान्तत्वाभावान्न ज्ञानाश्रयत्वमित्याह -
यस्य हि भ्रान्तिरिति ।
आत्मनीति विषयसप्तमी ; देवदत्ते बिम्बत्वभ्रान्तत्वयोः सतोः कस्मात् भ्रान्तत्वस्यैव सम्यग्ज्ञानाश्रयत्वे प्रयोजकत्वम् उच्यत इत्याशङ्क्य भ्रान्तरूप्यं प्रति देवदत्तस्य बिम्बत्वाभावात् तत्र भ्रान्तत्वमेव सम्यग्ज्ञानाश्रयत्वे प्रयोजकं दृष्टं, तद्वदिहापि स्यादिति मत्वाह -
परत्र वेति ।
वाशब्द इवार्थः । अत्रापि विषयसप्तमी ।
स्वस्य जीवैक्यं ब्रह्म न जानाति चेत् सर्वज्ञताहानिः, जानाति चेत् स्वात्मन्येव संसारं पश्येदिति, नेत्याह -
यस्तु जानीत इति ।
कर्तृत्वादेरुपाधिभूताहङ्कारादेराविद्यत्वात्कर्मानपेक्षया एकत्वज्ञानेनैव निराससिद्धिः । अन्यत्रोपाधेः सत्वादनिवृत्तिरिति व्यवहितचोद्यं परिहरति -
नापि ज्ञानमात्रादिति ।
प्रतिबिम्बस्येति ।
प्रतिबिम्बभावस्य औपाधिकधर्मस्येत्यर्थः ।
जीवः प्रतिबिम्बं न भवति । प्रतिबिम्बत्वे सम्प्रतिपन्नवदचेतनत्वप्रसङ्गात् इत्याशङ्क्य जीवस्य चित्त्वमभ्युपगम्य प्रतिबिम्बत्वाभावः साध्यते ? उत प्रतिबिम्बत्वमभ्युपगम्य चित्त्वाभावः साध्यते इति विकल्प्य प्रतिबिम्बत्वाभावश्चेत् साध्यते तदा ‘रूपं रूपं प्रतिरूपो बभूव’कठो०उ० २ - ५ - ९, १०. इत्यादिश्रुतिविरुद्धमनुमानमित्याह -
जीवः पुनरिति ।
तर्हि जीवोऽचेतनः प्रतिबिम्बत्वात् सम्प्रतिपन्नवदिति जडत्वं साध्यते इत्याशङ्क्य प्रत्यक्षविरुद्धम् इत्याह -
सर्वेषां न इति ।
उपाधिजाड्येनातिरस्कृतचैतन्यत्वेन प्रत्यक्ष इत्याह –
नान्तःकरणजाड्येनेति ।
चिन्मात्रत्वं ब्रह्मत्वं नाम तद्रूपत्वं प्रत्यक्षं चेत् श्रवणादिवैयर्थ्यमित्याशङ्क्याह -
स चाहमिति ।