पञ्चपादिका
वक्तव्यकाशिका
 
ननु व्यवहारयोग्यत्वे अध्यासः, अध्यासपरिनिष्पन्नाहंप्रत्ययबलात् व्यवहारयोग्यत्वम् इति प्राप्तमितरेतराश्रयत्वम् , ; अनादित्वेन प्रत्युक्तत्वात्तत्र एवंभूतस्य अहङ्कर्तुरिदमंशस्य ज्ञानसंशब्दितो व्यापारविशेषः सकर्मत्वात् कर्मकारकाभिमुखं स्वाश्रये कञ्चिदवस्थाविशेषमादधाति ; स्वाश्रयविकारहेतुत्वात् क्रियायाः प्राप्नोतिक्रियाहितकर्तृस्थविशेषवत् कर्मसम्बन्धो ज्ञातुः ज्ञेयसम्बन्धः इति गीयतेतेन विषयविशेषसम्बद्धमेवान्तःकरणे चैतन्यस्यावच्छेदकम्कर्मकारकमपि प्रधानक्रियासिद्धौ स्वव्यापाराविष्टं चैतन्यविवर्त्तत्वात् प्रधानक्रियाहितप्रमात्रवस्थाविशेषावच्छिन्नापरोक्षतैकरूपामपरोक्षतामभिव्यनक्तिततश्चात्मनोऽन्तःकरणावस्थाविशेषोपाधिजनितो विशेषः विषयानुभवसंशब्दितो विषयस्थापरोक्षैकरसः फलमिति क्रियैकविषयता फलस्य युज्यतेएवं चाहङ्कर्ता स्वांशचैतन्यबलेन व्यापाराविष्टतया प्रमाता, इति बुद्धिस्थमर्थं पुरुषश्चेतयत इत्युच्यतेतत्र प्रमातुः स्वयञ्ज्योतिषो विषयसम्बन्धसञ्जातविशेषोऽनुभवोऽपरोक्षतया सर्वान् प्रत्यविशिष्टोऽपि कारकाणां सम्भूय प्रधानक्रियासाधनत्वात् , येन सह साधनं, तन्निष्ठ एव, नान्यत्रकर्मकारकमपि येन सह साधनं, तस्यैवापरोक्षं ; गन्तृसम्बन्ध इव ग्रामस्य

व्यवहारयोग्यत्वे अध्यास इति ; अनादित्वेनेति ; तत्रैवम्भूतस्येति ; अहङ्कर्तुरिति ; इदमंशस्येति ; ज्ञानसंशब्दित इति ; व्यापारविशेष इति ; कर्मकारकाभिमुखं स्वाश्रय इति ; विकारहेतुत्वादिति ; स च प्राप्नोतिव्याप्नोति इति क्रियेति ; तेन विषयविशेषसम्बद्धसम्बन्धमितिमिति ; कर्मकारकमपीति ; प्रधानक्रियासिद्धाविति ; स्वव्यापारास्वव्यापारविष्टमितिविष्टमिति ; चैतन्यविवर्तत्वादिति ; प्रधानक्रियाहितेति ; अवस्थाविशेषावच्छिन्नेति ; एकरूपामिति ; ततश्चात्मनेति ; अनवस्थाविशेष इतिअवस्थाविशेष इति ; विषयानुभवसंशब्दित इति ; इति क्रियैकविषयताफलस्येति ; एवंचाहङ्कर्तेति ; तत्र च प्रमातुरिति ; सर्वान् प्रतीति ; येन सहेति ; कर्मकारकमपीति ; येन सहेति ;

व्यवहारयोग्यत्वे अध्यास इति ।

आत्मनः परिच्छिन्नतया स्फुरतीति व्यवहारयोग्यत्वे सति तस्मिन्नहङ्काराध्यासः अध्यस्ताहङ्कारवशात् परिच्छिन्नतया स्फुरितत्वमित्यन्योन्याश्रयत्वमित्यर्थः ।

अनादित्वेनेति ।

अहङ्कारावच्छिन्नतया स्फुरिते संस्काराध्यासः संस्कारावच्छिन्नतया स्फुरितेऽहङ्काराध्यास इति अनादित्वेनेत्यर्थः ।

अविकारित्वात् सर्वगतत्वात् चिद्रूपत्वाच्चात्मनो युगपत् सर्वावभासकत्वं कस्याप्यनवभासकत्वं वा स्यात् , न क्रमेण विषयविशेषप्रमातृत्वमित्याशङ्क्य क्रमेण इन्द्रियबुद्धिवृत्तिव्याप्त्यपेक्षया क्रमेण विषयविशेषप्रमातृत्वमुपपादयति -

तत्रैवम्भूतस्येति ।

परमार्थतोऽपि कार्यपरिच्छिन्नचित्स्वभावस्येत्यर्थः ।

अहङ्कर्तुरिति ।

परिणाम्यहङ्कारैक्याध्यासमापन्नस्येत्यर्थः ।

इदमंशस्येति ।

परिणाम्यहङ्कारस्येत्यर्थः ।

ज्ञानसंशब्दित इति ।

ज्ञानमिति शब्दयते केवलं न तु मुख्यज्ञानमित्यर्थः ।

रजःप्रधानान्तःकरणपरिणामरागादीन् यावर्त्त्यम् ईषद्रजस्पृष्टसत्वप्रधानान्तःकरणपरिणाम इत्याह -

व्यापारविशेष इति ।

कर्मकारकाभिमुखं स्वाश्रय इति ।

कर्मकारकेणाहङ्कारस्य सम्बन्धं जनयतीत्यर्थः ।

विकारहेतुत्वादिति ।

फलहेतुत्वादित्यर्थः ।

क्रियात्वात् स्वाश्रयेऽतिशयजनकत्वमस्तु । तस्मादतिशयस्य न विषयव्यापितेत्याशङ्क्य सकर्मकक्रियाजन्यत्वात् गमनक्रियाजन्यप्राप्तिवत् विषयव्यापित्वमित्याह -

स च प्राप्नोतिव्याप्नोति इति क्रियेति ।

प्राप्तिफलहेतुगमनक्रियेत्यर्थः ।

स्यादन्तःकरणस्य विषयसम्बन्धः आत्मनस्तु विषयविशेषावभासः कथमिति तदाह -

तेन विषयविशेषसम्बद्धसम्बन्धमितिमिति ।

स्ववृत्तिव्याप्तविषयेण सम्बद्धान्तःकरणस्य च चैतन्यावच्छेदकत्वात् त्रिकोणताद्यवस्थाविशेषापन्नायःपिण्डानुगताग्नेरिव उपाध्यनुगतरूपेणाहङ्कारावच्छिन्नचैतन्यस्य विषयाकारता स्यात् । अतस्तदाकारत्वादेव तदवभास इति भावः ।

अहङ्कारावच्छिन्नचैतन्यस्यैवं विषयाकारताख्यविषयसम्बन्धोऽस्तु । कथं विषयस्थत्वेन व्यक्ततया तत्साधकत्वमिति, तत्राह –

कर्मकारकमपीति ।

कर्मकारकमपि अपरोक्षतामभिव्यनक्ति इत्यन्वयः ।

प्रधानक्रियासिद्धाविति ।

बुद्धिवृत्त्युत्पत्तावित्यर्थः ।

स्वव्यापारास्वव्यापारविष्टमितिविष्टमिति ।

इन्द्रियप्रभाव्याप्ततयाऽभिभूततमोगुणं बुद्धिप्रभाव्याप्ततयाऽभिभूतरजस्कं केवलसत्वरूपेण चैतन्याभिव्यञ्जकत्वयोग्यं भवतीत्यर्थः ।

विषये चैतन्याभिव्यक्तिसिध्यर्थं तदधिष्ठानतया विषये चैतन्यमस्तीत्याह ।

चैतन्यविवर्तत्वादिति ।

भवतु विषये चैतन्यमभिव्यक्तम् , तस्य चाहङ्कारावच्छिन्नचैतन्यमित्यहङ्कारावच्छिन्नचैतन्येन सिद्धत्वव्यपदेशो न स्यादित्याशङ्क्य विषयसाधकत्वेन विषये अभिव्यक्तचैतन्यस्याहङ्कारतद्वृत्त्यभिव्यक्तचैतन्यस्य चैकतया अभिव्यक्तिरस्ति । व्यञ्जकोपाधीनामन्योन्यविशिष्टतया उपाधित्वात् । अतो मयावगतमिति व्यपदेशोपपत्तिरित्याह –

प्रधानक्रियाहितेति ।

अवस्थाविशेषावच्छिन्नेति ।

अवस्थाविशेषमापन्नाहङ्कारावच्छिन्नेत्यर्थः ।

एकरूपामिति ।

एकामित्यर्थः ।

चैतन्यस्याहङ्कारतद्वृत्तिताद्विषयेषु अभिव्यक्तस्यैकत्वेऽपि वृत्तिकर्त्रहङ्कारावच्छिन्नोऽनुभवः प्रमाता, वृत्त्यवच्छिन्नचैतन्यं विषयानुभवः, वृत्तिविषयघटावच्छिन्नचैतन्यं फलमिति विभागमाह –

ततश्चात्मनेति ।

अनवस्थाविशेष इतिअवस्थाविशेष इति ।

प्रमाणक्रियाकर्तृरूप इत्यर्थः । उपाधिजनितो विशेषः । प्रमातेति वाक्यशेषः ।

विषयानुभवसंशब्दित इति ।

वृत्त्यवच्छिन्नो विषयानुभवसंशब्दित इत्यर्थः ।

बुद्धिवृत्तेरहङ्काराश्रयत्वं घटविषयत्वं चास्ति । एकतया व्यक्तचैतन्याख्यफलस्य बिम्बभूताखण्डचैतन्यरूपात्माश्रयत्वमवच्छेदकाहङ्कारविषयत्वं चास्ति । अतः क्रियाफलयोः एकाश्रयत्वैकविषयत्वनियमासिद्धिरित्याशङ्क्य फलाश्रयात्मचैतन्यस्य क्रियाश्रयाहङ्कारैक्याध्यासात् एकाश्रयत्वं फलाख्यचैतन्यस्य क्रियाविषयघटावच्छेदादेकविषयत्वं चास्तीत्याह -

इति क्रियैकविषयताफलस्येति ।

विषयेत्याश्रयस्याप्युपलक्षणम् ।

बुद्धिस्थमर्थं पुरुषश्चेतयत इति साङ्ख्यवचनविरोधात् आत्मा स्वचैतन्योपरक्तं चेतयतीचेतय इत्युक्तमितित्युक्तमयुक्तमिति - तत्राह

एवंचाहङ्कर्तेति ।

प्रथमं बुद्धिव्याप्तमर्थं तत्राभिव्यक्तचिद्रूप चिद्रूपात्मस्वचैतन्येतिआत्मा स्वचैतन्योपरक्तत्वात् पश्चाच्चेतयत इत्येतदभिप्रेत्य साङ्ख्यवचनमिति भावः ।

प्रदीपोत्पादकस्य पुंसः तेन प्रदीपेन सर्वो विषयः प्रकाशते, तद्वद्विषयस्य चैतन्येनैकस्य द्रष्टुः सर्वो विषयः प्रकाशेत इत्याशङ्क्य विषयान्तरे बुद्धिव्याप्त्यभावादेव तत्रोनभिरितितत्रानभिव्यक्तत्वात् अप्रकाशः बुद्धिव्याप्ततया अभिव्यञ्जकविषयविशेषस्यैव प्रकाश इत्याह -

तत्र च प्रमातुरिति ।

सर्वान् प्रतीति ।

सर्वविषयान् प्रतीत्यर्थः ।

येन सहेति ।

येन कर्मकारकेण सहेत्यर्थः ।

चैतन्यस्य विषये अभिव्यक्तत्वात् इतराहङ्कारावच्छिन्नचैतन्याभेदेनानभिव्यक्तत्वात् एकस्यैव प्रमातुः प्रकाशेतेत्याह –

कर्मकारकमपीति ।

येन सहेति ।

येन प्रमात्रा सहेत्यर्थः ।