पञ्चपादिका
वक्तव्यकाशिका
 
ननु तत्रापि यदि नामेदानीमसन्निहितः सर्पः, तथापि पूर्वनिर्वृत्ततदनुभवसंस्कारः समस्त्येव, बाढम् ; इहाप्यहङ्कर्तृतातत्संस्कारयोर्बीजाङ्कुरयोरिवानादेः कार्यकारणभावस्य वक्ष्यमाणत्वात् तत्संस्कारो विभ्रमहेतुः विद्यतेतत्र यद्यपि अनिर्वचनीयतयैव अरुणादिना स्फटिकादेः सावयवत्वेन सम्भेदयोग्यस्यापि असम्भेदावभासः सिद्धः ; तथापि तदासङ्गीव स्फटिकप्रतिबिम्बमुत्प्रेक्षते, रज्ज्वां पुनः सर्पबुद्धिरेव, तत्सम्भिन्नत्वमसम्भिन्नत्वं वा तस्याम्तेन असङ्गो हि सज्जते’ (बृ. उ. ३-९-२६) असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४-३-१५) इत्यादिश्रुतिसमर्पितासङ्गता आत्मनो स्पष्टं दर्शितेति तदर्थं घटाकाशोदाहरणम्तत्र हि तत्परामर्शादृते भेदरूपकार्यसमाख्याः स्वगता दृश्यन्तेएतच्च सर्वमुदाहरणजातं श्रुतितन्न्यायानुभवसिद्धस्य तदसम्भावनापरिहाराय बुद्धिसाम्यार्थं , वस्तुन एव साक्षात् सिद्धयेतदेवं यद्यपि चैतन्यैकरसोऽनिदमात्मकत्वादविषयः ; तथाप्यहङ्कारे व्यवहारयोग्यो भवतीति गौण्यावृत्त्या अस्मत्प्रत्ययविषयतोच्यते ; प्रमेयस्य व्यवहारयोग्यत्वाव्यभिचारात्

रज्जुसर्पभ्रान्तावपि पूर्वमनुभूतसत्यसर्पोपाधिसर्वोपाधिरितिरस्तीति चोदयति -

ननु तत्रापीति ।

अहङ्कार भ्रमस्य दर्पणादिवत् स्वतन्त्रतया भ्रमकालीनोपाधिना भवितव्यमित्युच्यते, किं वा पूर्वमनुभूततया स्वसंस्कारद्वारेण भ्रमहेतूपाधिरपेक्षितव्य इत्युच्यत इति विकल्प्य स्वतन्त्रोपाधिश्चेत् सः सर्पभ्रमेऽपि नास्ति । इतरश्चेत् सोऽत्राप्यस्ति । पूर्वभ्रमसिद्धाहङ्कारसंस्कारात् अद्यतनाहङ्काराध्यासोत्पत्तेरित्याह –

बाढमित्यादिना ।

अहङ्कर्तृतेति ।

अहङ्कार इत्यर्थः ।

श्रुतिषु घटाकाशोदाहरणेन किं प्रयोजनमित्याशङ्क्य आत्मनोऽसङ्गत्वसिद्धिः प्रयोजनमित्याह -

तदर्थं घटाकाशोदाहरणमिति ।

आत्मनोऽसङ्गत्वाभावात् नोदाहरणापेक्षेत्याशङ्क्य असङ्गत्वप्रमाणमाह -

‘असङ्गो न ही’बृ०उ० ३ - ९ - २६, (४ - २ - ४, ४ - ४ - २२, ४ - ५ - १५)ति ।

स्फटिकोदाहरणेनासङ्गत्वं सिद्ध्यतीत्याशङ्क्य नेत्याह -

तत्र यद्यपीति ।

स्फटिकादेः सावयवत्वेन अरुणादिना सम्भेदयोग्यस्याप्यरूणादेःअरुजादेरिति अनिर्वचनीयतया असम्भेदावगमो यद्यपि सिद्ध इत्यन्वयः ।

तदसङ्गीवेति ।

द्रव्यगुणरूपत्वात् तेनारूणादिना सम्बन्धीव स्फटिको लक्षित इत्यर्थः ।

रज्जुसर्पोदाहरणेनासङ्गत्वं सिद्ध्यतीत्याशङ्क्य तत्र सर्पेण ऐक्यबुद्धित्वादेव संसर्गित्वेन प्रतीत्यभावात् संसर्गित्वेन प्रतीततया निरूप्यमाणे असङ्गित्वेनोदाहरणत्वं रज्जोर्नास्तीत्याह -

रज्ज्वां पुनरिति ।

असम्भिन्नत्वं वेति ।

असंसृष्टत्वमिवेत्यर्थः ।

रूप इति ।

घटपरिमिताकाशरूपत्वमित्यर्थः ।

कार्येति ।

जलादिधारणकार्यमित्यर्थः ।

समाख्येति ।

घटाकाशः करकाकाश इत्यादिशब्दविषयत्वमित्यर्थः ।

उदाहरणैरेवाविकारित्वैकत्वासङ्गत्वसिद्धे ; नागमोपयोग इति, नेत्याह -

एतच्च सर्वमिति ।

बुद्धिसामर्थ्यं चेति ।

तद्वदिदमपि सम्भवतीति दृष्टान्तेन समत्वग्रहणलक्षणसम्भावनाबुद्ध्युत्पत्तय इत्यर्थः ।

अस्मत्प्रत्ययविषयत्वादिति भाष्यगतविषयशब्दार्थमाह -

तदेवं यद्यपीति ।

अनिदमात्मकत्वादविषय इति ।

शुक्तिवदनिन्द्रियविषयत्वात् जन्यज्ञानाविषय इत्यर्थः ।

तथाप्यहङ्कारे व्यवहारयोग्यो भवतीति ।

यादृग्ज्ञानाधीनत्वेन परिच्छिन्नतया स्फुरति यः पदार्थः स तस्य ज्ञानस्य विषयत्वेन दृष्टः, तद्वदात्माप्यहङ्कारेऽभिव्यक्तत्वेन परिच्छिन्नतया स्फुरतीति तं प्रत्यात्माप्रत्यात्मविषय इति विषय इत्युच्यते । स्फुरणस्वभावत्वेऽपि परिच्छेदस्य अहङ्काराधीनत्वादित्यर्थः ।

प्रमेयस्य व्यवहारयोग्यत्वाव्यभिचारादिति ।

प्रसिद्धप्रमेयस्य परिच्छिन्नतया स्फुरितत्वाव्यभिचारादित्यर्थः ।