ननु नीलादिविषयोऽपि चेदपरोक्षस्वभावः, नीलात्मिका संविदित्युक्तं स्यात् ; अतः स एव माहायानिकपक्षः समर्थितः, मैवम् — परस्परव्यावृत्तौ नीलपीताववभासेते, अपरोक्षता तु न तथा, एकरूपावगमाद्विच्छेदावभासेऽपि, अतः न तत्स्वभावता । यदि स्यात् , तद्वदेव व्यावृत्तस्वभावताऽप्यवभासेत, न च तथा । किं च तैरपि नीलात्मकसंविदोऽन्य एव पराग्व्यावृत्तोऽपरोक्षः प्रत्यगवभासः स्वरूपमात्रे पर्यवसितो विकल्प उपेयते, प्रतीयते च नीलसंवित् प्रत्यग्व्यावृत्तेदन्तया ग्राह्यरूपा ; ततश्च वस्तुद्वयं ग्राह्यग्राहकरूपमितरेतरव्यावृत्तं सिद्धम् ॥
अहमिति प्रतीयमानाहङ्कारावच्छिन्नचैतन्यैक्यात् विषयाभिन्नचैतन्यस्य अहमित्यवभासमानज्ञानस्य ज्ञेयेनाभेदं वदतो विज्ञानवादिनां मतमायातमिति चोदयति -
ननु नीलादिविषयोऽपि चेदिति ।
परिच्छिन्नक्षणिकसकर्मकबुद्धिज्ञानस्य तस्मात् भेदेनार्थक्रियासामर्थ्यसत्वशून्यक्षणिकविषयेण वास्तवतादात्म्यं माहायानिकैरङ्ग्यकारि । तद्विरुद्धत्वेन नित्यापरिच्छिन्नचैतन्यरूपसंवेदनस्य ततो भेदेनार्थक्रियासमर्थस्थायिप्रपञ्चेन ऐक्याभासोऽस्माभिरङ्गीक्रियते । अतः एवंविधचैतन्यस्यैवंविधप्रपञ्चेनैक्याभासोक्त्या न माहायानिकपक्षप्रसङ्ग इति मत्वा चैतन्यस्य व्यापिनित्यत्वं परस्परव्यावृत्तानित्यविषयेणाकाशघटयोरिव वास्तवैक्यतादात्म्याभावं चाह -
मैवम् , परस्परेत्यादिना ।
विच्छेदावभासेऽपीति ।
नीलापरोक्षं पीतापरोक्षमिति औपाधिकभेदावभासेपीत्यर्थः ।
न तत्स्वन तत्स्वभावेतिभावतेति ।
नीलादिस्वनीलादिस्वभावाम्भावो न भवतीत्यर्थः ।
अहमिति प्रत्यग्रूपेणावभासमानं ज्ञानं पराग्रूपं नीलाद् व्यावृत्ततया परोक्षमिति बौद्धैरभ्युपगमात् गन्तृगन्तव्ययोरिव विषयसंविद्भेदः प्रत्यक्ष इत्याह -
किञ्च तैरपीति ।
नीलात्मकसंविदिति नीलमुच्यते ।
प्रत्यगवभास इति
अहमिति संवेदनमुच्यते ।
अन्य एवेत्युक्तेऽहङ्कारात् अन्यचैतन्यवत् किमहन्तया नीलस्यावभासं सहत् इति नेत्याह -
पराग्व्यावृत्त इति ।
प्रत्यगवभासस्वरूपमात्रपर्यवपर्यवसित इतिसितम् इत्युक्ते किं तदिति धर्म्याकाङ्क्षायामाह -
विकल्प इति ।
ज्ञानमित्यर्थः ।
प्रत्यग्व्यावृत्त इत्युक्तेऽहङ्कारस्यैव नीलसंविच्छब्दितनीलस्यापि किमहमिति प्रतीतिः स्यात् इत्याशङ्क्य गन्तव्यस्येवेदन्तयावभास इत्याह -
इदन्तया ग्राह्यग्राह्यारूपेतिरूपेति ।
अतो बौद्धैरपि ज्ञानज्ञेययोः भेदस्य प्रत्यक्षत्वाङ्गीकारात् तयोरैक्योक्तावपि न मे बौद्धमतप्रसङ्ग इत्यभिप्रायः ।
वस्तुद्वयमिति ।
ज्ञानज्ञेययोः स्वरूपभेदेन भिन्नत्वमुच्यते ।
अत्यन्तभेदमाह –
इतरेतरव्यावृत्तमिति ।
एकजातीयत्वाभावमाह –
ग्राह्यग्राहकरूपमिति ।