पञ्चपादिका
वक्तव्यकाशिका
 
नैतत्द्वयोरपि स्वरूपमात्रनिष्ठयोः कुतो विषयविषयिभावः ? कथं पुनःइदमहं जानामी’ति तयोर्ग्राह्यग्राहकतावभासः ? नायं तदवभासः, किन्तुअहमि’तिइदमि’तिजानामी’ति परस्परव्यावृत्ता विकल्पा एतेकथं पुनः तेषु कटाक्षेणाप्यन्योन्यमनीक्षमाणेष्वयं सम्बन्धावगमः ? तद्वासनासमेतसमनन्तरप्रत्ययसमुत्थं सङ्कलनात्मकं प्रत्ययान्तरमेतत् ; नेह सम्बन्धावगमः ? किं पुनः एवमनुभवानारूढामेव प्रक्रियां विरचयति भवान् ! क्षणविध्वंसिनः क्रियानुपपत्तेः ; स्थायित्वे हि सत्यहमुल्लेख्यस्य स्थायिनैव नीलादिना क्रियानिमित्तः सम्बन्धः, ततश्च क्रियानिमित्तैव नीलादेरप्यपरोक्षता स्यात् , स्थायित्वमस्तियद्येवं, ’अहमि’ति संविदः प्रतिक्षणं स्वलक्षणभेदेन भाव्यं, किं विद्यते ? वेति ? स्वसंविदमगूहमानैरेवाभिधीयताम् ! अथ अत्यन्तसादृश्यात् भेदोऽवभासते इति, संविदोऽपि चेत् स्वरूपं नावभासते, आयातमान्ध्यमशेषस्य जगतः ! अपि तद्रूपप्रतिभासे सादृश्यकल्पना प्रमाणविरुद्धा, निष्प्रमाणिका ! तद्रूपप्रतीतेः व्यामोहत्वात् प्रमाणविरुद्धता, नाप्यप्रामाणिकता ; निर्बीजभ्रान्त्ययोगादिति चेत् , इतरेतराश्रयत्वात्सिद्धे व्यामोहे सादृश्यसिद्धिः ; प्रमाणविरोधाभावात् , प्रमाणसद्भावाच्च, सिद्धे सादृश्ये तन्निमित्ता व्यामोहसिद्धिः

संविदा नीलसिद्ध्यर्थं संविन्नीलयोरभेदो वक्तव्य इति विज्ञानवादी चोदयति -

नैतद्वयोरपीति ।

स्वरूपमात्रस्वरूपमात्रयोनिष्ठयोरितिनिष्ठयोरिति ।

अन्योन्यस्मिन् अननुप्रविष्टायः शलाकाकल्पयोरित्यर्थः ।

इदमहं जानामीति ज्ञातृज्ञानज्ञेयरूपेण भिन्नपदार्थानां संसर्गावभासात्संसर्गावभासाम् इति भेदोऽस्तीत्याह सिद्धान्ती -

कथं पुनरिदं जानामीति ।

ग्राह्यग्राहकतावग्राह्यग्राहकाभासत इतिभास इति ।

ज्ञानादन्योन्यं च कथं व्यावृत्तव्यावृत्त्या इतिरूपावभास इत्यर्थः ।

इदमित्याकारस्य अहमित्याकारस्य च न ज्ञानातिरिक्ततया ज्ञानसंसर्गवदवभासित्वम् । किन्तु तावप्यसंसृष्टौ क्रमभाविज्ञानरूपावित्याह विज्ञानवादी -

नायं तदवतदवभासी इतिभास इति ।

त्वत्पक्षे क्रमवर्त्तित्वात् स्वसंवेद्यत्वाच्च अन्योन्याविषयत्वात् इदमित्यादित्रयेषु कथं युगपत् सम्बन्धावभाससम्भव इत्याह सिद्धान्ती -

कथं पुनस्तेष्विति ।

इदमहं जानामीति ज्ञानज्ञातृज्ञेयरूपेण भिन्नपदार्थसम्बन्धावभासि न भवति, इदमिति, अहमिति, जानामीति च ज्ञानत्रयजन्यं विशिष्टमेकं ज्ञानमित्याह विज्ञानवादी -

तद्वासनेति ।

अहमित्यहङ्कल्पनायुक्तं यत् ज्ञानं भवति इदमिति विषयविकल्पनायुक्तं च यत् ज्ञानं भवति, ते एव विज्ञाने वासनेत्यर्थः ।

समनन्तरप्रत्ययेति ।

अहमिदमिति ज्ञानद्वयस्य वासनासहितं जानामीति क्रियाकल्पनायुक्तं यज्ज्ञानं तदुच्यत इत्यर्थः ।

सङ्कलनात्मकमिति ।

ज्ञानत्रयाकारैर्लब्धाकाराश्रयात्मकमित्यर्थः ।

न सम्बन्धावगम इति ।

ज्ञानस्य ज्ञानातिरिक्तेदमहमित्याकारयोः यश्च सम्बन्धावगमोऽयं न भवतीत्यर्थः ।

आह सिद्धान्ती -

किं पुनरेवमिति ।

अहमित्यादिज्ञानत्रये जाते तदनन्तरमहमिदं जानामीति विशिष्टज्ञानं जायत इति नानुभूयते, किन्तु प्रथमत एवाहमिदं जानामीति ज्ञानतद्व्यतिरिक्तग्राह्यग्राहकाणां संसर्गावभासदर्शनात् ज्ञानादतिरिक्तं नीलवस्तु अभ्युपेयमिति भावः ।

प्रथमं बुभुत्सां कृत्वा पश्चात् कारकसंवेदनं कृत्वा क्रियां सम्पाद्य क्रियाद्वारेण सम्बन्धार्थावभासित्वं क्षणिकज्ञानस्यानुपपन्नम् , तस्मात् क्षणिकज्ञानस्य नीलाभेदेनावभासित्वं वक्तव्यम् , अन्यथाविज्ञाने नीलस्य प्रतिभासानुपपत्तेरिति विज्ञानवादी आह -

क्षणविध्वंसिन इति ।

प्रत्यक्षेण क्षणिकत्वसिद्धिश्चेन्न तावत् प्रत्यक्षेणाहमिति संविदः क्षणिकत्वसिद्धिरित्याह –

यद्येवमिति ।

क्षणभेदोपाधिकभेदविषयो भेदप्रतिभासः, सैवेयं संविदिति प्रत्यभिज्ञानिरूपाधिकैक्यविषयेति निरूप्य भेदो न विद्यत इत्यभिधीयतामित्याह -

स किं विद्यत इति ।

न भेदोऽवभासत इति ।

भासमानोऽपि भेदो न स्पष्टोऽवभासत इत्यर्थः ।

संविदोऽपि चेत् स्वरूपं नावभासत इति ।

संविदः स्वातिस्वातिकतेतिरिक्त भेदासम्भवात् स्वरूपभूतोऽपि भेदो नावभासते चेत् संविदोऽप्यनवभासात् आन्ध्यं स्यादित्यर्थः ।

तद्रूपप्रतिभास इति ।

ऐक्यार्थकप्रत्यभिज्ञायां सत्यामित्यर्थः ।

निष्प्रमाणिका चेति ।

भिन्नयोरैक्यभ्रमः, सादृश्यकल्पकः । तदधीना च सादृश्यकल्पनेत्यर्थः ।

तद्रूपप्रतीतेः व्यामोहत्वादिति ।

ऐक्यसाधकप्रत्यभिज्ञायाः भ्रान्तित्वादित्यर्थः ।

ऐक्यभ्रमस्य सादृश्याख्यकारणाभावेऽसम्भवात् , स्वहेतुसादृश्यकल्पकत्वात् नाप्रमाणकत्वं सादृश्यकल्पनाया इत्याह –

निर्बीजभ्रान्त्ययोगादिति ।

सिद्धे व्यामोह इति ।

ऐक्यज्ञानस्य भ्रमत्वे सिद्धे सतीत्यर्थः ।

प्रमाणसद्भावाच्चेति ।

ऐक्यभ्रमस्य कल्पकसद्भावाच्चेत्यर्थः ।

व्यामोहसिद्धिरिति ।

ऐक्यज्ञानस्य भ्रमत्वसिद्धिरित्यर्थः । अत्यैक्येतिअत्रैक्यज्ञानस्य प्रामाण्यसिद्धावपि तुल्यमितरेतराश्रयवत्वमित्यर्थः ।