संविदा नीलसिद्ध्यर्थं संविन्नीलयोरभेदो वक्तव्य इति विज्ञानवादी चोदयति -
नैतद्वयोरपीति ।
स्वरूपमात्रस्वरूपमात्रयोनिष्ठयोरितिनिष्ठयोरिति ।
अन्योन्यस्मिन् अननुप्रविष्टायः शलाकाकल्पयोरित्यर्थः ।
इदमहं जानामीति ज्ञातृज्ञानज्ञेयरूपेण भिन्नपदार्थानां संसर्गावभासात्संसर्गावभासाम् इति भेदोऽस्तीत्याह सिद्धान्ती -
कथं पुनरिदं जानामीति ।
ग्राह्यग्राहकतावग्राह्यग्राहकाभासत इतिभास इति ।
ज्ञानादन्योन्यं च कथं व्यावृत्तव्यावृत्त्या इतिरूपावभास इत्यर्थः ।
इदमित्याकारस्य अहमित्याकारस्य च न ज्ञानातिरिक्ततया ज्ञानसंसर्गवदवभासित्वम् । किन्तु तावप्यसंसृष्टौ क्रमभाविज्ञानरूपावित्याह विज्ञानवादी -
नायं तदवतदवभासी इतिभास इति ।
त्वत्पक्षे क्रमवर्त्तित्वात् स्वसंवेद्यत्वाच्च अन्योन्याविषयत्वात् इदमित्यादित्रयेषु कथं युगपत् सम्बन्धावभाससम्भव इत्याह सिद्धान्ती -
कथं पुनस्तेष्विति ।
इदमहं जानामीति ज्ञानज्ञातृज्ञेयरूपेण भिन्नपदार्थसम्बन्धावभासि न भवति, इदमिति, अहमिति, जानामीति च ज्ञानत्रयजन्यं विशिष्टमेकं ज्ञानमित्याह विज्ञानवादी -
तद्वासनेति ।
अहमित्यहङ्कल्पनायुक्तं यत् ज्ञानं भवति इदमिति विषयविकल्पनायुक्तं च यत् ज्ञानं भवति, ते एव विज्ञाने वासनेत्यर्थः ।
समनन्तरप्रत्ययेति ।
अहमिदमिति ज्ञानद्वयस्य वासनासहितं जानामीति क्रियाकल्पनायुक्तं यज्ज्ञानं तदुच्यत इत्यर्थः ।
सङ्कलनात्मकमिति ।
ज्ञानत्रयाकारैर्लब्धाकाराश्रयात्मकमित्यर्थः ।
न सम्बन्धावगम इति ।
ज्ञानस्य ज्ञानातिरिक्तेदमहमित्याकारयोः यश्च सम्बन्धावगमोऽयं न भवतीत्यर्थः ।
आह सिद्धान्ती -
किं पुनरेवमिति ।
अहमित्यादिज्ञानत्रये जाते तदनन्तरमहमिदं जानामीति विशिष्टज्ञानं जायत इति नानुभूयते, किन्तु प्रथमत एवाहमिदं जानामीति ज्ञानतद्व्यतिरिक्तग्राह्यग्राहकाणां संसर्गावभासदर्शनात् ज्ञानादतिरिक्तं नीलवस्तु अभ्युपेयमिति भावः ।
प्रथमं बुभुत्सां कृत्वा पश्चात् कारकसंवेदनं कृत्वा क्रियां सम्पाद्य क्रियाद्वारेण सम्बन्धार्थावभासित्वं क्षणिकज्ञानस्यानुपपन्नम् , तस्मात् क्षणिकज्ञानस्य नीलाभेदेनावभासित्वं वक्तव्यम् , अन्यथाविज्ञाने नीलस्य प्रतिभासानुपपत्तेरिति विज्ञानवादी आह -
क्षणविध्वंसिन इति ।
प्रत्यक्षेण क्षणिकत्वसिद्धिश्चेन्न तावत् प्रत्यक्षेणाहमिति संविदः क्षणिकत्वसिद्धिरित्याह –
यद्येवमिति ।
क्षणभेदोपाधिकभेदविषयो भेदप्रतिभासः, सैवेयं संविदिति प्रत्यभिज्ञानिरूपाधिकैक्यविषयेति निरूप्य भेदो न विद्यत इत्यभिधीयतामित्याह -
स किं विद्यत इति ।
न भेदोऽवभासत इति ।
भासमानोऽपि भेदो न स्पष्टोऽवभासत इत्यर्थः ।
संविदोऽपि चेत् स्वरूपं नावभासत इति ।
संविदः स्वातिस्वातिकतेतिरिक्त भेदासम्भवात् स्वरूपभूतोऽपि भेदो नावभासते चेत् संविदोऽप्यनवभासात् आन्ध्यं स्यादित्यर्थः ।
तद्रूपप्रतिभास इति ।
ऐक्यार्थकप्रत्यभिज्ञायां सत्यामित्यर्थः ।
निष्प्रमाणिका चेति ।
भिन्नयोरैक्यभ्रमः, सादृश्यकल्पकः । तदधीना च सादृश्यकल्पनेत्यर्थः ।
तद्रूपप्रतीतेः व्यामोहत्वादिति ।
ऐक्यसाधकप्रत्यभिज्ञायाः भ्रान्तित्वादित्यर्थः ।
ऐक्यभ्रमस्य सादृश्याख्यकारणाभावेऽसम्भवात् , स्वहेतुसादृश्यकल्पकत्वात् नाप्रमाणकत्वं सादृश्यकल्पनाया इत्याह –
निर्बीजभ्रान्त्ययोगादिति ।
सिद्धे व्यामोह इति ।
ऐक्यज्ञानस्य भ्रमत्वे सिद्धे सतीत्यर्थः ।
प्रमाणसद्भावाच्चेति ।
ऐक्यभ्रमस्य कल्पकसद्भावाच्चेत्यर्थः ।
व्यामोहसिद्धिरिति ।
ऐक्यज्ञानस्य भ्रमत्वसिद्धिरित्यर्थः । अत्यैक्येतिअत्रैक्यज्ञानस्य प्रामाण्यसिद्धावपि तुल्यमितरेतराश्रयवत्वमित्यर्थः ।