पञ्चपादिका
वक्तव्यकाशिका
 
यस्तु मन्यतेसहकारिजनितविशेषो हेतुः कार्यं जनयति ; अन्यथाऽनुपकारिणोऽपेक्षायोगादिति ; वक्तव्यःविशेषस्य हेतुरहेतुर्वा ? अहेतुश्चेत् , विशेषोत्पत्तौ नापेक्ष्येत ; तत्र केवला एव सहकारिणो विशेषमुत्पादयेयुः, ततश्च कार्यं स्यात्अथ हेतुः ? सहकारिभिरजनितविशेषस्तमेव कथं कुर्यात् ? विशेषस्य वा जनने अनवस्थाअथ मतं सर्वं कार्यं सहकारिजनितात्मभेदहेतुजन्यम् , समग्रेषु हेतुषु तावत्येवाभवदङ्कुरादि ; तथा किञ्चित्सन्निहितसहकारिहेतुजन्यं, यथा अक्षेपकारीन्द्रियादिज्ञानम् ; तत्र आद्यो विशेषः सहकारिसन्निधानमात्रलभ्यः ; अक्षेपकारीन्द्रियादिज्ञानवदिति नानवस्था ? अनुपकुर्वन्नपि तर्हि सहकारी अपेक्ष्येत हि तत्र हेतोः सहकारिभ्य आत्मभेदःनानुपकुर्वन्नपेक्ष्यते ; अतिप्रसङ्गात्स्वरूपे तु नोपकरोति, किन्तु कार्ये ; तत्सिद्धेस्तन्नान्तरीयकत्वात् ? नित्योपि तर्ह्यनाधेयातिशयो भावः कार्यसिद्धये क्षणिक इव सहकारिणमपेक्षत इति किं नाभ्युपेयते ? यथैव क्षणिको भावः सहकारिसमवधाने एव कार्यं जनयति ; सामग्रीसाध्यत्वात् , तथा नित्योऽपि स्वरूपानुपयोगित्वेऽपि सहकारिसमवधानं कार्योपयोगादपेक्षेतअथ मतम्क्षणिकोऽपि नैवापेक्षते, जन्यजनकस्य स्वयमन्यापेक्षानुपपत्तेः, कार्यं तु यदन्यसन्निधौ भवति तत् ; तस्यान्यसन्निधावेव भावात् अन्यथा चाभावात् , नित्यस्य तु जनकस्य सर्वदा जननप्रसङ्गःको हेतुरन्यापेक्षायाः ? क्षणिकस्तु यो जनको भावः पुरस्तात् , पश्चादिति पूर्वोत्तरकालयोः कार्योत्पादः

क्व तर्हि सहकार्युपयोग इत्यपेक्षायां तत्र मतान्तरमुपन्यस्य पूर्ववादिनं दूषयति -

यस्तु मन्यते सहकारिजनितविशेष इति ।

जलादिसहकारिजनितोच्छूनतादि विशेषयुक्तो हेतुरित्यर्थः ।

प्रधानहेतोरकिञ्चित्करत्वं स्यादित्याह -

तत्र केवला एवेति ।

ततश्चेति ।

विशेषादित्यर्थः ।

जनितविशेष इति ।

प्रथमविशेषातिरिक्तविशेषहीनः प्रथमविशेषमेव कथं कुर्यादित्यर्थः ।

विशेषस्य वा जनन इति ।

प्रथमविशेषातिरिक्तविशेषस्य जनन इत्यर्थः ।

न सर्वं कार्यं सहकारिजनितविशेषयुक्तहेतुजन्यम् , किञ्चित् तथाविधहेतुजन्यम् , किञ्चित्तु सहकारिजनितविशेषहीनहेतुजन्यमिति अव्यवस्थामनवस्थापरिहाराय आह -

अथ मतमिति ।

तावत्येवेति ।

उच्छूनतादिविशेषे सत्येवेत्यर्थः ।

सन्निहितसहकारीति ।

न तु सहकारिजनितविशेषयुक्तहेतुजन्यमिति भावः ।

यथा अक्षेपकारीति ।

विषयसंयोगे कृते पश्चात् स्वसंयुक्तकर्मकारकेण सहकारिणा जनितविशेषवत्वेन नोत्तरक्षणे ज्ञानजनकत्वमिन्द्रियस्येत्यर्थः ।

न हि तत्र हेतोरिति ।

प्रथमविशेषं प्रति हेतोः सहकारिजनितविशेषान्तराभावेऽपि सहसहर्हपेक्षेतिकार्यपेक्षा विद्यत इत्यर्थः ।

क्षणिकवादी मतान्तरं दूषयति -

नानुपकुर्वन्निति ।

अतिप्रसङ्गादिति ।

सर्वस्य सहकारित्वप्रसङ्गादित्यर्थः ।

क्व तर्हि सहकार्युपकार इत्यपेक्षायामाह -

स्वरूपे त्विति ।

हेतावित्यर्थः ।

कार्य इति ।

कार्यं हि सहकारिणा जायमानमुपक्रियत इत्यर्थः ।

आह सिद्धान्ती

नित्योऽपीति ।

तदेव प्रपञ्चयति ।

यथैव क्षणिको भाव इति ।

सामग्रीसाध्यत्वादिति ।

बहुकारकव्यापारसाध्यत्वादित्यर्थः ।

कार्यमेव सहकारिणमपेक्षते न कारणमिति शङ्कते -

अथ मतं क्षणिक इति ।

जन्यजनकस्य स्वयमित्यस्यायमर्थः कार्यजनकस्य सहकारिणः कार्यादन्यकारणेनापेक्ष्यमाणत्वानुपपत्तेरिति यदन्यसन्निधौ भवति तदित्यत्र तत्कार्यमपेक्षते, तत्सहकार्यपेक्षत इति वाक्यशेषः ।

अन्यसन्निधावेवेति ।

सहकारिसन्निधावेवेत्यर्थः ।

नित्यं कारणमिति पक्षेऽपि कार्यमेव सहकारिणमपेक्ष्य क्रमेण भविष्यतीति, नेत्याह -

नित्यस्य तु जनकस्येति ।

सहकारिणां कारणस्य च सर्वदा भावात् तेषां सम्बन्धस्य च तेभ्य एव सदा भावादिति भावः ।

क्षणिककारणस्यापि भावावच्छेदकक्षणात् इतरकाले सहकार्यपेक्षया कार्यजनकत्वे विशेषाभावात् सर्वदा कार्यजनिः स्यादिति नेत्याह -

क्षणिकस्तु यो जनक इति ।

यः क्षणिको जनकः स तु भावः तस्य सदातनत्वाभावान्न सदा कार्यजन्मेत्यर्थः ।