क्व तर्हि सहकार्युपयोग इत्यपेक्षायां तत्र मतान्तरमुपन्यस्य पूर्ववादिनं दूषयति -
यस्तु मन्यते सहकारिजनितविशेष इति ।
जलादिसहकारिजनितोच्छूनतादि विशेषयुक्तो हेतुरित्यर्थः ।
प्रधानहेतोरकिञ्चित्करत्वं स्यादित्याह -
तत्र केवला एवेति ।
ततश्चेति ।
विशेषादित्यर्थः ।
जनितविशेष इति ।
प्रथमविशेषातिरिक्तविशेषहीनः प्रथमविशेषमेव कथं कुर्यादित्यर्थः ।
विशेषस्य वा जनन इति ।
प्रथमविशेषातिरिक्तविशेषस्य जनन इत्यर्थः ।
न सर्वं कार्यं सहकारिजनितविशेषयुक्तहेतुजन्यम् , किञ्चित् तथाविधहेतुजन्यम् , किञ्चित्तु सहकारिजनितविशेषहीनहेतुजन्यमिति अव्यवस्थामनवस्थापरिहाराय आह -
अथ मतमिति ।
तावत्येवेति ।
उच्छूनतादिविशेषे सत्येवेत्यर्थः ।
सन्निहितसहकारीति ।
न तु सहकारिजनितविशेषयुक्तहेतुजन्यमिति भावः ।
यथा अक्षेपकारीति ।
विषयसंयोगे कृते पश्चात् स्वसंयुक्तकर्मकारकेण सहकारिणा जनितविशेषवत्वेन नोत्तरक्षणे ज्ञानजनकत्वमिन्द्रियस्येत्यर्थः ।
न हि तत्र हेतोरिति ।
प्रथमविशेषं प्रति हेतोः सहकारिजनितविशेषान्तराभावेऽपि सहसहर्हपेक्षेतिकार्यपेक्षा विद्यत इत्यर्थः ।
क्षणिकवादी मतान्तरं दूषयति -
नानुपकुर्वन्निति ।
अतिप्रसङ्गादिति ।
सर्वस्य सहकारित्वप्रसङ्गादित्यर्थः ।
क्व तर्हि सहकार्युपकार इत्यपेक्षायामाह -
स्वरूपे त्विति ।
हेतावित्यर्थः ।
कार्य इति ।
कार्यं हि सहकारिणा जायमानमुपक्रियत इत्यर्थः ।
आह सिद्धान्ती
नित्योऽपीति ।
तदेव प्रपञ्चयति ।
यथैव क्षणिको भाव इति ।
सामग्रीसाध्यत्वादिति ।
बहुकारकव्यापारसाध्यत्वादित्यर्थः ।
कार्यमेव सहकारिणमपेक्षते न कारणमिति शङ्कते -
अथ मतं क्षणिक इति ।
जन्यजनकस्य स्वयमित्यस्यायमर्थः कार्यजनकस्य सहकारिणः कार्यादन्यकारणेनापेक्ष्यमाणत्वानुपपत्तेरिति यदन्यसन्निधौ भवति तदित्यत्र तत्कार्यमपेक्षते, तत्सहकार्यपेक्षत इति वाक्यशेषः ।
अन्यसन्निधावेवेति ।
सहकारिसन्निधावेवेत्यर्थः ।
नित्यं कारणमिति पक्षेऽपि कार्यमेव सहकारिणमपेक्ष्य क्रमेण भविष्यतीति, नेत्याह -
नित्यस्य तु जनकस्येति ।
सहकारिणां कारणस्य च सर्वदा भावात् तेषां सम्बन्धस्य च तेभ्य एव सदा भावादिति भावः ।
क्षणिककारणस्यापि भावावच्छेदकक्षणात् इतरकाले सहकार्यपेक्षया कार्यजनकत्वे विशेषाभावात् सर्वदा कार्यजनिः स्यादिति नेत्याह -
क्षणिकस्तु यो जनक इति ।
यः क्षणिको जनकः स तु भावः तस्य सदातनत्वाभावान्न सदा कार्यजन्मेत्यर्थः ।