पञ्चपादिका
वक्तव्यकाशिका
 
इदमयुक्तं वर्तते ! किमत्रायुक्तम् ? सति नियमेऽपि निरपेक्षत्वम्तथा हियः कश्चित् कस्यचित् क्वचिन्नियमः, दपेक्षाप्रभावितः ; अनपेक्षत्वे नियमानुपपत्तेःएवं हि कार्यकारणभावसिद्धिःकार्यार्थिभिश्च विशिष्टानां हेतूनामुपादानम्तत्र यदि क्षणिकं कारणं सहकारिणमपेक्षते, नापि तत् कार्यम् , कथं नियमः ? तथा हिहेतुपरम्पराप्रतिबन्धात् हेतुः स्वरूपे सहकारिणमपेक्षते, कार्ये ; स्वयञ्जननशक्तेःनापि कार्यम् ; एकस्यापि शक्तिमत्त्वेन प्रसह्यजननात् तत्र सहकारिसन्निधिनियमोऽनर्थकः स्यात्काकतालीयमुच्यते ? तथा कार्यकारणव्यवहाराः सर्व एवोत्सीदेयुःतस्मात् क्षणिकस्यापि भावस्य स्वयं जनकस्य स्वरूपानुपयोगिन्यपि सहकारिणि कार्यसिद्धये अपेक्षा वाच्या ; कार्यस्यैव वा सामग्रीसाध्यत्वात् , तत्र नियमात् ; तथा नित्येऽपीति विशेषं पश्यामःतदेवमहङ्कर्तुः सदा एकरूपावगमात् स्थायित्वेऽप्यर्थक्रियासम्भवात् नीलस्य स्वगतापरोक्षत्वमात्रेण माहायानिकपक्षः समर्थ्यते, किन्तु ग्राहकस्याहङ्कर्तुरात्मनः स्थायिनोऽभावे चैकरूपः अनुभवात् युक्तिबलाच्च प्रसाधितःननु नानुमेयादिष्वपरोक्षता दृश्यते ? उच्यतेनानुमेयादिष्वपरोक्षत्वम् ; स्वज्ञानोत्पत्तावव्यापृतत्वात् , लिङ्गादीनामेव कुतश्चित् सम्बन्धविशेषाद्विशिष्टैकार्थज्ञानहेतुत्वात् , प्रमेयस्य स्वज्ञानोत्पत्तिहेतुत्वे प्रमाणाभावात्अलं प्रसङ्गागतप्रपञ्चेनस्वावसर एवैतत् सुगतमतपरीक्षायां निपुणतरं प्रपञ्चयिष्यामः

इदमयुक्तं वर्तत इति ।

सहकारिलाभे धूमजनकत्वम् अलाभे चाजनकत्वमित्यङ्गारावस्थाग्निक्षणे दृष्टं यत् तन्नित्ये नास्तीति नित्यवत्कार्यजन्मैवेति इदमयुक्तमित्यर्थः ।

सहकारिसन्निधावेव कार्यजन्मेति एतावन्न तु कार्यस्य तस्मिन्नपेक्षेत्याह –

किमत्रायुक्तमिति ।

सति नियम इति ।

सहकारिणा कार्यस्यान्वयव्यतिरेकनियमे सति सहकारिनिरपेक्षत्वमित्यर्थः ।

कार्यस्योपादानकारणेनान्वयव्यतिरेकनियमे सति उपादानकारणविषयापेक्षा दृष्टेति व्याप्तिमाह -

तथा हि यः कश्चिदिति ।

कस्यचिदिति ।

उपादानकारणस्येत्यर्थः ।

क्वचिदिति ।

कार्यम् इत्यर्थः ।

नियम इति ।

अन्वयव्यतिरेकनियम इत्यर्थः ।

अपेक्षेति ।

उपकारकसम्बन्ध इत्यर्थः ।

नाग्निमात्रस्य धूमकारणत्वं येनाङ्गारावस्थाने कारणत्वेऽपि सहकार्यलाभेऽनुत्पादकत्वमुच्येत इति तत्राह -

एवं हीति ।

सामान्योपहिताग्निव्यक्त्याकारे सामर्थ्यं न तु कार्यजनकत्वेन दृष्टाग्निव्यक्तेरेवेत्यभ्युपगम इत्यर्थः ।

सामान्योपाधौ सामर्थ्याङ्गीकारे हि कार्याय कारणोपादानसम्भव इत्याह –

कार्यार्थिभिश्चेति ।

तत्रेति ।

सामान्योपाधौ सामर्थ्ये सिद्धे सतीत्यर्थः ।

न सहकारिणमपेक्षत इति ।

स्वयमेव समर्थत्वादिति भावः ।

नापि तत्कार्यमिति ।

उपादानकारणेन शक्तेन प्रसह्य जननादिति भावः ।

तदेव साधयति -

तथाहि हेतुपरम्पराप्रतिबन्धादिति ।

पूर्वपूर्वक्षणादुत्तरोत्तरक्षणस्योत्पत्त्यङ्गीकारात् त्वयेत्यर्थः ।

स्वरूप इति ।

स्वरूपेऽतिशयजनकत्वेत्यर्थः ।

एकस्यापीति ।

प्रधानकारणस्यापीत्यर्थः ।

फलपतनकालीनकाकसम्बन्धस्येव कार्यनिष्पत्तिसमये सहकारिसन्निधावपि न सहकारिण्यपेक्षा इति बौद्धः चोदयति -

काकतालीयमुच्यत इति ।

तत्र काकसम्बन्धाभावे पतनाभावाख्यव्यतिरेकाभावात् , इह तु सहकारिकाष्ठाभावे धूमाख्यकार्याभावरूपव्यतिरेकादपेक्षया भवितव्यम् । अतः असम्बद्धमेतच्चोद्यमिति परिहारत्वेन च काकतालीयमुच्यत इति ग्रन्थो योज्यमितियोज्यः ।

अन्वयव्यतिरेकनियमेऽपि सहकारिणोऽनपेक्षा चेत्कारणेऽप्यनपेक्षा स्यादित्याह -

तथा चेति ।

सामग्रीसाध्यत्वं कुतोऽवगम्यअवगम्यत्वमितिमित्याशङ्क्य तदन्वयव्यतिरेकनियमादित्याह -

तत्र नियमादिति ।

न विशेषं पश्याम इति ।

अतो नार्थक्रियाकारित्वात् क्षणिकत्वमिति भावः ।

स्थायिसर्वगतसाक्षिचैतन्याख्याहंसंवेदनस्य नीलाभेदेऽपि तस्याभासत्वात् स्थाय्यर्थक्रियाकारिनीलस्य चैतन्याद्भेदेनाङ्गीकारात् न माहायानिकपक्षप्रसङ्ग इत्युपसंहरति -

तदेवमहङ्कर्तुरिति ।

आत्मन इत्यर्थः ।

ग्राहकस्येत्युक्ते प्राप्तं व्यावर्तयति -

अहं कर्तुरिति ।

स्थूलसूक्ष्मशरीरद्वयं क्षणिकज्ञानं च व्यावर्तयति -

स्थायिनस्थायिन इत्यात्म इतिआत्मन इति ।

चैतन्यस्येत्यर्थः ।

एकरूपानुभवादितिएकरूपोऽनुभवादिति ।

अनुभवात्मैकरूपानुभवादित्यर्थः ।

विषयस्य चैतन्यव्यञ्जकत्वेनापरोक्षत्वं भवतीत्युक्तम् । तन्न सर्वत्र दृश्यत इति चोदयति -

ननु नानुमेयादिष्विति ।

व्यञ्जकत्वेनापरोक्षत्वमित्यर्थः ।

अर्थस्य कारकत्वाभावे कथमनुमानादिज्ञानस्यार्थाकारत्वमिति तत्राह –

लिङ्गादीनामेवेति ।

कुतश्चित्सम्बन्धविशेषादित्यविनाभावनिर्वाह्यनिर्वाहकत्वादिसम्बन्धविशेषादित्यर्थः ।

ज्ञानस्याकारप्रदत्वेन प्रमेयत्वे जनकत्वं व्यञ्जकत्वं च स्यादिति नेत्याह -

प्रमेयस्य चेति ।