पञ्चपादिका
वक्तव्यकाशिका
 
तदेवमहङ्कारग्रन्थिरस्मच्छब्दसंशब्दितः । प्रत्ययश्चासौ ; आदर्श इव प्रतिबिम्बस्य अनिदञ्चित्सम्वलितत्वेन तस्याभिव्यक्तिहेतुत्वात् । अतः तस्य विषयवत् भवतीत्युपचारेण अनिदञ्चिदात्मधातुरस्मत्प्रत्ययविषय उच्यते । स पुनरेवंभूतो जाग्रत्स्वप्नयोरहमुल्लेखरूपेण, सुषुप्ते तत्संस्काररञ्जिताग्रहणाविद्याप्रतिबद्धप्रकाशत्वेन च गतागतमाचरन् संसारी, जीवः विज्ञानघनः, विज्ञानात्मा, प्राज्ञः, शरीरी, शारीरः, आत्मा, सम्प्रसादः, पुरुषः, प्रत्यगात्मा, कर्ता, भोक्ता, क्षेत्रज्ञः इति च श्रुतिस्मृतिप्रवादेषु गीयते । किञ्च न केवलमस्मत्प्रत्ययविषयत्वादध्यासार्हः - अपरोक्षत्वाच्च । तत्साधनार्थमाह — प्रत्यगात्मप्रसिद्धेरिति ॥ न ह्यात्मन्यप्रसिद्धे स्वपरसंवेद्ययोः विशेषः । न च संवेद्यज्ञानेनैव तत्सिद्धिः ; अकर्मकारकत्वादतिप्रसङ्गात् । न च ज्ञानान्तरेण ; भिन्नकालत्वे संवेद्यसम्बन्धानवगमात् , स्वपरसंवेद्याविशेषात् । न ह्येककालं विरुद्धविषयद्वयग्राहिज्ञानद्वयोत्पादः । न हि देवदत्तस्याग्रपृष्ठदेशस्थितार्थव्यापिगमनक्रियाद्वयावेशो युगपत् दृश्यते । आह — मा भूत् चलनात्मकं क्रियाद्वयं युगपत् , परिणामात्मकं तु भवत्येव ; मैवं ; परिस्पन्दात्मकमपि भवत्यविरुद्धम् , यथा गायन् गच्छतीति, परिणात्मकमपि न भवति विरुद्धं, यथा यौवनस्थाविरहेतुः । तस्मात् प्रत्यगात्मा स्वयम्प्रसिद्धः सर्वस्य हानोपादानावधिः स्वयमहेयोऽनुपादेयः स्वमहिम्नैवापरोक्षत्वादध्यासयोग्यः ॥

अर्थं प्रतिपाद्य इदानीमस्मत्प्रत्ययविषयत्वादिति भाष्यं योजयति -

तदेवमिति ।

व्यञ्जकदर्पणस्य बिम्बादन्यदेशस्थत्ववच्चैतन्यव्यञ्जकान्तःकरणस्य चैतन्यादन्यदेशत्वं भवेदित्याशङ्क्य ध्वनिवद्व्यङ्ग्यसंश्लिष्टतया उपाधित्वात् न भिन्नदेशत्वमित्याह -

अनिदं चित्संवलितत्वेनेति ।

शारीरः क्षेत्रज्ञ इत्याद्यनेकोपाधियुक्तमात्मानं वर्णयति श्रुतिः । तत्र कथमहङ्कारस्यैवोपाधित्वमित्याशङ्क्याहङ्कारात्मतया तत्संस्कारात्मतया वा अवस्थिता अविद्यैवात्मोपाधिः, तदुपहितस्यैव जाग्रदाजाग्रतादिषु इतिदिषु बाह्यबहुविधोपाधियोगनिमित्तोऽयं व्यपदेशभेद इत्याह -

स पुनरेवंभूत इति ।

गतागतमाचरन्निति ।

अविद्योपाधिनाप्रतिबद्धप्रकश एव बाह्यबहुविधोपाध्युपरक्तः सन्नित्यर्थः ।

अद्वितीयरूपस्याच्छन्नत्वात् जीव इत्याह -

जीव इति ।

तेजोरूपान्तःकरणेन ऐक्याध्यासवन्त्वात् विज्ञानघन इत्याह -

विज्ञानघन इति ।

विज्ञानस्य आत्मा विज्ञानात्मेत्याह –

विज्ञानात्मेति ।

सुषुप्तेऽज्ञानैक्येन अध्यस्तं स्वरूपमाह -

प्राप्रज्ञ इतिज्ञ इति ।

शरीरेण तादात्म्याध्यासवद्रूपमाह -

शारीर आत्मेति ।

सुषुप्त्यवस्थया ऐक्येनाध्यस्तं रूपमाह -

सम्प्रसाद इति ।

पूर्यां शेत इति पुरुष इत्याह -

पुरुष इति ।

सर्वान्तर इत्याह –

प्रत्यगात्मेति ।

प्राणात्मरूपमाह -

कर्ता भोक्तेति ।

पञ्चकोशेषुपञ्चकोशे इति प्रतिबिम्बितचैतन्यप्रतिबिम्बतया कोशज्ञ इत्याह -

क्षेत्रज्ञ इति ।

किञ्च न केवलमिति ।

परिच्छिन्नतया स्फुरितत्वम् अधिष्ठानत्वाअधिष्ठानत्वापेयेतियापेक्षितमित्यङ्गीकृत्य परिच्छिन्नतया स्फुरितत्वं सम्पादितम् । इदानीं परिच्छिन्नतया स्फुरितत्वमनपेक्षितमपरोक्षत्वमेवाधिष्ठानअधिष्ठनत्वयालमितित्वायालमित्याह भाष्यकार इत्यर्थः ।

तत्साधनार्थमाहेति ।

अपरोक्षत्वसाधनार्थमाहेत्यर्थः ।

नित्यानुमेय आत्मा कथमपरोक्षतया सिद्ध इति नेत्याह -

न ह्यात्मन्यप्रसिद्ध इति ।

विषयानुभवकाले प्रमितिविशिष्टविषयसम्बन्धितया विषयप्रमित्योरिव स्वात्मनः प्रसिद्ध्यभावे आत्मान्तरसिद्धेनेव मयेदमिति सम्बन्धावभासो न स्यादित्यर्थः ।

विषयानुभवाश्रयतयानात्मनो परोक्षपरोक्षप्रसिद्धिरितित्वसिद्धिरित्याह -

न च संवेद्यज्ञानेनैवेति ।

ज्ञानान्तरेणेति ।

आत्मविषयज्ञानान्तरेणेत्यर्थः ।

भिन्नकालत्व इति ।

विषयानुभवकालात् भिन्नकालत्व इत्यर्थः ।

ज्ञानद्वयोत्पाद इति ।

निरवयवस्यैकविषये भिन्नविषये वा युगपद् ज्ञानद्वयोत्पाद इति भावः ।

एकस्य युगपत् कार्त्स्न्येन परिणामद्वयं स्यादित्याशङ्क्य तदपि न युक्तमित्याह -

आह मा भूदिति ।

अविरुद्धमिति ।

गमनद्वयस्यैककरणसाध्यत्वाविरोधोऽस्ति, गतिगायत्योस्तु भिन्नेन्द्रियसाध्यत्वात् अविरोध इति भावः ।

परिणामेऽप्यविरुद्धत्वं यौगपद्ये प्रयोजकम् , विरुद्धत्वमयौगपद्ये प्रयोजकमित्याह -

परिणामात्मकमपि न भवतीति ।

यौवनस्थाविरहेतुरित्यत्रपरिणाम ? ...... इत्यध्याहारः ।

परिशेषात् स्वयम्प्रकाशत्वमेवेत्याह -

स्वयं प्रसिद्ध इति ।

अतो बाध्यत्वमारोपितत्वं च नास्तीत्याह -

स्वयमहेयोऽनुपादेय इति ।

अतः सर्वबाधावधित्वं सर्वारोपस्थानत्वं च स्यादित्याह -

सर्वस्य हानोपादानावधिरिति ।

स्वमहिम्नैवेति ।

न त्वहङ्कारेण परिच्छिन्नतया स्फुरितत्वादात्मनोऽधिष्ठानत्वमिति भावः ।