इदमयुक्तं वर्तत इति ।
सहकारिलाभे धूमजनकत्वम् अलाभे चाजनकत्वमित्यङ्गारावस्थाग्निक्षणे दृष्टं यत् तन्नित्ये नास्तीति नित्यवत्कार्यजन्मैवेति इदमयुक्तमित्यर्थः ।
सहकारिसन्निधावेव कार्यजन्मेति एतावन्न तु कार्यस्य तस्मिन्नपेक्षेत्याह –
किमत्रायुक्तमिति ।
सति नियम इति ।
सहकारिणा कार्यस्यान्वयव्यतिरेकनियमे सति सहकारिनिरपेक्षत्वमित्यर्थः ।
कार्यस्योपादानकारणेनान्वयव्यतिरेकनियमे सति उपादानकारणविषयापेक्षा दृष्टेति व्याप्तिमाह -
तथा हि यः कश्चिदिति ।
कस्यचिदिति ।
उपादानकारणस्येत्यर्थः ।
क्वचिदिति ।
कार्यम् इत्यर्थः ।
नियम इति ।
अन्वयव्यतिरेकनियम इत्यर्थः ।
अपेक्षेति ।
उपकारकसम्बन्ध इत्यर्थः ।
नाग्निमात्रस्य धूमकारणत्वं येनाङ्गारावस्थाने कारणत्वेऽपि सहकार्यलाभेऽनुत्पादकत्वमुच्येत इति तत्राह -
एवं हीति ।
सामान्योपहिताग्निव्यक्त्याकारे सामर्थ्यं न तु कार्यजनकत्वेन दृष्टाग्निव्यक्तेरेवेत्यभ्युपगम इत्यर्थः ।
सामान्योपाधौ सामर्थ्याङ्गीकारे हि कार्याय कारणोपादानसम्भव इत्याह –
कार्यार्थिभिश्चेति ।
तत्रेति ।
सामान्योपाधौ सामर्थ्ये सिद्धे सतीत्यर्थः ।
न सहकारिणमपेक्षत इति ।
स्वयमेव समर्थत्वादिति भावः ।
नापि तत्कार्यमिति ।
उपादानकारणेन शक्तेन प्रसह्य जननादिति भावः ।
तदेव साधयति -
तथाहि हेतुपरम्पराप्रतिबन्धादिति ।
पूर्वपूर्वक्षणादुत्तरोत्तरक्षणस्योत्पत्त्यङ्गीकारात् त्वयेत्यर्थः ।
स्वरूप इति ।
स्वरूपेऽतिशयजनकत्वेत्यर्थः ।
एकस्यापीति ।
प्रधानकारणस्यापीत्यर्थः ।
फलपतनकालीनकाकसम्बन्धस्येव कार्यनिष्पत्तिसमये सहकारिसन्निधावपि न सहकारिण्यपेक्षा इति बौद्धः चोदयति -
काकतालीयमुच्यत इति ।
तत्र काकसम्बन्धाभावे पतनाभावाख्यव्यतिरेकाभावात् , इह तु सहकारिकाष्ठाभावे धूमाख्यकार्याभावरूपव्यतिरेकादपेक्षया भवितव्यम् । अतः असम्बद्धमेतच्चोद्यमिति परिहारत्वेन च काकतालीयमुच्यत इति ग्रन्थो योज्यमितियोज्यः ।
अन्वयव्यतिरेकनियमेऽपि सहकारिणोऽनपेक्षा चेत्कारणेऽप्यनपेक्षा स्यादित्याह -
तथा चेति ।
सामग्रीसाध्यत्वं कुतोऽवगम्यअवगम्यत्वमितिमित्याशङ्क्य तदन्वयव्यतिरेकनियमादित्याह -
तत्र नियमादिति ।
न विशेषं पश्याम इति ।
अतो नार्थक्रियाकारित्वात् क्षणिकत्वमिति भावः ।
स्थायिसर्वगतसाक्षिचैतन्याख्याहंसंवेदनस्य नीलाभेदेऽपि तस्याभासत्वात् स्थाय्यर्थक्रियाकारिनीलस्य चैतन्याद्भेदेनाङ्गीकारात् न माहायानिकपक्षप्रसङ्ग इत्युपसंहरति -
तदेवमहङ्कर्तुरिति ।
आत्मन इत्यर्थः ।
ग्राहकस्येत्युक्ते प्राप्तं व्यावर्तयति -
अहं कर्तुरिति ।
स्थूलसूक्ष्मशरीरद्वयं क्षणिकज्ञानं च व्यावर्तयति -
स्थायिनस्थायिन इत्यात्म इतिआत्मन इति ।
चैतन्यस्येत्यर्थः ।
एकरूपानुभवादितिएकरूपोऽनुभवादिति ।
अनुभवात्मैकरूपानुभवादित्यर्थः ।
विषयस्य चैतन्यव्यञ्जकत्वेनापरोक्षत्वं भवतीत्युक्तम् । तन्न सर्वत्र दृश्यत इति चोदयति -
ननु नानुमेयादिष्विति ।
व्यञ्जकत्वेनापरोक्षत्वमित्यर्थः ।
अर्थस्य कारकत्वाभावे कथमनुमानादिज्ञानस्यार्थाकारत्वमिति तत्राह –
लिङ्गादीनामेवेति ।
कुतश्चित्सम्बन्धविशेषादित्यविनाभावनिर्वाह्यनिर्वाहकत्वादिसम्बन्धविशेषादित्यर्थः ।
ज्ञानस्याकारप्रदत्वेन प्रमेयत्वे जनकत्वं व्यञ्जकत्वं च स्यादिति नेत्याह -
प्रमेयस्य चेति ।