पञ्चपादिका
वक्तव्यकाशिका
 
ननु न क्वचिदपरोक्षमात्रेऽध्यासो दृष्टपूर्वः, सर्वत्राक्षिसम्प्रयोगितया पुरोवस्थितापरोक्ष एव दृश्यते, इत्याशङ्क्याह — न चायमस्ति नियमः इति ॥ अप्रत्यक्षेऽपि ह्याकाशे इति परोक्षे इत्यर्थः ; अथवा — अक्षव्यापारमन्तरेणाप्यपरोक्ष आकाशे । बालाः अयथार्थदर्शिनः । तलम् इन्द्रनीलतमालपत्रसदृशम् , मलिनतां च धूमादिकमन्यच्च नीलोत्पलसमानवर्णतादि अध्यस्यन्ति । एवमविरुद्धः इति सम्भावनां निगमयति । यथा आकाशस्याक्षव्यापारमन्तराप्यपरोक्षता, तथा दर्शयिष्यामः ॥

सम्प्रयोगितयेति ।

आरोप्येण समानेन्द्रियग्राह्यतयेत्यर्थः ।

अनुमेयत्वमस्तीत्यभिप्रेत्याह -

परोक्ष इत्यर्थ इति ।

अथवेति ।

साक्षिवेद्यतया मनोमात्रगम्यतया वा अपरोक्ष इत्यर्थः ।

इन्द्रनीलम्

इन्द्रनीलमिव नीलमित्यर्थः ।

भाष्यगतादिशब्दार्थमाह –

अन्यच्चेति ।

तथा दर्शयिष्याम इति ।

रूपे प्रवृत्तनयनबुद्धिवृत्त्या रूपेऽभिव्यक्तचैतन्याच्च साक्षिणा आकाशापरोक्ष्यं स्यादिति वक्ष्याम इत्यर्थः ।