सम्प्रयोगितयेति ।
आरोप्येण समानेन्द्रियग्राह्यतयेत्यर्थः ।
अनुमेयत्वमस्तीत्यभिप्रेत्याह -
परोक्ष इत्यर्थ इति ।
अथवेति ।
साक्षिवेद्यतया मनोमात्रगम्यतया वा अपरोक्ष इत्यर्थः ।
इन्द्रनीलम्
इन्द्रनीलमिव नीलमित्यर्थः ।
भाष्यगतादिशब्दार्थमाह –
अन्यच्चेति ।
तथा दर्शयिष्याम इति ।
रूपे प्रवृत्तनयनबुद्धिवृत्त्या रूपेऽभिव्यक्तचैतन्याच्च साक्षिणा आकाशापरोक्ष्यं स्यादिति वक्ष्याम इत्यर्थः ।