वृत्तसङ्कीर्तनपूर्वकमुत्तरभाष्यस्य अध्याससद्भावसाधकप्रमाणकथने तात्पर्यमाह -
एवं तावदित्यादिना ।
सिद्धवदुपन्यस्तमिति ।
शास्त्रं सम्भावितविषयप्रयोजनम् , अध्यासात्मक बन्धप्रत्यनीकत्वात् जाग्रद्बोधवदिति । विषयादिसाधनाय सिद्धवद्धेतुत्वेनोपन्यस्तमध्यासमित्यर्थः ।
इतरेतरविषयमिति ।
इतरेतराधिष्ठानअधिष्ठावन्तमितिवन्तमित्यर्थः ।
तत्र सद्भावनिश्चयमिति ।
आत्मनि देहाद्यध्याससद्भावसाधकप्रमाणमित्यर्थः ।
अस्मिन् भाष्ये प्रमातृत्वादिव्यवहारहेतुत्वेनात्मनो देहेन्द्रियादिषु अहंममाभिमानाख्याध्यासोऽस्तीति प्रत्यक्षमिति प्रत्यक्षोपन्यासः कृतः । विधिप्रतिषेधपरत्वात् । सकलशास्त्रस्य मोक्षपरमोक्षपरशास्त्रमितिशास्त्रत्वं नास्तीति तत्राह -
मोक्षपरत्वं चेति ।
`सत्यं ज्ञानमनन्तं ब्रह्मे'तै०उ० २ - १त्यादिप्रतिपादकवाक्ये विधायकप्रतिषेधकपदयोरभावात् अनुष्ठेयत्याज्यार्थाभावात् स्वरूपमात्रनिष्ठत्वमस्ति, अतः तादृशवाक्यान्यभिप्रेत्य मोक्षपराणीति मोक्षपरत्वं पृथक्क्रियत इत्यर्थः ।
कथं पुनरित्यादिभाष्यस्य अध्यासोपादानं प्रमातृत्वादिव्यवहारजातमित्यत्र प्रमाणान्तरप्रश्नविषयत्वं दर्शयति -
बाढमिबाढमित्यादि इतित्यादिना ।
अविद्येति ।
अध्यास इत्यर्थः ।
निदर्शनीय इति ।
प्रमाणान्तरेण निदर्शनीय इत्यर्थः ।
कथं पुनरित्यादेराक्षेपरूपार्थं दर्शयति -
प्रमातारमाश्रयन्ति प्रमाणानीति ।
प्रमातृत्वशक्तिमन्तमाश्रयितुं योग्यानीत्यर्थः ।
अविद्याध्यासपरिनिष्पन्नाहङ्कारात्मसम्पिण्डितोपादानत्वे प्रमाणानां न प्रामाण्यमेव सिद्ध्यतीत्यस्मिन्नर्थे भाष्यं योजयति -
अथवा कथमिति ।
अविद्यावदुपादानत्वे का प्रामाण्यानुपपत्तिरिति तदाह -
अविद्यावद्विषयत्व इति ।
अत्र प्रत्यक्षादिशब्देन शास्त्रशब्देन च ज्ञानान्युच्यन्ते ।
उच्यते, देहेन्द्रियादिषु इत्यादिभाष्यमर्थापत्ति व्यतिरेकानुमानप्रदर्शनायप्रदर्शनतयोः इति तयोः सामग्रीभूतव्यतिरेकव्याप्तिं दर्शयतीत्याह -
न हि देहेति ।
देहेन्द्रियादिषु एकैकस्मिन् अहंममाभिमानहीनस्य पुंसः प्रमातृत्वाभावे सदा प्रमातृत्वहीनत्वादेव न कदाचिदपि प्रमातृत्वमिति नेत्याह -
यतो देह इति ।
देहेऽहमभिमानः इन्द्रियेषु ममाभिमान इति । यतोऽतोऽभिमानभावे व्यवहारः सम्भवतीत्यर्थः ।
इन्द्रियपदेन प्रत्यक्षकरणेषु ममाभिमान उक्ते किमादिशब्देन अनुमानादिकरणेष्वपि ममाभिमान उच्यत इत्याशङ्क्य प्रत्यक्षकरणगोलकेष्वित्याह –
आदिशब्देनेति ।
उपचयाभिधायिदिहधातोः देहशब्दो निष्पन्नः, अतो देहशब्दार्थसङ्घाते न कदाजिदप्यहमभिमान इत्याशङ्क्याह -
देहशब्देनावयव्यभिमतशब्देनावाप्यभिमत इति इति ।
अङ्गुल्यादीनामेकाङ्गएकाङ्गच्छिन्ने इतिच्छिन्ने पूर्णावयविनाशात् न भवेत् तस्मिन्नहमभिमान इत्याशङ्क्य सशिरसशिरस्कृतेतिस्कता प्रायशस्त्वगिन्द्रियाद्याधारत्वे, प्रयोजकनिरपेक्षतया त्वगिन्द्रियाधारत्वं शरीरत्वे प्रयोजकम् , अतोऽवयवे यस्मिन् कस्मिन् छिन्नेऽपि सशिरस्केसशिरस्कमिति देहेऽहमभिमानः सम्भवतीत्याह - सशिरस्क इति । सशिरस्कदेहोऽहमिति प्रतीतिर्नास्तीत्याशङ्क्याह –
मनुष्यापञ्चपाद्यां तु मनुष्यत्वादीति अस्तिदीति ।
देहेन्द्रियादिष्वित्यत्र केवले देहे अहमभिमानो भाष्यकारैरुक्तः । युष्माभिर्जातिसम्भिन्नदेहेऽहमभिमानः कस्मादुक्त इत्याशङ्क्य तैरप्यहमभिमानयोग्यजातिविशिष्टदेहेऽहमभिमान उक्त इत्याह -
न शरीरमात्रमिति ।
केवलदेहेऽहमभिमानाभावेन जातिविशिष्टोजातिविशिष्टप्यभिमान इतिऽभिमान इत्याशङ्क्य जातिविशिष्टदेहैक्यादेहैक्यान्वाध्यस्तेतिध्यस्तचित्स्वभावमात्मानमनुभूय पश्चात् प्रवर्तत इति स्वसाक्षिकमित्याह -
सर्वो हीति ।
एकाधिकरणचैतन्य इति ।
जातिविशेषेण तादात्म्यमापन्नचैतन्य इत्यर्थः । प्रमातृत्वादिव्यवहारकर्ता देहेन्द्रियादिषु अहंममाभिमानरूपाध्यासवान् , अध्यासाभावे व्यवहाराभावात् । यथेति न दृश्यतेयथा सुषुप्त इति व्यतिरेकानुमानमत्राभिप्रेतं द्रष्टव्यम् । प्रमातृत्वादिव्यवहार आत्मनो देहेन्द्रियादिष्वहंममाभिमानरूपाध्यासमन्तरेणानुपपन्नोऽध्यासं कल्पयति, अध्यासाभावे व्यवहाराभावात् । यथेति न दृश्यतेयथा सुषुप्त इत्यर्थापत्तिर्वात्रद्रष्टव्या ।
नन्वात्मनो देहादिभिः सम्बन्धमात्रं प्रमातृत्वादिव्यवहारेऽपेक्षते न तादात्म्याध्यासमित्याशङ्क्य सम्बन्धान्तराणां प्रमातृत्वादिव्यवहारहेतुत्वं दूषयति -
न स्वत्वेनेत्यादिना ।