पञ्चपादिका
वक्तव्यकाशिका
 
अपर आहआत्मेच्छानुविधायित्वं कार्यकरणसङ्घातस्यात्मना सम्बन्धः, तस्यापि तस्य यथेष्टविनियोजकत्वं तेन सम्बन्धः, तत आत्मनः प्रमात्रादिकः सर्वः क्रियाकारकफलव्यवहारःतथा उत्तिष्ठामीति इच्छयोत्तिष्ठत्युपविशति भृत्यादिषु तदस्तितेन तत्र प्रमात्रादिव्यवहाराभावो मिथ्यामुख्याभिमानाभावादितिनैतत् संविदि बहुमानवतो युक्तम्तथाहि — ‘मनुष्योऽहमि’ति स्वसाक्षिका संवित् , ‘ मे मनुष्यःइति गौणीति चेत् , भवानेवात्र प्रमाणम्अपि इच्छापि परिणामविशेषः, कथमपरिणामिन आत्मनः स्यात् परिणाम्यन्तःकरणसम्वलिताहङ्कर्तृत्वमन्तरेणतथा चानुभवःअहमुत्तिष्ठामी’ति ; इच्छयोत्तिष्ठत्युपविशति तस्मात् यत्किञ्चिदेतत्अतः स्वयमसङ्गस्याविकारिणोऽविद्याध्यासमन्तरेण प्रमातृत्वमुपपद्यतेतेन यद्यपि प्रमातृत्वशक्तिसन्मात्रं प्रमाणप्रवृत्तौ निमित्तम् , तदेव तु अविद्याध्यासविलसितमित्यविद्यावद्विषयता प्रमाणानामुच्यतेतथा निरपेक्षाणां स्वसामर्थ्येनार्थसिद्धिं विदधतां बाधानुपलब्धेः प्रामाण्यम् अविद्यावद्विषयत्वं विधिमुखोपदर्शितं ने’ति शक्यमपह्नोतुम्दोषस्तु आगन्तुक एव मिथ्यात्वे हेतुः, नैसर्गिकः ; तथोपलब्धेः सर्वसाधारणे नैसर्गिके दोषबुद्धिःतथाहिक्षुत्पिपासोपजनिते सन्तापे शश्वदनुवर्तमाने जाठराग्निकृतविकारे अन्नपाननिष्यन्दे वा रोगबुद्धिर्जनस्य, मुहूर्तमात्रपरिवर्तिनि मन्दे ज्वरे प्रतिश्याये वा अल्पकफप्रसूतावपि रोगबुद्धिः ; अनैसर्गिकत्वात्अनैसर्गिकं दोषमभिप्रेत्योक्तंयस्य दुष्टं करणं यत्र मिथ्येति प्रत्ययः एवासमीचीनः प्रत्ययो नान्यःइति

सुषुप्तेऽपि स्वस्वाभिभावसम्बन्धस्य भावादित्यभ्युच्चयः । सुषुप्ते व्यवहारप्रसङ्गपरिहाराय इच्छामात्रेण विनियोज्यविनियोजकत्वाख्यसम्बन्धान्तरं कश्चिदाह –

आत्मेच्छानुविधायित्वमिति ।

यदि देहादेरात्मना सम्बन्ध आत्मेच्छानुविधायित्वं तर्हि आत्मनोऽपि देहादीच्छानुविधायित्वमिति प्राप्तमित्याशङ्क्याह –

तस्यापीति ।

तस्याप्यात्मनोऽपि तस्य स्वदेहं प्रति यथेष्टविनियोजकत्वं तेन देहादिना सम्बन्ध इत्यर्थः ।

तत इति ।

तस्मात् सम्बन्धादित्यर्थः ।

एतत्सम्बन्धमूलो व्यवहार इत्यत्र प्रमाणमाह -

तथा चोत्तिष्ठामीति ।

भृत्यादयोऽपि स्वामीच्छानुविधायिनः, अतो भृत्यादिशरीरेणापि व्यवहारः स्यादिति तत्राह -

न च भृत्यादिषु तदस्तीति ।

अव्यवधानेनेच्छानुविधायित्वं सम्बन्धः । भृत्यदेहस्य तु स्वामीच्छापूर्वकप्रेरणानिमित्तभृत्येच्छानुविधायित्वमेवेति नाव्यवधानेनेच्छानुविधायित्वमित्यर्थः ।

न मिथ्या, मुख्याभिमानाभावादिति ।

मुख्यदेहादौ अहंममाभिमानाख्याध्यासाभावात् न व्यवहाराभाव इत्यर्थः ।

अहं मनुष्य इति ज्ञानस्य गौणत्वे गौणात्मपुत्रदेहगतदाहच्छेदादिनिमित्तव्यथानुसन्धानाभाववत् स्वदेहगतदाहच्छेदादिनिमित्तवेदनानुसन्धानं न स्यात् । अनुसन्धानसद्भावादेवाहमित्यनुभवो मुख्यदेहैक्यविषय इत्याह -

भावानेवेतिभवानेवात्र प्रमाणमिति ।

इच्छाप्यध्यासमूलैवेत्याह -

अपि च इच्छापीति ।

तवाप्यपरिणामिन आत्मनः कथमिच्छारूपपरिणाम इत्याशङ्क्य परिणाम्यन्तःकरणैक्याध्यासात् ममोपपन्नस्तव तु न स्यादित्याह –

परिणाम्यन्तःकरणसंवलितेति ।

अन्तःकरणाध्यासमूलैव इच्छेति प्रत्यक्षमाह -

तथा चानुभव इति ।

प्रमाणप्रश्नोत्तरं परिसमाप्य प्रमातृत्वशक्तिमदाश्रयत्वात् नाध्यस्ताहङ्कारादिसम्पिण्डितात्माश्रयत्वं व्यवहारस्येत्याक्षेपं परिहरति -

तेन यद्यपि प्रमातृशक्तिसन्मात्रमिति ।

यद्यपि प्रमातृत्वशक्तिमदाश्रयत्वं प्रमाणानामित्यर्थः ।

तदेव तु इति ।

प्रमातृत्वशक्तिमात्रमप्यमप्यस्ताहङ्कारेपिध्यस्ताहङ्कारसम्पिण्डितात्मनि निष्पद्यत इत्यविद्यावदाश्रयत्वं प्रमाणानामुच्यत इत्यर्थः ।

अध्यासपरिनिष्पन्नाहङ्कारात्मसम्पिण्डितोपादानत्वे कारणदोषादप्रामाण्यं प्रमाणानामित्युक्तमाक्षेपं परिहरति -

तथा निरपेक्षाणामिति ।

न सापेक्षत्वलक्षणाप्रामाण्यमित्यर्थः ।

शक्तिप्रतिबन्धनिमित्तमप्रामाण्यमित्याह –

न स्वसामर्थ्येनेति ।

निश्चयानुत्पत्तिनिमित्ताप्रामाण्यमपि नास्तीत्याह -

अर्थसिद्धिं विदधतामिति ।

न विपर्ययरूपमप्यप्रामाण्यमित्याह –

बाधानुपलब्धेरिति ।

प्रत्यक्षादिसिद्धार्थस्य स्वप्रयुक्तार्थक्रियासमर्थरूपस्य बाधानुपलब्धेरित्यर्थः ।

विधिमुखोपदर्शितमिति ।

प्रत्यक्षादीनां व्यवहारसमर्थवस्तुबोधकत्वलक्षणबोधकत्वप्रामाण्यमितिप्रामाण्यं विधिना प्रत्यक्षेण दर्शितम् । अविद्याविषयत्वं प्रत्यक्षतन्मुखानुमानार्थापत्त्यादिभिः प्रदर्शितमित्यर्थः ।

अहङ्कारोपादानाविद्याया अपि दोषरूपत्वात् अप्रामाण्यहेतुत्वमित्याशङ्क्य अहङ्कारात्मसम्बन्धतद्रूपोत्पादनद्वारेण प्रमाणकारणत्वात् दोषत्वं नास्ति । प्रमाणकारणे पश्चाद्भवः काचादेर्दोषत्वादित्याह -

दोषस्त्विति ।

कारणस्य अदोषत्वात्अदोषत्वाकारणेति कारणगतस्यैव दोषत्वमित्युक्तं विशेषमनादृत्य आगन्तुकस्य दोषत्वं न नैसर्गिकस्येत्येतावन्मात्रे दृष्टान्तमाह -

न च सर्वसाधारण इति ।

अन्नपाननिष्यन्द इति ।

मूत्रपुरीषात्मना निष्यन्द इत्यर्थः ।

शाबरभाष्यविरोधोऽपि नास्तीत्याह -

अनैसर्गिकं च दोषमभिप्रेत्य इति ।

मिथ्येति प्रत्यय इति ।

एतदत्र नास्तीति प्रत्यय इत्यर्थः ।