पञ्चपादिका
वक्तव्यकाशिका
 
इतश्चैतदेवं

पश्वादिभिश्चाविशेषात्

तथा पश्वादयः प्रमातृत्वादिव्यवहारकाले प्रवृत्तिनिवृत्त्यौदासीन्यं भजमानाः कार्यकारणसङ्घात एवाहंमानं कुर्वन्तीति प्रसिद्धं लोकेतदेकरूपयोगक्षेमा हि मनुष्या जन्मत एव पश्वादिभ्योऽधिकतरविवेकमतयः शास्त्राधेयसाम्परायिकमतिसामर्थ्या अपि ; अतः तदेकरूपकार्यदर्शनात् कार्यकारणसङ्घातेऽप्यात्माभिमानः समानो युक्तःननु पश्वादीनामपि कार्यकारणसङ्घाते अहङ्कारानुबन्ध इति कुतोऽवसीयते ? येन सिद्धवदभिधीयते, उच्यतेप्रौढमतिभ्य एव प्रत्यक्षादिवृत्तकुशलैरात्मा व्युत्पाद्यते ; अन्यथा तदनर्थकत्वप्रसङ्गात्एवमेव प्रमाणविचारविरहं सर्वः सम्प्रतिपद्येत

अविवेकिव्यवहारस्य अध्यासमूलत्वेऽपि न विवेकिव्यवहारोऽध्यासमूल इति तत्राह -

इतश्चैतदेवम् इति ।

विप्रतिपन्नो विवेकिव्यवहारोऽध्यासमूलः, अध्यासपूर्वकव्यवहारसमानव्यवहारत्वात् , पश्वादिव्यवहारवत् इत्यनुमानम् । तत्र पश्वादिदृष्टान्ते अध्यासमूलतां व्यवहारस्य दर्शयति -

तथा चेति ।

अध्यासानुमाने हेतुभूतस्य व्यवहारस्य विवेकिष्वपि वृत्तिमाह –

तदेकरूपेति ।

विवेकिजनेषु हेतुदर्शनात् हेतुमन्तमध्यासमनुमिमते ।

अतः तदेकरूपेति ।

दृष्टान्तेऽपि अध्याससद्भावे प्रमाणं चोदयति -

ननु पश्वादीनामिति ।

अहङ्कारानुबन्धः अहमित्यभिमानसम्बन्ध इत्यर्थः ।

पश्चादीनामितिपश्वादीनां बाह्यप्रत्यक्षेण देहसिद्धेर्मानसप्रत्यक्षेणात्मसिद्धेः देहात्मनोः भेदस्य चोभयप्रत्यक्षासिद्धेः अनुमानागमपरिज्ञानाभावाच्च ताभ्यामपि भेदासिद्धेः शुक्तिरजतयोरिवाध्यासः परिशिष्यत इत्याह -

प्रौढमतिभ्य इति ।

बुद्धिमन्मनुष्येभ्य इत्यर्थः ।

भेदस्य स्वरूपत्वादेव पश्वादीनामात्मदेहपदार्थग्राहिबाह्यमानसप्रत्यक्षज्ञानाभ्यां भेदोऽपि सिद्ध इत्यत आह –

अन्यथेति ।

पश्वादीनां पदार्थज्ञानेन भेदस्य सिद्धत्वे मनुष्येष्वपि पदार्थज्ञाने सति भेददर्शनस्यापि विद्यमानत्वात् व्यतिरेकोपदेशानर्थक्यप्रसङ्ग इत्याह –

तदनर्थकत्वप्रसङ्गादिति ।

एवमेवेति ।

पश्वादीनां स्वाभाविकप्रत्यक्षेण भेदसिद्धिरिव इत्यर्थः ।

सर्वः सम्प्रतिपद्येत इति ।

देहादात्मनोआत्मनोर्भेदमिति भेदं प्रतिपद्येत इत्यर्थः ।