पञ्चपादिका
वक्तव्यकाशिका
 
ननु गोपालाङ्गनादयः प्रमाणविरहमेव वर्तमानदेहपातेऽपि स्थायिनं भोक्तारं मन्यमानाः तदर्थमाचरन्ति तदभिज्ञव्यवहारमात्रप्रमाणकत्वात्तथा ते पृष्टाः कः परलोकसम्बन्धीति ? ‘ विद्मो विशेषतः, प्रसिद्धो लोकेइति प्रतिब्रुवन्तितस्मात् युक्तमुक्तं, पश्वादीनां प्रसिद्धोऽविवेकपूर्वकः प्रत्यक्षादिव्यवहारः, तत्सामान्यदर्शनात् व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समानः इति

एवं तावत् प्रत्यक्षादीनि प्रमाणानि चक्षुरादिसाधनानितानि नाधिष्ठानशून्यानि व्याप्रियन्तेअधिष्ठानं देहः तेनानध्यस्तात्मभावेनासङ्गस्याविकारिणः चैतन्यैकरसस्यात्मनः प्रमातृत्वमुपपद्यते, त्यनुभवारूढमविद्यावद्विषयत्वं प्रत्यक्षादीनामुपदिश्य, पश्वादिव्यवहारसाम्येन कार्यतोऽप्यापाद्य, शास्त्रं पुनः प्रतिपन्नात्मविषयमेव, तेन तत्राध्यासपूर्विका प्रवृत्तिः इति विशेषमाशङ्क्य, तस्याप्यविद्यावद्विषयत्वप्रदर्शनायाह

शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते इति

स्वाभाविकप्रत्यक्षेण देहादात्मनो भेदसिद्धिः गोपालादिषु विद्यते, तेषामदृष्टार्थप्रवृत्तिदर्शनादिति चोदयति -

ननु गोपालाङ्गनादयगोपालाङ्गनायेति इति ।

तेषामपि न प्रत्यक्षेण विवेकग्रहः किन्तु आप्तवचनादित्याह -

न तदभिज्ञेति ।

प्रत्यक्षश्चेद्विवेकः विशेषतः प्रत्यगात्मानं प्रतिपद्येरन् इत्याह -

तथा च त इति ।

निगमनभाष्यमुपपन्नमित्याह –

तस्माद्युक्तउक्तमुक्तमितिमुक्तमिति ।

प्रत्यक्षादिव्यवहारः पश्वादिभिर्विवेकिनामपि समानो युक्त इति भाष्ये योजना ।

एवं तावत् दृष्टव्यावृत्तानुवाद इतिप्रत्यक्षादीनीत्युक्तानुवादः - शास्त्रीये त्विति भाष्यस्याशङ्काप्रदर्शनपूर्वकं तात्पर्यमाह -

एवं तावदित्यादिना ।

अस्तु प्रमाणव्यवहार इन्द्रियापेक्षा । न तु देहापेक्षेत्याशङ्क्य सत्वचस्य भूमावुप्तबीजस्य कार्यकरत्ववत् गोलकप्रतिष्ठस्यैव कार्यकरत्वाद्विद्यत एव देहापेक्षेत्याह -

तानि च नाधिष्ठानशून्यानीति ।

तर्हि गोलकप्रदेशैरेव अलं, मास्तु देह इत्याशङ्क्य उत्पाटितगोलकप्रतिष्ठेन्द्रियस्य ज्ञानजनकत्वाभावात् देहांशभूते गोलक एवापेक्षेत्याह -

अधिष्ठानं च देह इति ।

देहांशभूतगोलकमधिष्ठानमित्यर्थः ।

देहापेक्षत्वेऽपि न तस्यात्मन्यध्यासापेक्षा, अध्यस्तत्वेऽपि अध्यस्तदेहविशिष्टात्मा प्रमाणादिव्यवहारोपादानं न भवति । किन्तु आत्मैवोपादनम् , अध्यासस्तु निमित्तमात्रमिति, नेत्याह -

न तेनेति ।

अनुभवारूढमिति ।

मनुष्योऽहं जानामीत्यध्यस्तदेहादिसम्पिण्डितात्माश्रयत्वं प्रत्यक्षादीनां साक्ष्यनुभवसिद्धमित्यर्थः ।

कार्यतोऽपीति ।

समानव्यवहाराख्यकार्यतोऽपि अध्याससद्भावमापद्येत्यर्थः ।

प्रतिपन्नात्मेति ।

देहव्यतिरिक्तत्वेन प्रतिपन्नात्मेत्यर्थः ।

तत्रेति ।

शास्त्राख्ययागादिकर्तव्यज्ञानतन्निमित्तयागादावित्यर्थः ।