पञ्चपादिका
वक्तव्यकाशिका
 
ननु फलनैयमिकनैमित्तिकप्रायश्चित्तचोदना वर्तमानशरीरपातादूर्ध्वकालस्थायिनं भोक्तारमन्तरेणापि प्रमाणतामश्नुवत एवयथा चैतदेवं, तथाएक आत्मनः शरीरे भावात्’ (ब्र. सू. ३-३-५३) इत्यधिकरणारम्भे दर्शयिष्यामः, सत्यमेवम् ; तथापि सकलशास्त्रपर्यालोचनापरिनिष्पन्नं प्रामाणिकमर्थमङ्गीकृत्याह भाष्यकारःतथा विधिवृत्तमीमांसाभाष्यकारोऽप्युत्सूत्रमेवात्मसिद्धौ पराक्रान्तवान्तत् कस्य हेतोः ? ‘धर्मजिज्ञासे’ति कार्यार्थविचारं प्रतिज्ञाय तदवगमस्य प्रामाण्ये अनपेक्षत्वं कारणमनुसरता सूत्रकारेण विशेषाभावात् स्वरूपनिष्ठानामपि वाक्यानां प्रामाण्यमनुसृतं मन्यते, तथाचोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुम्इति वदन् चोदनाशेषत्वेनापि स्वरूपावगमेऽनपेक्षत्वमविशिष्टमवगच्छतीत्यवगम्यते स्वरूपावगमः कस्मिन् कथं वेति धर्ममात्रविचारं प्रतिज्ञाय, तत्रैव प्रयतमानेन भगवता जैमिनिना मीमांसितम् ; उपयोगाभावात् , भगवांस्तु पुनर्बादरायणः पृथक् विचारं प्रतिज्ञाय व्यचीचरत् समन्वयलक्षणेनतत्र देहान्तरोपभोग्यः स्वर्गः स्थास्यतितच्च सर्वं कार्यकरणसङ्घातादन्येन भोक्त्रा विना सिध्यतितत्सिद्धिश्च आगममात्रायत्ता ; प्रमाणान्तरगोचरस्य तदभावे तद्विरोधे वा शिलाप्लवनवाक्यवदप्रामाण्यप्रसङ्गात्अतस्तत्सिद्धौ पराक्रान्तवान्तेन सत्यं विनापि तेन सिध्येत् प्रामाण्यम् , अस्ति तु तत्तस्मिन् विद्यमाने तेन विना प्रमाण्यं सिध्यति फलादिचोदनानाम् इति मत्वा आह

शास्त्रीये तु व्यवहारे यद्यपि विद्यमाने बुद्धिपूर्वकारी नाविदित्वात्मनः परलोकसम्बन्धमधिक्रियते इति

ननु फलनैयमिकेति ; फलचोदनेति ; नैयमिकचोदनेति ; नैमित्तिकचोदनेति ; यथा च एतदेवमिति ; सत्यमेवम् , तथापीति ; तथा च विधिवृत्तेति ; तत्कस्य हेतोरिति ; धर्मजिज्ञासेति कार्यार्थविचारमिति ; अपौरुषेयत्वेन वक्तृज्ञानाद्यनपेक्षत्वे कृत्स्नवेदवाक्यार्थानां विशेषाभावादित्यर्थः ; स्वरूपनिष्ठानामिति ; तथा ‘चोदना ही’ति ; चोदनाशेषत्वेनापि इति ; अवगच्छति इति ; गम्यत इति ; स च स्वरूपावगम इति ; कस्मिन्निति ; कथं वेति ; उपयोगाभावादिति ; भगवान्स्तु पुनरिति ; तत्र च देहान्तरोपभोगयोग्यः स्वर्गः स्थास्यतीति ; तच्च सर्वमिति ; तत्सिद्धिश्चेति ; अतस्तत्सिद्धाविति ; तेनेति ; सत्यमित्यादिना ; विनापि तेनेति ; अस्ति तु तत् इतिअस्ति तु तद्भूतय इति ; न तेन विनेति ;

शास्त्रीये त्विति भाष्येणादृष्टार्थप्रवृत्ताप्रवृत्तदावात्मन इतिवात्मनो देहाद्व्यतिरिक्तत्वज्ञानमभ्यनुजानाति । अभ्यनुज्ञामाक्षिपति -

ननु फलनैयमिकेति ।

तत्र

फलचोदनेति ।

पशुकामो यजेत, स्वर्गकामो यजेतेत्यादिचोदनेत्यर्थः ।

नैयमिकचोदनेति ।

यावज्जीवं जुहोतीत्यादिचोदनेत्यर्थः ।

नैमित्तिकचोदनेति ।

गृहदाहवान् यजेतेत्यादि चोदनेत्यर्थः । स्वर्गशब्दार्थस्य सुखत्वात् अस्मिन् जन्मनि लब्धुं शक्यत्वादितिभावः ।

यथा च एतदेवमिति ।

व्यतिरिक्तात्मा नास्तीत्येतद् ‘एक आत्मनः शरीरे भावात्ब्र०सू० ३ - ३ - ५३’ इति पूर्वपक्षसूत्रे प्रदर्शयिष्याम इत्यर्थः ।

सत्यम् , मन्त्रार्थवादादीनां प्रामाण्यमनङ्गीकुर्वतां मीमांसकानां न विधिप्रामाण्यार्थं देहव्यतिरिक्तात्मापेक्षा । भाष्यकारस्तु मन्त्रार्थवादादीनां प्रमाणान्तरेणासिद्धेऽविरुद्धे चार्थे प्रामाण्यमङ्गीकृत्य तद्बलेन प्राप्तस्य देशान्तरे कालान्तरे देहान्तरेणोपभोग्यस्य स्वर्गाख्यफलस्य साधनयागविधीनां प्रामाण्यार्थं देहव्यतिरिक्त आत्मापेक्ष्यत इति तमभ्यनुजानातीत्याह -

सत्यमेवम् , तथापीति ।

विधिनिर्णयार्थं प्रवृत्तः शाबरभाष्यकारः व्यतिरिक्तात्मानं साधयति । अतः विधिप्रामाण्याय व्यतिरिक्तात्मापेक्षा इत्याशङ्क्य तथा सति सूत्रेणापि भवितव्यम् , तदभावात् न विधिप्रामाण्यात् तस्मिन् प्रमाणापेक्षया व्यतिरिक्तत्वासाधनमित्याह -

तथा च विधिवृत्तेति ।

विधौ प्रवृत्ता मीमांसा, विधिवृत्तविषया मीमांसा, विधिवृत्तमीमांसेति वा निर्वाहः ।

विधिप्रामाण्यानपेक्षितस्यासूत्रितस्य च भाष्यकारेण प्रतिपादनमयुक्तमित्याक्षिपति -

तत्कस्य हेतोरिति ।

कस्य हेतोः कस्माद्धेतोरित्यर्थः ।

धर्मविचारं प्रतिज्ञाय तस्मिन् प्रमाणापेक्षायां चोदनां प्रमाणत्वेनोचोपन्यस्येतिपन्यस्य कथं चोदनायाः प्रामाण्यमित्यपेक्षायां तद्विधिवाक्यं प्रमाणं बादरायणस्य अनपेक्षत्वादिति मन्त्रादीनामपि साधारणहेतुप्रयोगात् , सूत्रकारेण मन्त्रादीनामपि प्रामण्यमनुसृतं मन्वानो भाष्यकारस्तत् प्रामाण्यनिमित्तस्वर्गादिफलभोक्तृत्वेन देहव्यतिरिक्त आत्मापि सूत्रकारेणानुमत इति कृत्वा व्यतिरिक्तात्मानं साधयति इत्यतो न निर्मूलं व्यतिरिक्तात्मसाधनमित्याह -

धर्मजिज्ञासेति कार्यार्थविचारमिति ।

विशेषाभावादिति ।

अपौरुषेयत्वेन वक्तृज्ञानाद्यनपेक्षत्वे कृत्स्नवेदवाक्यार्थानां विशेषाभावादित्यर्थः ।

स्वरूपनिष्ठानामिति ।

सिद्धार्थनिष्ठानामित्यर्थः ।

सूत्रेण मन्त्रादिप्रामाण्यस्य सूत्रितत्वात् तद्बलप्राप्तस्वर्गादिभोक्त्रात्मानं साधयति, न विधिप्रामाण्याय अपेक्षितत्वादात्मानं साधयतीति कथं निर्णय इत्याशङ्क्य भाष्यकारेणापि मन्त्रादिप्रामाण्यस्येष्टत्वात् निर्णय इत्याह -

तथा ‘चोदना ही’ति ।

चोदनाशेषत्वेनापि इति ।

चोदनासन्निधिपठितार्थवादादीनां चोदनाशेषत्वात् शेषगतभूताद्यर्थप्रतिपादकत्वं शेषिण्युपचरति भाष्यकार इति भावः ।

अवगच्छति इति ।

गम्यत इति ।

भाष्यकारोऽवगच्छतीत्यस्माभिर्गम्यत इत्यर्थः ।

मन्त्रादिप्रामाण्यसूचनद्वारेण व्यतिरिक्तात्मापि अनुमतश्चेत् तत्प्रतिपादकसमन्वयविचारोऽपि सूचनीय इति, नेत्याह -

स च स्वरूपावगम इति ।

आत्मप्रतिपादकवाक्यमित्यर्थः ।

कस्मिन्निति ।

वेदान्तानां चोदनाशेषभूतात्मनि प्रामाण्यं स्वतन्त्रात्मनि वेत्यर्थः ।

कथं वेति ।

एकरसार्थप्रतिपादकत्वं संसृष्टार्थप्रतिपादकत्वं वेत्यर्थः ।

उपयोगाभावादिति ।

धर्मस्य व्यतिरिक्तात्मनि अपेक्षाभावात् फलस्यैव तदपेक्षत्वात् । फले च जैमिनेःजयिमिनिनः इति प्रयत्नाभावात् व्यतिरिक्तात्मा न मीमांसित इत्यर्थः ।

फलमपि व्यतिरिक्तात्मानमपेक्षते चेत् तत्रापि प्रयत्नो युक्तो जैमिनेरिति, नान्यथासिद्धत्वादित्याह -

भगवान्स्तु पुनरिति ।

मोक्षफलरूपं ब्रह्म तद्भोक्तारम् असंसार्यात्मानं च प्रतिपादयत्याचार्यः । न स्वर्गफलं तदपेक्षितसंसार्यात्मानं च प्रतिपादयप्रतिपादयत्याशङ्क्य इतितीत्याशङ्क्य विधिरहितवाक्यानां सिद्धार्थे प्रामाण्ये साधिते विधिरहितमन्त्रादीनामपि प्रामाण्यं तदर्थस्वर्गादिवत्सिद्धं स्यादित्याह -

तत्र च देहान्तरोपभोगयोग्यः स्वर्गः स्थास्यतीति ।

स्थीयतां नाम स्वर्गः, स्वर्गाख्यलोक विशेषप्राप्तये देहविलक्षण आत्मापेक्षादेहविलक्षात्मन्यपेक्षा इति नास्ति, वर्तमानशरीरेणैवार्जुनादीनां स्वर्गप्राप्तेः श्रुतत्वादित्याशङ्क्य, यद्यपि लोकविशेषप्राप्तये नापेक्षा तथापि तत्स्थस्यान्यस्य देहान्तरप्राप्तेरपि श्रुतत्वात् वर्तमानदेहेन सह देहान्तरप्राप्तेरसम्भवात् तदुपपत्त्यर्थं देहविलक्षण आत्मा स्वीकर्तव्य इत्याह -

तच्च सर्वमिति ।

समन्वयसामर्थ्यात् देहव्यतिरिक्तात्मसिद्धेर्बादरायणस्याध्यात्मविचारः पिष्टपेषणमिति, नेत्याह –

तत्सिद्धिश्चेति ।

व्यतिरिक्तात्मनः सिद्धवस्तुत्वादेव प्रमाणान्तरयोग्यस्य प्रमाणान्तरविषयत्वाभावे मनुष्योऽहमिति देहस्यात्मविषयप्रमाणान्तरविरोधे चाप्रामाण्यप्रसङ्गात् न केवलमागमेन व्यतिरिक्तात्मनः सिद्धिरित्यर्थः ।

तर्ह्यागमस्य व्यतिरिक्तात्मन्यप्रामाण्यमेवेति नात्मसिद्धिरिति नेत्याह –

अतस्तत्सिद्धाविति ।

तेनेति ।

विरोधपरिहारफलेन विचारेणेत्यर्थः ।

उक्तमर्थं सङ्क्षेपतो दर्शयति -

सत्यमित्यादिना ।

विनापि तेनेति ।

मन्त्रादिप्रामाण्यस्वर्गास्वर्गावनभ्युपगच्छतामितिद्यनभ्युपगच्छतां व्यतिरिक्तात्मना विनापि विधिप्रामाण्यसिद्धेरित्यर्थः ।

अस्ति तु तत् इतिअस्ति तु तद्भूतय इति ।

मन्त्रादिप्रामाण्यं स्वर्गादिर्वेत्यर्थः ।

न तेन विनेति ।

व्यतिरिक्तात्मना विनेत्यर्थः ।