शास्त्रीये त्विति भाष्येणादृष्टार्थप्रवृत्ताप्रवृत्तदावात्मन इतिवात्मनो देहाद्व्यतिरिक्तत्वज्ञानमभ्यनुजानाति । अभ्यनुज्ञामाक्षिपति -
ननु फलनैयमिकेति ।
तत्र
फलचोदनेति ।
पशुकामो यजेत, स्वर्गकामो यजेतेत्यादिचोदनेत्यर्थः ।
नैयमिकचोदनेति ।
यावज्जीवं जुहोतीत्यादिचोदनेत्यर्थः ।
नैमित्तिकचोदनेति ।
गृहदाहवान् यजेतेत्यादि चोदनेत्यर्थः । स्वर्गशब्दार्थस्य सुखत्वात् अस्मिन् जन्मनि लब्धुं शक्यत्वादितिभावः ।
यथा च एतदेवमिति ।
व्यतिरिक्तात्मा नास्तीत्येतद् ‘एक आत्मनः शरीरे भावात्ब्र०सू० ३ - ३ - ५३’ इति पूर्वपक्षसूत्रे प्रदर्शयिष्याम इत्यर्थः ।
सत्यम् , मन्त्रार्थवादादीनां प्रामाण्यमनङ्गीकुर्वतां मीमांसकानां न विधिप्रामाण्यार्थं देहव्यतिरिक्तात्मापेक्षा । भाष्यकारस्तु मन्त्रार्थवादादीनां प्रमाणान्तरेणासिद्धेऽविरुद्धे चार्थे प्रामाण्यमङ्गीकृत्य तद्बलेन प्राप्तस्य देशान्तरे कालान्तरे देहान्तरेणोपभोग्यस्य स्वर्गाख्यफलस्य साधनयागविधीनां प्रामाण्यार्थं देहव्यतिरिक्त आत्मापेक्ष्यत इति तमभ्यनुजानातीत्याह -
सत्यमेवम् , तथापीति ।
विधिनिर्णयार्थं प्रवृत्तः शाबरभाष्यकारः व्यतिरिक्तात्मानं साधयति । अतः विधिप्रामाण्याय व्यतिरिक्तात्मापेक्षा इत्याशङ्क्य तथा सति सूत्रेणापि भवितव्यम् , तदभावात् न विधिप्रामाण्यात् तस्मिन् प्रमाणापेक्षया व्यतिरिक्तत्वासाधनमित्याह -
तथा च विधिवृत्तेति ।
विधौ प्रवृत्ता मीमांसा, विधिवृत्तविषया मीमांसा, विधिवृत्तमीमांसेति वा निर्वाहः ।
विधिप्रामाण्यानपेक्षितस्यासूत्रितस्य च भाष्यकारेण प्रतिपादनमयुक्तमित्याक्षिपति -
तत्कस्य हेतोरिति ।
कस्य हेतोः कस्माद्धेतोरित्यर्थः ।
धर्मविचारं प्रतिज्ञाय तस्मिन् प्रमाणापेक्षायां चोदनां प्रमाणत्वेनोचोपन्यस्येतिपन्यस्य कथं चोदनायाः प्रामाण्यमित्यपेक्षायां तद्विधिवाक्यं प्रमाणं बादरायणस्य अनपेक्षत्वादिति मन्त्रादीनामपि साधारणहेतुप्रयोगात् , सूत्रकारेण मन्त्रादीनामपि प्रामण्यमनुसृतं मन्वानो भाष्यकारस्तत् प्रामाण्यनिमित्तस्वर्गादिफलभोक्तृत्वेन देहव्यतिरिक्त आत्मापि सूत्रकारेणानुमत इति कृत्वा व्यतिरिक्तात्मानं साधयति इत्यतो न निर्मूलं व्यतिरिक्तात्मसाधनमित्याह -
धर्मजिज्ञासेति कार्यार्थविचारमिति ।
विशेषाभावादिति ।
अपौरुषेयत्वेन वक्तृज्ञानाद्यनपेक्षत्वे कृत्स्नवेदवाक्यार्थानां विशेषाभावादित्यर्थः ।
स्वरूपनिष्ठानामिति ।
सिद्धार्थनिष्ठानामित्यर्थः ।
सूत्रेण मन्त्रादिप्रामाण्यस्य सूत्रितत्वात् तद्बलप्राप्तस्वर्गादिभोक्त्रात्मानं साधयति, न विधिप्रामाण्याय अपेक्षितत्वादात्मानं साधयतीति कथं निर्णय इत्याशङ्क्य भाष्यकारेणापि मन्त्रादिप्रामाण्यस्येष्टत्वात् निर्णय इत्याह -
तथा ‘चोदना ही’ति ।
चोदनाशेषत्वेनापि इति ।
चोदनासन्निधिपठितार्थवादादीनां चोदनाशेषत्वात् शेषगतभूताद्यर्थप्रतिपादकत्वं शेषिण्युपचरति भाष्यकार इति भावः ।
अवगच्छति इति ।
गम्यत इति ।
भाष्यकारोऽवगच्छतीत्यस्माभिर्गम्यत इत्यर्थः ।
मन्त्रादिप्रामाण्यसूचनद्वारेण व्यतिरिक्तात्मापि अनुमतश्चेत् तत्प्रतिपादकसमन्वयविचारोऽपि सूचनीय इति, नेत्याह -
स च स्वरूपावगम इति ।
आत्मप्रतिपादकवाक्यमित्यर्थः ।
कस्मिन्निति ।
वेदान्तानां चोदनाशेषभूतात्मनि प्रामाण्यं स्वतन्त्रात्मनि वेत्यर्थः ।
कथं वेति ।
एकरसार्थप्रतिपादकत्वं संसृष्टार्थप्रतिपादकत्वं वेत्यर्थः ।
उपयोगाभावादिति ।
धर्मस्य व्यतिरिक्तात्मनि अपेक्षाभावात् फलस्यैव तदपेक्षत्वात् । फले च जैमिनेःजयिमिनिनः इति प्रयत्नाभावात् व्यतिरिक्तात्मा न मीमांसित इत्यर्थः ।
फलमपि व्यतिरिक्तात्मानमपेक्षते चेत् तत्रापि प्रयत्नो युक्तो जैमिनेरिति, नान्यथासिद्धत्वादित्याह -
भगवान्स्तु पुनरिति ।
मोक्षफलरूपं ब्रह्म तद्भोक्तारम् असंसार्यात्मानं च प्रतिपादयत्याचार्यः । न स्वर्गफलं तदपेक्षितसंसार्यात्मानं च प्रतिपादयप्रतिपादयत्याशङ्क्य इतितीत्याशङ्क्य विधिरहितवाक्यानां सिद्धार्थे प्रामाण्ये साधिते विधिरहितमन्त्रादीनामपि प्रामाण्यं तदर्थस्वर्गादिवत्सिद्धं स्यादित्याह -
तत्र च देहान्तरोपभोगयोग्यः स्वर्गः स्थास्यतीति ।
स्थीयतां नाम स्वर्गः, स्वर्गाख्यलोक विशेषप्राप्तये देहविलक्षण आत्मापेक्षादेहविलक्षात्मन्यपेक्षा इति नास्ति, वर्तमानशरीरेणैवार्जुनादीनां स्वर्गप्राप्तेः श्रुतत्वादित्याशङ्क्य, यद्यपि लोकविशेषप्राप्तये नापेक्षा तथापि तत्स्थस्यान्यस्य देहान्तरप्राप्तेरपि श्रुतत्वात् वर्तमानदेहेन सह देहान्तरप्राप्तेरसम्भवात् तदुपपत्त्यर्थं देहविलक्षण आत्मा स्वीकर्तव्य इत्याह -
तच्च सर्वमिति ।
समन्वयसामर्थ्यात् देहव्यतिरिक्तात्मसिद्धेर्बादरायणस्याध्यात्मविचारः पिष्टपेषणमिति, नेत्याह –
तत्सिद्धिश्चेति ।
व्यतिरिक्तात्मनः सिद्धवस्तुत्वादेव प्रमाणान्तरयोग्यस्य प्रमाणान्तरविषयत्वाभावे मनुष्योऽहमिति देहस्यात्मविषयप्रमाणान्तरविरोधे चाप्रामाण्यप्रसङ्गात् न केवलमागमेन व्यतिरिक्तात्मनः सिद्धिरित्यर्थः ।
तर्ह्यागमस्य व्यतिरिक्तात्मन्यप्रामाण्यमेवेति नात्मसिद्धिरिति नेत्याह –
अतस्तत्सिद्धाविति ।
तेनेति ।
विरोधपरिहारफलेन विचारेणेत्यर्थः ।
उक्तमर्थं सङ्क्षेपतो दर्शयति -
सत्यमित्यादिना ।
विनापि तेनेति ।
मन्त्रादिप्रामाण्यस्वर्गास्वर्गावनभ्युपगच्छतामितिद्यनभ्युपगच्छतां व्यतिरिक्तात्मना विनापि विधिप्रामाण्यसिद्धेरित्यर्थः ।
अस्ति तु तत् इतिअस्ति तु तद्भूतय इति ।
मन्त्रादिप्रामाण्यं स्वर्गादिर्वेत्यर्थः ।
न तेन विनेति ।
व्यतिरिक्तात्मना विनेत्यर्थः ।