तथापि न वेदान्तवेद्यमिति ॥
किं तदिति ? अत आह —
असंसार्यात्मतत्वं,
न तत्
अधिकारेऽपेक्ष्यते अनुपयोगादधिकारविरोधाच्च ।
अशनायाद्यतीतमित्यसंसार्यात्मतत्त्वं दर्शयति । अशनायाद्युपप्लुतो हि सर्वो जन्तुः स्वास्थ्यमलभमानः प्रवर्तते, तदपाये स्वास्थ्ये स्थितो न किञ्चिदुपादेयं हेयं वा पश्यति ।
अपेतब्रह्मक्षत्रादिभेदम्
इति प्रपञ्चशून्यमेकरसं दर्शयति ।
प्राक् च तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते इति ॥
‘तत्त्वमसी’तिवाक्यार्थावगमादर्वागविद्याकृतं संसारमहमुल्लेखमाश्रित्य प्रवर्तमानं शास्त्रं नाविद्यावद्विषयत्वमतिवर्तते । तस्मात् युक्तमुक्तं प्रत्यक्षादीनां प्रमाणानां शास्त्रस्य च अविद्यावद्विषयत्वम् ॥
वेदान्तवेद्यमहंरूपमहंप्रत्ययविषयात्मरूपात् अभिन्नमुत भिन्नम् , यद्यभिन्नमहंप्रत्ययविषयत्वादेव न वेदान्तवेद्यं भवति । भिन्नं चेत् तर्हि आत्मस्वरूपत्वं न सम्भवतीत्यतः नास्तीत्याक्षिपति -
किं तदिति ।
असंसार्यात्मतत्वमिति ।
अकर्त्रात्मत्त्वमित्यर्थः ।
अशनायाद्यतीतमित्यसंसार्यात्मतत्वं दर्शयति इति ।
अशनायाद्यतीतत्वात् आत्मतत्वमसंसारीति हेत्वभिधानेन प्रतिपादयतीत्यर्थः ।
अशनायाद्यतीतत्वस्याअतीतत्वस्यात्कर्तृत्वाख्यासंसारित्वं प्रति हेतुत्वप्रकारमाह -
अशनायाद्युपप्लुतो हीति ।
स्वास्थ्यमलभमानः आत्मयाथातथ्ये स्थितिमलभमानः ।
पश्यतीति ।
अतो न कर्तृत्वं प्रतिपद्यत इति शेषः ।
संसारमितिरसान्तरमिति ।
स्याभानेइति अपूर्णं दृश्यतेवर्णान्तरे अहमुल्लेखमहङ्कारात्मसम्पिण्डितरूपमित्यर्थः । तस्मादित्यध्यासप्रमाणोपसंहारः । तस्मात् प्रत्यक्षानुमानार्थापत्तिअर्थापत्तिश्चेतिप्रमाणादित्यर्थः ।