पञ्चपादिका
वक्तव्यकाशिका
 
तथापि न वेदान्तवेद्यमिति ॥ किं तदिति ? अत आह — असंसार्यात्मतत्वं, न तत् अधिकारेऽपेक्ष्यते अनुपयोगादधिकारविरोधाच्च । अशनायाद्यतीतमित्यसंसार्यात्मतत्त्वं दर्शयति । अशनायाद्युपप्लुतो हि सर्वो जन्तुः स्वास्थ्यमलभमानः प्रवर्तते, तदपाये स्वास्थ्ये स्थितो न किञ्चिदुपादेयं हेयं वा पश्यति । अपेतब्रह्मक्षत्रादिभेदम् इति प्रपञ्चशून्यमेकरसं दर्शयति । प्राक् च तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते इति ॥ ‘तत्त्वमसी’तिवाक्यार्थावगमादर्वागविद्याकृतं संसारमहमुल्लेखमाश्रित्य प्रवर्तमानं शास्त्रं नाविद्यावद्विषयत्वमतिवर्तते । तस्मात् युक्तमुक्तं प्रत्यक्षादीनां प्रमाणानां शास्त्रस्य च अविद्यावद्विषयत्वम् ॥

वेदान्तवेद्यमहंरूपमहंप्रत्ययविषयात्मरूपात् अभिन्नमुत भिन्नम् , यद्यभिन्नमहंप्रत्ययविषयत्वादेव न वेदान्तवेद्यं भवति । भिन्नं चेत् तर्हि आत्मस्वरूपत्वं न सम्भवतीत्यतः नास्तीत्याक्षिपति -

किं तदिति ।

असंसार्यात्मतत्वमिति ।

अकर्त्रात्मत्त्वमित्यर्थः ।

अशनायाद्यतीतमित्यसंसार्यात्मतत्वं दर्शयति इति ।

अशनायाद्यतीतत्वात् आत्मतत्वमसंसारीति हेत्वभिधानेन प्रतिपादयतीत्यर्थः ।

अशनायाद्यतीतत्वस्याअतीतत्वस्यात्कर्तृत्वाख्यासंसारित्वं प्रति हेतुत्वप्रकारमाह -

अशनायाद्युपप्लुतो हीति ।

स्वास्थ्यमलभमानः आत्मयाथातथ्ये स्थितिमलभमानः ।

पश्यतीति ।

अतो न कर्तृत्वं प्रतिपद्यत इति शेषः ।

संसारमितिरसान्तरमिति ।

स्याभानेइति अपूर्णं दृश्यतेवर्णान्तरे अहमुल्लेखमहङ्कारात्मसम्पिण्डितरूपमित्यर्थः । तस्मादित्यध्यासप्रमाणोपसंहारः । तस्मात् प्रत्यक्षानुमानार्थापत्तिअर्थापत्तिश्चेतिप्रमाणादित्यर्थः ।