पञ्चपादिका
वक्तव्यकाशिका
 
ननु प्रणव एव विस्वरः ; हि पुत्रादीनां वैकल्यं साकल्यं वा आत्मनि मुख्यमध्यस्यति, मुख्यो ह्यतदारोपो दर्शयितुं प्रारब्धः, सत्यं ; एव निदर्श्यतेकथम् ? तद्यथा बालके प्रातिवेश्यमात्रसम्बन्धिना केनचित् वस्त्रालङ्कारादिना पूजिते निरुपचरितमात्मानमेव पूजितं मन्यते पितापूजयितापि पितरमेवापूपुजमिति मन्यतेयतो बालकस्य पूजितत्वाभिमानः ; अव्यक्तत्वात् , तथैव राजानमुपहन्तुकामोऽनन्तरो विजिगीषुः तद्राष्ट्रे ग्राममात्रमप्युपहत्य तमेवोपघ्नन्तमात्मानं मन्यते, सोऽप्युपहतोऽस्मीति सन्तप्यतेतदेवं प्रसिद्धव्यतिरेकस्यात्मनि मुख्य एवाध्यासो दृष्टः, किमु वक्तव्यं, कृशस्थूलाद्यभिमानस्य मुख्यत्वमिति कथयितुमाह

अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यतीति

बाह्येषु पुत्रादिषु पूजादेः धर्ममात्रस्यैव युष्मदर्थस्याध्यासःअस्मदर्थश्चाहंप्रत्ययिसम्भिन्न एवानिदञ्चिदंशो विषयः, पुनः शुद्ध एवाहंप्रत्ययिन इवाध्यासे अध्यासान्तरानास्कन्दितः

तथा देहधर्मान् कृशत्वादीनिति

धर्मिणोऽपि ; धर्मशब्दस्तु मनुष्यत्वादिधर्मसमवायिन एवाध्यासः, देहोऽहमि’ति कथयितुम्तन्निमित्तश्च शास्त्रेणेतश्चेतश्च नियमः क्रियते

तथेन्द्रियधर्मान् मूकत्वादीनिति

धर्ममात्रम्

तथा अन्तःकरणधर्मान् कामादीनिति

धर्मग्रहणम्अन्तःकरणमित्यहंप्रत्ययिनो विज्ञानशक्तिभागोऽभिधीयतेतस्य धर्माः कामादयः

एवमहंप्रत्ययिनमिति

धर्मिग्रहणम्प्रत्ययाः कामादयोऽस्येति प्रत्ययी, अहं चासौ प्रत्ययी चेत्यहंप्रत्ययी

तं

अशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्येति

स्वशब्देन अहङ्कारग्रन्थिः संसारनृत्यशालामूलस्तम्भोऽभिधीयतेतस्य प्रचारः कामस्सङ्कल्पकर्तृत्वादिरनेकविधः परिणामः, यन्निमित्तं ब्रह्मादिस्थावरान्तेषु प्रदीप्तशिरा इव परवशो जन्तुर्बम्भ्रमीतितं प्रचारमशेषमसङ्गितया अविकारित्वेन हानोपादानशून्यः साक्षादव्यवधानमवभासयति चितिधातुः एव देहादिष्विदन्तया बहिर्भावमापद्यमानेषु प्रातिलोम्येनाञ्चतीवोपलक्ष्यते, इति प्रत्यगुच्यते, आत्मा ; निरुपचरितस्वरूपत्वात् तत्राध्यस्य

तं प्रत्यगात्मानमिति

पुत्रादीनां हस्ताद्यङ्गेषु छिन्नेषु नास्ति छिन्नहस्तोऽहमिति प्रतीतिः । अतो न मुख्य इत्याह –

कथमिति ।

छिन्नहस्तोऽस्मीति प्रतीत्यभावेऽपि बाह्यपुत्रादिगत धर्मान्तरस्य मुख्याध्यासो भवत्येवेत्याह -

तद्यथा बालक इत्यादिना ।

मातुलादिना पुत्रे पूजिते अहमेव त्वया पूजित इति रीत्या आशङ्क्याह -

वस्त्रालङ्कारादिना इति ।

पुरुषान्तरेण पुत्रस्य उपनयनादौ कृते यथा अहमुपनीत इत्यभिमानाभावः तद्वत् न पूजितत्वाभिमानः - इत्याशङ्क्य पुरुषान्तरस्य पितरं प्रति उपनेताहमस्मीत्यभिमानाभावात् अस्याप्युपनीतोऽस्मीति अभिमानाभावः । अत्र पूजयितुरपि पितरमेवापुजमित्यभिमानात् पितुः पूजितत्वाभिमान इत्याह –

पूजयितापीति ।

अव्यक्तत्वादिति ।

चित्तपरिपाकापरिपाकोपाक इतिभावादित्यर्थः । अनन्तरः स्वराष्ट्रसमीपदेशाभिमानीत्यर्थः ।

बाह्यशब्दाभिप्रायमाह –

प्रसिद्धव्यतिरेकस्येति ।

भाष्यग्रन्थतः उत्तरोत्तराध्यासोपहितः प्रत्यगात्मा पूर्वपूर्वाध्यासाधिष्ठानमित्यभिप्रेत्य आत्मन्यध्यस्यतीत्यत्र आत्मशब्दार्थमाह –

अस्मदर्थश्चेति ।

आत्मशब्दार्थश्चेत्यर्थः विषय इत्यधिष्ठानमुच्यते । विषयभूतोऽस्मदर्थश्चाहं प्रत्ययिसम्भिन्न एवानिदं चिदंश इत्यन्वयः । अहङ्कारस्य संस्कारावच्छिन्नः प्रत्यगात्माधिष्ठानं तस्य च संस्कारस्य पूर्वाहङ्कारावच्छिन्न अधिष्ठानमतोऽहङ्कारं प्रति स्थूलकार्यरूपाध्यासान्तरानास्कन्दितस्याधिष्ठानत्वात् , शुद्धप्रत्यगात्मनोऽनधिष्ठानत्वमुच्यत इति द्रष्टव्यम् । धर्मिणोऽपीत्यत्र ग्रहणमित्यध्याहारः ।

‘ब्राह्मणो यजेत’ ‘कृष्णकेशोऽग्नीनादधीत’ इत्यादिशास्त्रेण च धर्ममूलत्वेन कर्मविधानाच्च धर्मप्राधान्यात् धर्मग्रहणमित्याह –

तन्निमित्तश्चेति ।

देहधर्मानित्यत्र धर्मशब्दस्य धर्म्युपलक्षकत्ववत् इन्द्रियधर्मानित्यत्र धर्म्युपलक्षकत्वं प्राप्तं व्यावर्तयति -

धर्ममात्रमिति ।

गृह्यत इत्यध्याहारः ।

अन्तःकरणाहंप्रत्ययिनोरेकत्वात् पुनरुक्तिः स्यादिति शङ्कां व्युदस्यति -

अन्तःकरणमित्यहंप्रत्ययिन इति ।

कामादीनामहं कामीत्यादिसम्बधित्वेनैवाध्यासः, न तु अहं काम इत्यादितादात्म्येनाध्यास इति भावः ।

स्वशब्दस्यात्मवाचित्वं व्यावर्तयति -

स्वशब्देनेति ।

प्रचारः, चरणं चारः इति व्युत्पत्त्या परिणामोऽभिधीयतनिधीयत इति इत्याह -

कामसङ्कल्पकर्तृत्वादिः परिणाम इति ।

स्वप्रचार इत्यत्र प्रेत्युपसर्गार्थमाह -

अनेकविध इति ।

प्रविभक्तेषु ब्रह्मादिस्थावरान्तेषु योनिभेदेषु यन्निमित्तं यैर्निमित्तभूतैः कामाद्यैश्चरति इति व्युत्पत्त्या प्रचारशब्दस्य कामादिरर्थ इत्याह –

यन्निमित्तमिति ।

साक्षादीक्षत इति साक्षीति साक्षिशब्दस्य अव्यवधानमर्थ इत्याह –

साक्षादव्यवधानमवभासयतीति ।

अहङ्कारस्यैव परिणामव्यवधानेन कस्मात् न साधकत्वमित्याशङ्क्य चित्वादेव परिणामहीनावस्थां विहाय परिणामावस्थाप्राप्तिर्नास्तीत्याह -

हानोपादानशून्य इति ।

हानोपादानशून्यत्वं कुत इति अयोग्यत्वादित्याह –

अविकारित्वेनेति ।

कुतोऽयोग्यत्वमिति केनापि संसर्गाभावादित्याह –

असङ्गितयेति ।

कथं पुनः सर्वान्तरस्यात्मनः प्रत्यञ्चनप्रत्यगञ्च नमित्याशङ्केतिमित्याशङ्क्य बाह्यदेहादिषु विप्रसृतचैतन्यस्य क्रमेण देहादिभ्यो निष्कृष्य अनुसन्धानावस्थायामन्तरन्तरनुप्रवेश भ्रमापेक्षया इत्याह -

स एव देहादिष्विति ।

बहिर्भावमापद्यमानेष्विति ।

पूर्वमहन्तया प्रतिपन्नेषु पश्चाद्विवेकानुसन्धानसमये आत्मनः सकाशात् बहिर्भावमापद्यमानेष्वित्यर्थः ।

घटस्यापि स्वरूपत्वमस्तीत्याशङ्क्य स्वरूपमाभासस्तस्य, निरुपचरितस्वरूपस्त्वात्मेत्याह -

निरुपचरित इति ।