अधिष्ठानत्वादवभासमानत्वमेवेत्याशङ्क्य अधिष्ठानविशेषो न प्रकाशेत इत्याह -
न हि शुक्तौ रजताध्यास इति ।
तर्हि अत्रापि सर्वगतत्वादिविशेषाकारो न प्रकाशत एवेति ।
आत्मनः साधारणाकारः सत्वम् , चित्वं विशेषाकारः अन्तःकरणस्य साधारणरूपशून्यत्वं जडत्वं विशेषाकारः स प्रतिभासत इत्याह -
प्रकाशते चेह चैतन्यमिति ।
नाहङ्कारप्रमुख इति ।
प्रपञ्चस्य जडाख्यविशेषरूपातिरिक्तरूपाभावात् इति भावः ।
अनुभवमेव अनुसरन्निति ।
अहमनुभवामीत्यत्र अहङ्कारचैतन्ययोः विद्यमानमनुभवमेव अनुसरन्नित्यर्थः ।
पृथगवभासनादिति ।
द्वयोरपि सामान्यविशेषात्मना अवभासनात् नाध्यासः सम्भवति । सामानाधिकरण्यमस्ति चेत् गौणमित्यर्थः ।
विशेषावविशेषाभास इतिभासेऽध्यासविरोध उक्त इति नेत्याह -
न हि दृष्टेऽनुपपन्नमिति ।