ननु अन्तःकरणे एव प्रत्यगात्मनः शुद्धस्याध्यासः, अन्यत्र पुनः चैतन्याध्यासपरिनिष्पन्नापरोक्ष्यमन्तःकरणमेवाध्यस्यते, अत एव ‘तद्विपर्ययेण विषयिणस्तद्धर्माणां च विषयेऽध्यासो मिथ्येति भवितुं युक्तम्’ इत्युक्तम् ; अन्यथा चैतन्यमात्रैकरसस्य कुतो धर्माः ? येऽध्यस्येरन् , सत्यमाह भवान् ; अपि तु अन्यत्रान्तःकरणं सचित्कमेवाध्यस्यमानं यत्राध्यस्यते, तस्यैवात्मनः कार्यकरणत्वमापाद्य स्वयमविद्यमानमिव तिरस्कृतं तिष्ठति, चिद्रूपमेव सर्वत्राध्यासे, स्वतः परतो वा न विशिष्यते, तेनोच्यते —
तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति ॥
अत एव बुद्ध्यादिष्वेव चिद्रूपमनुस्यूतमुत्प्रेक्षमाणा बुद्धिमनःप्राणेन्द्रियशरीरेष्वेकैकस्मिन् चेतनत्वेनाहङ्कर्तृत्वं योजयन्तो भ्राम्यन्ति ॥
एवमयमनादिरनन्तो नैसर्गिकोऽध्यास
इति निगमयति ॥ ननु उपन्यासकाले नैसर्गिकोऽयं लोकव्यवहार इति लोकव्यवहारो नैसर्गिक उक्तः, कथमिहाध्यासो निगम्यते ? अनादिरिति चाधिकावापः, अत्रोच्यते — तत्रापि प्रत्यगात्मन्यहङ्काराध्यास एव नैसर्गिको लोकव्यवहारोऽभिप्रेतः ; स च प्रत्यगात्मा अनादिसिद्धः ; तस्मिन् नैसर्गिकस्यानादित्वमर्थसिद्धम् । अतः प्रक्रमानुरूपमेव निगमनम् , न चाधिकावापः ॥
अन्तःकरणादिषु अध्यस्यतीति भाष्यगतादिशब्दो विरुद्ध इति चोदयति -
नन्विति ।
अन्तःकरणस्यैव अध्यासादेव भाष्ये धर्मशब्द उक्त इत्यर्थः ।
अन्यथेति ।
शुद्धचैतन्यस्याध्यासे सतीत्यर्थः ।
अन्तःकरणस्य देहादिषु आत्माध्यासोपाधितया अनुप्रवेशमात्रमेव । न तु तस्याध्यस्तत्वमित्याह -
सत्यमाह भवानिति ।
अन्तःकरणं सचितिकमन्यत्र देहादिषु अध्यस्यमानं यत्र देहादिष्वध्यस्यते तस्यैव देहादेरात्मनः आत्मानं प्रति कार्यकरत्वम् आपाद्य अन्तःकरणं स्वसंश्लेषात् चैतन्यच्छायाभाजनयोग्यतां देहादेरापाद्य स्वयमविद्यमानमिव तिरस्कृतं तिष्ठतीति योजना ।
स्वतः परतो वेति ।
अन्तःकरणे स्वतोऽध्यस्यते देहादिष्वन्तःकरणोपाधिमपेक्ष्य अध्यस्यत इति चैतन्यस्यैव सर्वत्राध्यास इत्यत्र स विशेष इत्यर्थः ।
तेनोच्यत इति ।
आदिशब्द उच्यत इत्यर्थः ।
अत एवेति ।
सर्वत्र चैतन्यस्यैव अध्यासादेवेत्यर्थः ।
अहङ्कर्तृत्वं योजयन्त इति ।
अहंप्रत्ययविषयत्वम् आत्मत्वं च योजयन्त इत्यर्थः । निगमयतीति लक्षणादिभिः साधितमध्यासं निगमयतीत्यर्थः ।
तत्रापीति ।
प्रत्यगात्मनि नैसर्गिकत्वेन प्रथमभाष्ये यो लोकव्यवहार उक्तः, स इहोक्तप्रत्यगात्मनि अहङ्काराद्यध्यास एवेत्यर्थः ।
नैसर्गिकस्येति ।
आत्मभावे यो न बुध्यते एव ? स नैसर्गिकः, तस्येत्यर्थः ।