पञ्चपादिका
वक्तव्यकाशिका
 
ननु भवेदनादिः, अनन्तः कथम् ? यदि स्यात्तत्प्रहाणाय कथं वेदान्ता आरभ्यन्ते ? अन्तवत्त्वेऽपि तर्हि कथम् ? स्वतोऽन्यतो वा तत्सिद्धेःतस्मात् अनन्तस्य प्रहाणाय वेदान्ता आरभ्यन्ते इत्युक्ते, अर्थादेष एव प्रहाणहेतुः, असत्यस्मिन् अनन्तः इति निश्चीयते

मिथ्याप्रत्ययरूप

इति रूपग्रहणं लक्षणतस्तथा रूप्यते, व्यवहारतः इति दर्शयितुम्

कर्तृत्वभोक्तृत्वप्रवर्तकः

इति अनर्थहेतुत्वं दर्शयति हेयतासिद्धयेतेन कर्तृर्भोक्तुश्च सतो मिथ्याज्ञानं दोषप्रवर्तनमिति येषां मतं, तन्निराकृतं भवति

सर्वलोकप्रत्यक्षः इति

देहेन्द्रियादिष्वहंममाभिमानहीनस्ये’त्युपन्यस्य‘नहीन्द्रियाण्यनुपादाये’त्यादिना योऽनुभवो मिथ्यात्वसिद्धये अनुसृतः तं निगमयति

अनन्तः कथमिति ।

ज्ञाननिवर्त्यत्वादिति भावः ।

यदि स्यादिति ।

अभावविलक्षणत्वे सति अनादित्वादात्मवदनन्तश्चेदित्यर्थः ।

मिथ्याप्रत्ययरूप इत्यत्र मिथ्याप्रत्ययसदृशः, न तु मिथ्येत्युच्यत इति शङ्कानिरासार्थमाह –

रूपग्रहणमिति ।

तेनेति कर्तृत्वभोक्तृत्वशक्तेरप्यध्यासहेतुकत्वेनेत्यर्थः ।

कर्तुर्भोक्तुश्च सत इति ।

स्वत एव कर्तृत्वादिशक्तिमत इत्यर्थः ।

दोषप्रवर्तनमिति ।

रागद्वेषजननेन प्रवृत्तिकारणमित्यर्थः ।

येषामिति ।

साङ्ख्यव्यतिरिक्तानामित्यर्थः ।

मिथ्यात्वसिद्धय इति ।

अहंममाभिमानाख्याध्याससिद्धय इत्यर्थः ।