पञ्चपादिका
वक्तव्यकाशिका
 
तत्त्वमसीत्यादिवाक्याद्ब्रह्मरूपावगाहिज्ञानान्तरोत्पत्तेरिष्टत्वात्तद्धि ब्रह्मणोऽवच्छिद्यैव चैतन्यस्य ब्रह्मरूपत्वप्रच्छादनेन जीवरूपत्वापादिकामनादिसिद्धामविद्यामहङ्कारादिविक्षेपहेतुं निराकुर्वदेवोत्पद्यतेततः कारणनिवृत्तौ तत्कार्यम्अहमि’ति जीवे भोक्तृत्वरूपता सपरिकरा निवर्तत इति युज्यतेअहंप्रत्ययः पुनरनादिसिद्धोऽनादिसिद्धेनैव कार्यकरणमात्रेण सहभावादविरोधात् स्वरूपविवेकमात्रेण निवर्ततेनापि ज्ञानान्तरमुत्पन्नमिति विशेषः

व्यतिरेकब्रह्मात्मज्ञानयोरध्यासनिवृत्तौ को विशेष इति तत्राह -

तद्धि ब्रह्मणोऽवच्छिद्येति ।

ब्रह्मणः सकाशात् प्रतिबिम्बरूपेण भोक्तृत्व इत्यर्थः ।

चैतन्यस्येति ।

प्रतिबिम्बरूपेण चैतन्यस्य इत्यर्थः ।

बीजनाशेऽपि कार्यावस्थानवदविद्यानाशेऽपि प्रवाहाकारस्यावस्थानं स्यादिति नेत्याह -

ततः कारणनिवृत्ताविति ।

भोक्तृरूपता इति ।

अहङ्कार इत्यर्थः ।

सपरिकरेति ।

प्रमातृत्वादिसहितेत्यर्थः ।

विविक्त इति ग्रहणाभावेऽपि दैवगत्या स्वरूपेण विविक्तब्रह्मरूपात्मग्राहित्वात् अहंप्रत्ययः किमित्यध्यासं न निवर्तयतीत्याशङ्क्य ब्रह्मात्मतानवभासकत्वात् न तेन निवृत्तिरित्याह -

अहंप्रत्ययः पुनरिति ।

कार्यकरणमात्रेण सहभावादिति ।

जाग्रत्स्वाप्नस्वात्मदेहेतिदेहयोरन्योन्यव्यभिचारेऽपि कार्यकरणमात्रेण सहभावादित्यर्थः ।

विचाराद्विवेकज्ञानान्तरमुत्पन्नं निवर्तयेत् इति, नाप्रमाणज्ञानत्वादित्यादित्याह -

नापि ज्ञानान्तरमिति ।