व्यतिरेकब्रह्मात्मज्ञानयोरध्यासनिवृत्तौ को विशेष इति तत्राह -
तद्धि ब्रह्मणोऽवच्छिद्येति ।
ब्रह्मणः सकाशात् प्रतिबिम्बरूपेण भोक्तृत्व इत्यर्थः ।
चैतन्यस्येति ।
प्रतिबिम्बरूपेण चैतन्यस्य इत्यर्थः ।
बीजनाशेऽपि कार्यावस्थानवदविद्यानाशेऽपि प्रवाहाकारस्यावस्थानं स्यादिति नेत्याह -
ततः कारणनिवृत्ताविति ।
भोक्तृरूपता इति ।
अहङ्कार इत्यर्थः ।
सपरिकरेति ।
प्रमातृत्वादिसहितेत्यर्थः ।
विविक्त इति ग्रहणाभावेऽपि दैवगत्या स्वरूपेण विविक्तब्रह्मरूपात्मग्राहित्वात् अहंप्रत्ययः किमित्यध्यासं न निवर्तयतीत्याशङ्क्य ब्रह्मात्मतानवभासकत्वात् न तेन निवृत्तिरित्याह -
अहंप्रत्ययः पुनरिति ।
कार्यकरणमात्रेण सहभावादिति ।
जाग्रत्स्वाप्नस्वात्मदेहेतिदेहयोरन्योन्यव्यभिचारेऽपि कार्यकरणमात्रेण सहभावादित्यर्थः ।
विचाराद्विवेकज्ञानान्तरमुत्पन्नं निवर्तयेत् इति, नाप्रमाणज्ञानत्वादित्यादित्याह -
नापि ज्ञानान्तरमिति ।