पञ्चपादिका
वक्तव्यकाशिका
 
ननु नञादेः निरासकृतो निरस्यमानवाचिनश्च पदस्याश्रवणात् कथं तन्निरस्यदेवेति ? उच्यतेनेदं रजतमिति यत्र विपर्यासमात्रं निरस्यते, वस्तुतत्त्वमवबोध्यते ; तत्र तथा भवतु ; इह पुनः विज्ञानमेव तादृशमुत्पन्नं, यद् विरोधिनिराकरणमन्तरेण स्वार्थं साधयितुमलम् , तुलोन्नमनव्यापार इव आनमननान्तरीयकःतथा हिउन्नमनव्यापारः स्वविषयस्य तुलाद्रव्यस्योर्ध्वदेशसम्बन्धं साधयितुमलं, तत्कालमेव तस्याधोदेशसम्बन्धमनापाद्य चोन्नमनकारकस्य हस्तप्रयत्नादेरानमनेऽपि कारकत्वं ; प्रसिद्ध्यभावादनुभवविरोधाच्चतदेवं विपर्यासगृहीते वस्तुनि तत्त्वावद्योतिशब्दनिमित्त आत्मनो ज्ञानव्यापारोनाहं कर्ता ब्रह्माहमि’ति ग्राहयति ; ‘नेदं रजतं शुक्तिकेयमि’ति यथातस्मात्शुक्तिकेयमि’त्येव निराकाङ्क्षं वाक्यम् , ‘नेदं रजतमि’त्यनुवादःअत एवाख्यातपदस्य वाक्यत्वे क्रियाज्ञानादेव तत्साधनमात्रेऽपि प्रतीतिसिद्धेः पदान्तराणि नियमायानुवादाय वेति न्यायविदःतथा चाहुः — ‘यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वादि’ति

आरोप्याभावज्ञानम् अधिष्ठानस्यारोप्यविरोधिभावान्तरात्मताज्ञानं चेति बाधकज्ञाने द्वैविध्यमजानन् अभावं ज्ञानमेवेतिअभावज्ञानमेव बाधकं मत्वा ब्रह्मज्ञानसामग्रीभूतवाक्ये नञाद्यभावात् अभावज्ञानत्वं नास्ति, अतो न बाधकत्वं ब्रह्मज्ञानस्येति चोदयति -

ननु नञादेरिति ।

ब्रह्मज्ञानं निषेधज्ञानतया बाधकं न भवति, अधिष्ठानस्यारोप्यविरोधिभावान्तरात्मत्वज्ञानतया बाधकं मत्वा नञाद्यभावो न दोषायेत्याह -

उच्यत इति ।

अन्यविषयव्यापारादन्यस्य नान्तरीयकनिष्पत्तौ दृष्टान्तमाह -

तुलोन्नमनव्यापार इवेति ।

अधोदेशसम्बन्धोऽप्युन्नमनव्यापारस्य विषयतया सिध्यति, न नान्तरीयकतयेति, तत्राह -

न चोन्नमनकारकस्येति ।

प्रसिद्ध्यभावादिति ।

आनमनं करोतीति प्रसिद्ध्यभावादित्यर्थः ।

अनुभवविरोधाच्चेति ।

उन्नमनं करोति इत्यनुभवविरोधाच्चेत्यर्थः ।

भवतु ब्रह्मात्मैक्यज्ञानोदयनान्तरीयकतया बन्धनिरासनिष्पत्तिः । निरासप्रतीतिः कथं स्यादित्याशङ्क्य साप्यैक्यप्रतीतिनान्तरीयकेत्याह –

तदेवमिति ।

यथा निरासः तथा तत्प्रतिपत्तिरपीत्येवंशब्दार्थः । नाहं कर्ता ब्रह्माहमित्यत्र ब्रह्माहं नाहं कर्तेत्यन्वयः । तत्र ब्रह्माहमिति वाक्यार्थबोधः, नाहङ्कर्तेति नान्तरीयकबोध इति विभागो द्रष्टव्यः । नेदं रजतमित्यत्रापि एषैव योजना ।

शुक्तिकेयमिति वाक्यजन्यज्ञानं निरासं विषयीकृत्य साधयति -

न नान्तरीयकत्वेनेति ?

तत्रादप्यतस्मात् तस्माच्छुक्तिकेयमित्यनुवाद इति ।

वाक्यार्थज्ञानेन वाक्यार्थे स्फुरति सति तेन स्फुरणेन न स्वगताविद्यातत्कार्यनिवृत्तेरपि नान्तरीयकतया स्फुरितत्वात् , एवं स्फुरितनिवृत्तेर्नेदं रजतमित्यनुवाद इत्यर्थः ।

अर्थान्तरज्ञानेनार्थान्तरस्य नान्तरीयकप्रतिभासे दृष्टान्तमाह -

अत एवाख्यातपदस्येति ।

वाक्यत्व इति ।

वाक्यार्थभूतक्रियाभिधायितया वाक्यत्व इत्यर्थः ।

तत्साधनमात्रेऽपि प्रतीतिसिद्धेरिति ।

व्रीहियवपश्वाज्यपयआदिसाधनेषु प्रतीति सिद्धेरित्यर्थः ।

तत्रापि प्रतीयमानसाधनानामनेन वा अनेन वा इति विकल्पेन क्रियान्वयप्रतिपत्तौ व्रीहिभिरित्यादिपदान्तराणि साधनविशेषनियमार्थानि सर्वसाधनानां नित्यवत् क्रियान्वयप्रतिपत्तौ एकसाधनानुवादमुखेनान्यनिवृत्त्यर्थानि भवन्तीत्याह -

पदान्तराणि नियमायानुवादाय वेति ।

उदाहरणान्तरमाह -

तथा चाहुः - यजतीति ।

द्रव्यदेवता क्रियासमुदायमभिदधाति यजति चोदना, तद्विषयत्वे सति निराकाङ्क्षत्वादित्यर्थः ।