आरोप्याभावज्ञानम् अधिष्ठानस्यारोप्यविरोधिभावान्तरात्मताज्ञानं चेति बाधकज्ञाने द्वैविध्यमजानन् अभावं ज्ञानमेवेतिअभावज्ञानमेव बाधकं मत्वा ब्रह्मज्ञानसामग्रीभूतवाक्ये नञाद्यभावात् अभावज्ञानत्वं नास्ति, अतो न बाधकत्वं ब्रह्मज्ञानस्येति चोदयति -
ननु नञादेरिति ।
ब्रह्मज्ञानं निषेधज्ञानतया बाधकं न भवति, अधिष्ठानस्यारोप्यविरोधिभावान्तरात्मत्वज्ञानतया बाधकं मत्वा नञाद्यभावो न दोषायेत्याह -
उच्यत इति ।
अन्यविषयव्यापारादन्यस्य नान्तरीयकनिष्पत्तौ दृष्टान्तमाह -
तुलोन्नमनव्यापार इवेति ।
अधोदेशसम्बन्धोऽप्युन्नमनव्यापारस्य विषयतया सिध्यति, न नान्तरीयकतयेति, तत्राह -
न चोन्नमनकारकस्येति ।
प्रसिद्ध्यभावादिति ।
आनमनं करोतीति प्रसिद्ध्यभावादित्यर्थः ।
अनुभवविरोधाच्चेति ।
उन्नमनं करोति इत्यनुभवविरोधाच्चेत्यर्थः ।
भवतु ब्रह्मात्मैक्यज्ञानोदयनान्तरीयकतया बन्धनिरासनिष्पत्तिः । निरासप्रतीतिः कथं स्यादित्याशङ्क्य साप्यैक्यप्रतीतिनान्तरीयकेत्याह –
तदेवमिति ।
यथा निरासः तथा तत्प्रतिपत्तिरपीत्येवंशब्दार्थः । नाहं कर्ता ब्रह्माहमित्यत्र ब्रह्माहं नाहं कर्तेत्यन्वयः । तत्र ब्रह्माहमिति वाक्यार्थबोधः, नाहङ्कर्तेति नान्तरीयकबोध इति विभागो द्रष्टव्यः । नेदं रजतमित्यत्रापि एषैव योजना ।
शुक्तिकेयमिति वाक्यजन्यज्ञानं निरासं विषयीकृत्य साधयति -
न नान्तरीयकत्वेनेति ?
तत्रादप्यतस्मात् तस्माच्छुक्तिकेयमित्यनुवाद इति ।
वाक्यार्थज्ञानेन वाक्यार्थे स्फुरति सति तेन स्फुरणेन न स्वगताविद्यातत्कार्यनिवृत्तेरपि नान्तरीयकतया स्फुरितत्वात् , एवं स्फुरितनिवृत्तेर्नेदं रजतमित्यनुवाद इत्यर्थः ।
अर्थान्तरज्ञानेनार्थान्तरस्य नान्तरीयकप्रतिभासे दृष्टान्तमाह -
अत एवाख्यातपदस्येति ।
वाक्यत्व इति ।
वाक्यार्थभूतक्रियाभिधायितया वाक्यत्व इत्यर्थः ।
तत्साधनमात्रेऽपि प्रतीतिसिद्धेरिति ।
व्रीहियवपश्वाज्यपयआदिसाधनेषु प्रतीति सिद्धेरित्यर्थः ।
तत्रापि प्रतीयमानसाधनानामनेन वा अनेन वा इति विकल्पेन क्रियान्वयप्रतिपत्तौ व्रीहिभिरित्यादिपदान्तराणि साधनविशेषनियमार्थानि सर्वसाधनानां नित्यवत् क्रियान्वयप्रतिपत्तौ एकसाधनानुवादमुखेनान्यनिवृत्त्यर्थानि भवन्तीत्याह -
पदान्तराणि नियमायानुवादाय वेति ।
उदाहरणान्तरमाह -
तथा चाहुः - यजतीति ।
द्रव्यदेवता क्रियासमुदायमभिदधाति यजति चोदना, तद्विषयत्वे सति निराकाङ्क्षत्वादित्यर्थः ।