पञ्चपादिका
वक्तव्यकाशिका
 
अपरे तुयज्ञं व्याख्यास्यामो द्रव्यं देवता त्यागःइतिकथं ? क्रियामात्रवाचिनो द्रव्यदेवताभिधानं नान्तरीयकं तद्विषयज्ञाननिमित्तत्वं विहायप्रत्यक्षबाधस्याप्ययमेव प्रकारः, असम्प्रयुक्तविषयत्वाद्बाधस्यतदेवमशाब्दमविद्याविलयं मन्वानः श्रुतिन्यायकोविदो भगवान् भाष्यकारो विषयात् पृथक् निर्दिशति

अस्यानर्थहेतोः प्रहाणायेति

चतुर्थीप्रयोगोऽपि विद्यासामर्थ्यसिद्धिमभिप्रेत्य, तदर्थमुपादानम्प्रयोजनत्वं पुरुषाकाङ्क्षाया एवास्तु हि विद्या गवादिवत् तटस्था सिध्यति, येनाप्तिः पृथगुपादीयेतसा हि वेदित्राश्रया वेद्यं तस्मै प्रकाशयन्त्येवोदेतिसत्यमेवमन्यत्र ; प्रकृते पुनर्विषये विद्या उदिताऽपि प्रतिष्ठां लभते ; असम्भावनाभिभूतविषयत्वात्तथा लोके अस्मिन् देशे काले चेदं वस्तु स्वरूपत एव सम्भवतीति दृढभावितं, यदि तत् कथं चित् दैववशादुपलभ्येत, तदा स्वयमीक्षमाणोऽपि तावन्नाध्यवस्यति, यावत् तत्सम्भवं नानुसरतितेन सम्यग्ज्ञानमपि स्वविषयेऽप्रतिष्ठितमनवाप्तमिव भवतितेन तत्स्वरूपप्रतिष्ठायै तर्कं सहायीकरोतिअत एव प्रमाणानामनुग्राहकस्तर्कः इति तर्कविदः

क्रियावाचिपदं द्रव्यादिकमभिदधातीत्युक्तत्वात् न नान्तरीयकतया द्रव्यादिकं न साधयतीति तत्राह -

कथं हीति ।

अयमेव प्रकार इति ।

निरासविशिष्टशुक्तिविषयतया न निरासबोधकत्वम् , शुक्तिबोधननान्तरीयकतयैव निरासबोधकत्वमित्यर्थः ।

असम्प्रयुक्तविषयत्वादिति ।

प्रत्यक्षत्वमभावस्येति वदतामपि प्रत्यक्षप्रतियोप्रतियोगिभावस्येतिगिकाभावस्य प्रत्यक्षत्वमित्यभ्युपगमात् शुक्तिकेयमिति प्रत्यक्षविषयतया अप्रत्यक्षरूप्यनिराससिद्धिर्न सम्भवतीत्यर्थः ।

अनर्थहेतुप्रहाणस्य ब्रह्मविद्याफलत्वात् वेदान्तारम्भफलत्वेन चतुर्थ्या कथं निर्देश इत्याशङ्क्य न साक्षात् फलत्वविवक्षया चतुर्थीप्रयोग इत्याह –

चतुर्थीप्रयोगोऽपीति ।

उपादानं वेदान्तारम्भ इत्यर्थः ।

अनर्थहेतुनिरासस्य साध्यातिशयत्वेऽपि प्रयोजनतया न प्रवर्तकत्वम् , प्रयोजनत्वं विज्ञानस्य भवतु न वाक्यस्येति तत्राह -

प्रयोजनत्वं चेति ।

आकाङ्क्षाया इति ।

आकाङ्क्ष्यत इत्याकाङ्क्षा, आकाङ्क्ष्यमाणस्यैव व्यवहितत्वेऽपि वेदान्तारम्भं प्रति प्रयोजनत्वमस्तीत्यर्थः ।

विद्याप्रतिपत्तय इति प्राप्तिवाचिप्रतिपत्तिशब्दमाक्षिपति -

न हि विद्येति ।

तटस्थेति ।

भिन्नदेशे सत्वं न लक्षत इत्यर्थः ।

स्वरूपतः प्राक् इदं न स्पष्टम्अथ, फलशिरस्कवेषेण च ज्ञातुरुत्पत्त्यैव प्राप्तैवेत्याह -

सा हीति ।

विद्याया विषयेण सह अपरोक्षावभासत्वं प्राप्तिरित्युच्यते । तत् स्थूलघटादावुत्पत्त्यैव भवति, सूक्ष्मब्रह्मात्मनि तु न सम्भवतीत्याह –

सत्यमेवमिति ।

अत्र विद्येति विचारितशक्तितात्पर्योपहितात्तात्पर्योपशब्दादिति शब्दात् उत्पन्नोच्यते ।

प्रतिष्ठामिति ।

विषयेण सह अपरोक्षमित्यर्थः ।

असम्भावनेति ।

चित्तस्य ब्रह्मात्मपरिभावनाप्रचयनिमित्ततदेकाग्रवृत्त्ययोग्यतोच्यते ।

विपरीतभावनेति ।

शरीराद्यध्याससंस्कारतात्पर्योपशब्दादितिप्रचयः ।

अपरोक्षज्ञानकारणजन्यज्ञाने सत्यपि असम्भावनादिचित्तदोषात् अपरोक्षनिश्चयाभावे दृष्टान्तमाह -

तथा च लोक इति ।

इदं वस्तु इत्यादिमरीचफलादिरुच्यते ।

कथञ्चिदिति ।

नौयानादिनेत्यर्थः ।

दैववशादिति ।

नदीवेगादिनेत्यर्थः ।

नाध्यवस्यतीति ।

असम्भाविमरीचफलत्वादिविशेषांशं नाध्यवस्यतीत्यर्थः । तत् स्वप्रतिष्ठायै तस्य ज्ञानस्य स्वविषयेण सहापरोक्षाय इत्यर्थः । प्रमाणशक्तिविषयतदित्यत्र तदिति तत्त्वमुच्यते । प्रमाणादितत्त्वे सम्भवासम्भवप्रत्ययः तर्को न नियामक इत्यर्थः ।