क्रियावाचिपदं द्रव्यादिकमभिदधातीत्युक्तत्वात् न नान्तरीयकतया द्रव्यादिकं न साधयतीति तत्राह -
कथं हीति ।
अयमेव प्रकार इति ।
निरासविशिष्टशुक्तिविषयतया न निरासबोधकत्वम् , शुक्तिबोधननान्तरीयकतयैव निरासबोधकत्वमित्यर्थः ।
असम्प्रयुक्तविषयत्वादिति ।
प्रत्यक्षत्वमभावस्येति वदतामपि प्रत्यक्षप्रतियोप्रतियोगिभावस्येतिगिकाभावस्य प्रत्यक्षत्वमित्यभ्युपगमात् शुक्तिकेयमिति प्रत्यक्षविषयतया अप्रत्यक्षरूप्यनिराससिद्धिर्न सम्भवतीत्यर्थः ।
अनर्थहेतुप्रहाणस्य ब्रह्मविद्याफलत्वात् वेदान्तारम्भफलत्वेन चतुर्थ्या कथं निर्देश इत्याशङ्क्य न साक्षात् फलत्वविवक्षया चतुर्थीप्रयोग इत्याह –
चतुर्थीप्रयोगोऽपीति ।
उपादानं वेदान्तारम्भ इत्यर्थः ।
अनर्थहेतुनिरासस्य साध्यातिशयत्वेऽपि प्रयोजनतया न प्रवर्तकत्वम् , प्रयोजनत्वं विज्ञानस्य भवतु न वाक्यस्येति तत्राह -
प्रयोजनत्वं चेति ।
आकाङ्क्षाया इति ।
आकाङ्क्ष्यत इत्याकाङ्क्षा, आकाङ्क्ष्यमाणस्यैव व्यवहितत्वेऽपि वेदान्तारम्भं प्रति प्रयोजनत्वमस्तीत्यर्थः ।
विद्याप्रतिपत्तय इति प्राप्तिवाचिप्रतिपत्तिशब्दमाक्षिपति -
न हि विद्येति ।
तटस्थेति ।
भिन्नदेशे सत्वं न लक्षत इत्यर्थः ।
स्वरूपतः प्राक् इदं न स्पष्टम्अथ, फलशिरस्कवेषेण च ज्ञातुरुत्पत्त्यैव प्राप्तैवेत्याह -
सा हीति ।
विद्याया विषयेण सह अपरोक्षावभासत्वं प्राप्तिरित्युच्यते । तत् स्थूलघटादावुत्पत्त्यैव भवति, सूक्ष्मब्रह्मात्मनि तु न सम्भवतीत्याह –
सत्यमेवमिति ।
अत्र विद्येति विचारितशक्तितात्पर्योपहितात्तात्पर्योपशब्दादिति शब्दात् उत्पन्नोच्यते ।
प्रतिष्ठामिति ।
विषयेण सह अपरोक्षमित्यर्थः ।
असम्भावनेति ।
चित्तस्य ब्रह्मात्मपरिभावनाप्रचयनिमित्ततदेकाग्रवृत्त्ययोग्यतोच्यते ।
विपरीतभावनेति ।
शरीराद्यध्याससंस्कारतात्पर्योपशब्दादितिप्रचयः ।
अपरोक्षज्ञानकारणजन्यज्ञाने सत्यपि असम्भावनादिचित्तदोषात् अपरोक्षनिश्चयाभावे दृष्टान्तमाह -
तथा च लोक इति ।
इदं वस्तु इत्यादिमरीचफलादिरुच्यते ।
कथञ्चिदिति ।
नौयानादिनेत्यर्थः ।
दैववशादिति ।
नदीवेगादिनेत्यर्थः ।
नाध्यवस्यतीति ।
असम्भाविमरीचफलत्वादिविशेषांशं नाध्यवस्यतीत्यर्थः । तत् स्वप्रतिष्ठायै तस्य ज्ञानस्य स्वविषयेण सहापरोक्षाय इत्यर्थः । प्रमाणशक्तिविषयतदित्यत्र तदिति तत्त्वमुच्यते । प्रमाणादितत्त्वे सम्भवासम्भवप्रत्ययः तर्को न नियामक इत्यर्थः ।