पञ्चपादिका
वक्तव्यकाशिका
 
ननु अब्रह्मोपासनान्यपि वेदान्तेषु दृश्यन्ते प्राणादिविषयाणि, सत्यं, तान्यपि कार्यब्रह्मावाप्तिक्रमेण मुक्तिफलान्येववक्ष्यत्येतत् सूत्रकारः — ‘कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्इति

यथा चायमर्थः सर्वेषां वेदान्तानां, तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः इति

प्रतिज्ञातेऽर्थे वेदान्तानां तात्पर्यमुपदर्शयितुं समन्वयसूत्रप्रमुखैः सूत्रवाक्यैः ग्रथितो न्यायः इति दर्शयतिशरीरमेव शरीरकं, शरीरके भवः शारीरको जीवःतमधिकृत्य कृतो ग्रन्थः शारीरकःतदिह वेदान्तानां जीवस्य तत्त्वमधिकृत्य प्रवृत्तानां ब्रह्मरूपतायां पर्यवसानमिति कथयितुं प्रणीतानां शारीरकं जीवतत्त्वमधिकृत्य कृतत्वमस्तीति शारीरकाभिधानम्

मुमुक्षुत्वे सति अनन्तरं ब्रह्मज्ञानं कर्तव्यमिति यद्यप्येतावान् सूत्रस्य श्रौतोऽर्थः ; तथापि अर्थात् ब्रह्मज्ञानस्य मोक्षः प्रयोजनं निर्दिष्टं भवतितथा हिपुरुषार्थवस्तुकामनानन्तरं यत्र प्रवृत्तिरुपदिश्यते, तस्य तत्साधनत्वमप्यर्थान्निर्दिष्टं प्रतीयतेतथा सति कुतः तत् मोक्षसाधनं ब्रह्मज्ञानं भवतीत्यपेक्षायां अर्थात् अस्माच्छास्त्राद्भवतीति शास्त्रस्य ब्रह्मज्ञानं विषयो निर्दिष्टःतदेवं मुमुक्षुत्वानन्तरं ब्रह्मज्ञानकर्तव्यतोपदेशमुखेन वेदान्तानां विषयप्रयोजननिर्देशेऽप्यार्थं सूत्रस्य व्यापारं दर्शयित्वा तदपेक्षितमप्यर्थात् सूत्रितमविद्यात्मकबन्धमुपर्वण्य प्रतिज्ञातार्थसिद्धये हेत्वाकाङ्क्षायामस्मिन्नेव तं प्रदर्शयिष्याम इति व्याख्येयत्वमुपक्षिप्य व्याख्यातुकामः प्रथमं तावत् प्रयोजनविषययोरुपादाने निमित्तमाह

वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम्अथातो ब्रह्मजिज्ञासेति

अयमस्यार्थःशास्त्रस्यादिरयम्आदौ प्रवृत्त्यङ्गतया प्रयोजनं विषयश्च दर्शनीयःसूत्रं चैतत्अतो यः कश्चिदर्थः शब्दसामर्थ्येनार्थबलाद्वा उत्प्रेक्षितः सर्वः तदर्थमेवेति भवत्ययमर्थकलापः तन्महिमाधिगतःएवं सूत्रस्यादित्वेन कारणेन सूत्रतया विषयप्रयोजनं तत्सिद्धिकरं चाविद्याख्यं बन्धं तत्सामर्थ्यावगतमापाद्य तत्र सूत्रसामर्थ्यं दर्शयितुं प्रतिपदं व्याख्यामारभ्यते

इति परमहंसपरिव्राजकादिश्रीशङ्करभगवद्पादान्तेवासिवरश्रीपद्मपादाचार्यकृतौ पञ्चपादिकायामध्यासभाष्यं नाम प्रथमवर्णकं समाप्तम् ॥

मुक्तिफलान्येव इति ।

परम्परया ब्रह्मात्मैकत्वावगति हेतुतया मुक्तिफलान्येवेत्यर्थः ।

ब्रह्मात्मैकत्वबन्धनिवृत्त्योः वेदान्तं प्रति विषयप्रयोजनत्वमस्तु विचारशास्त्रस्य विषयादि न लभ्यत इत्याशङ्क्य तस्यापि त एव विषयप्रयोजने इति मत्वा आह -

यथा चायमिति ।

भाष्यस्य तात्पर्यमाह -

प्रतिज्ञातेऽर्थ इति ।

प्रथमसूत्रेणार्थात् सूत्रिते ब्रह्मात्मैकत्व इत्यर्थः ।

उपदर्शयितुमिति ।

उपदर्शयितुं समर्थन्यायो ग्रथित इति दर्शयतीत्यर्थः ।

कृतो ग्रन्थ इति

वेदान्ता उच्यन्ते ।

वेदान्तान्तं शरीरकत्वेऽपि विचारशास्त्रस्य कथं शारीरकत्वमिति तदाह –

तदिहेति ।

प्रणीतानामिति ।

सूत्राणामित्यर्थः । विचारकर्तव्यतामात्रं सूत्रार्थः ।

तत्र विषयप्रयोजनयोरसूत्रितयोः वेदान्ततद्विचारसम्बन्धितया उपपादनमयुक्तमित्याशङ्क्य सूत्रितत्वं दर्शयति -

मुमुक्षत्वे सत्यनन्तरमिति ।

यत्र प्रवृत्तिरिति ।

यस्मिन् धात्वर्थे हितसाधनता लिङादिपदैरुपदिश्यत इत्यर्थः ।

यत्र प्रवृत्तिरिति ।

प्रवृत्तिविषयहितसाधनतोच्यते ।

तस्येति ।

धात्वर्थस्येत्यर्थः । तत्साधनत्वं कामितसाधनत्वमित्यर्थः ।

कथं विषयादिसूत्रितमिति तदाह -

तथा सतीति ।

ब्रह्मज्ञानं विषयो निर्दिष्ट इति ज्ञायमानं ब्रह्म ज्ञानहेतुशास्त्रं प्रति विषयत्वेन निर्दिष्टमित्यर्थः ।

वृत्तं सङ्कीर्तयति -

तदेवमित्यादिना ।

प्रतिज्ञातार्थसिद्धय इति ।

वेदान्तानां बन्धनिवृत्तिः ब्रह्मात्मैक्यं च विषयप्रयोजन इति प्रतिज्ञातार्थसिद्धय इत्यर्थः ।

व्याख्येयत्वमुपक्षिप्य इति ।

शास्त्रे प्रदर्शयिष्याम इत्युक्त्या शास्त्रस्यापि वेदान्तविषयादिना विषयादिमत्वद्योतनेन विषयादिमत्वादेव व्याख्येयत्वमुपक्षिप्येत्यर्थः ।

वेदान्तमीमांसेत्यादिभाष्यस्य तात्पर्यमाह -

प्रथमं तावदिति ।

प्रथमसूत्रेणोपपादन इत्यर्थः । महिमेति महातात्पर्यमुच्यते ।

तत्राद्यशब्दइत्यादिपदव्याख्यानभाष्यस्य वृत्तसङ्कीर्तनपू्र्वकं तात्पर्यमाह -

एवं सूत्रस्येति ।

तत्सामर्थ्यावगतं सूत्रसामर्थ्यावगतमित्यर्थः । || इति प्रथमवर्णककाशिका ||