ननु न सर्वे वेदान्ता विद्यार्थमेवारभ्यन्ते, तदेकदेशः क्रममुक्तिफलाय ऐश्वर्याय अभ्युदयार्थं कर्मसमृद्धये चोपासनानि विविधान्युपदिशन् उपलभ्यते । सत्यम् ; उपासनाकर्म तु ब्रह्म, तच्च अपाकृताशेषप्रपञ्चं जीवस्य निजं रूपमिति निरूपयितुम् अखिलप्रपञ्चजन्मादिहेतुतया प्रथमं सर्वात्मकं सर्वज्ञं सर्वशक्ति च ब्रह्म लक्षितम् । अस्यां चावस्थायामनपाकृत्यैव ब्रह्मणि प्रपञ्चं तेन तेन प्रपञ्चेनोपधीयमानं ब्रह्म तस्मै तस्मै फलायोपास्यत्वेन विधीयते, दर्शपूर्णमासार्थाप्प्रणयनमिव गोदोहनोपरक्तं पशुभ्यः ; तस्मात् तदर्थोपजीवित्वादितरस्य
आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्त
इति न विरुध्यते ॥
निष्प्रपञ्चब्रह्मप्रतिपत्त्युपायतया तदङ्गभूतसप्रपञ्चब्रह्मविषयत्वात् उपासनावाक्यस्य परमाङ्गिनिष्प्रपञ्चब्रह्मशेषत्वमस्तीत्याह -
सत्यम् , उपासनाकर्मउपासनाकर्मत्वमितित्विति ।
निष्प्रपञ्चब्रह्म प्रति कथं सप्रपञ्चस्याङ्गत्वमिति आशङ्क्य अध्यारोपापवादन्यायेनोपयोगात् अङ्गत्वमित्याह –
तत्रापाकृतेतितच्चापाकृतेति ।
निरासार्थमुपदिष्टसप्रपञ्चरूपमाश्रित्य कथमुपासनं विधीयत इत्याशङ्क्य फलविशेषसिद्धेः तदर्थिनं मन्दाधिकारिणं प्रति विधानमित्याह -
अस्यां चेति ।
उपधीयमानं उपाधिरुपाधिरूपाणि इतिउपाधिनाश्रियमाणं गम्यमानं व्याप्तमित्यर्थः ।
अन्याङ्गस्योपासितस्य कथं पृथक्फलहेतुत्वमिति तत्राह –
दर्शपूर्णमासेति ।
अतो वेदान्तानां महातात्पर्यं परब्रह्मण्येव इत्युपसंहरति -
तस्मात्तदर्थोपजीवित्वादिति ।