पञ्चपादिका
वक्तव्यकाशिका
 

अत्र केचिदभ्यधिकाशङ्कां दर्शयन्तो ब्रह्मजिज्ञासां पृथक् आरभन्तेकेयमत्राभ्यधिकाशङ्का चोदनालक्षणोऽर्थो धर्मः इति ब्रुवता विधेः प्रामाण्यं दर्शितम्अत्र केषुचिद्वाक्येषु विधिरेव श्रूयते, सदेव सोम्येदमग्र आसीत्’ (छा. उ. ६-२-१) इत्येवमादिषु ; यत्रापि विधिः श्रूयते आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २-४-५) तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ (छा.उ.५-१०-५) इति तत्र यद्यपि कृत्या अविशेषेण विधौ स्मर्यन्ते ; तथापि, यो भावाभिधायी तव्यप्रत्ययः, क्रियायां पुरुषं नियोक्तुं शक्नोतियत्र पुनः कर्म प्राधान्येनोच्यते, तत्र द्रव्ये गुणभूतां क्रियां कार्यान्तरसम्बन्धित्वेन विधातुं शक्नोतिद्रव्यपरत्वे चानुत्पाद्यत्वात् , अविकार्यत्वात् , अनाप्यत्वात् , असंस्कार्यत्वात् , संस्कृतस्य कार्यान्तरे उपयोगाभावादसंस्कार्यत्वम्अतःआत्मानमुपासीते’त्यात्मन ईप्सिततमत्वं सम्भवतिअथ पुनर्विपरीतो गुणप्रधानभावः सक्तुन्यायेन कल्प्येत, तत्रापि ज्ञायते किं तदुपासनम् ? कथं चात्मना तत् क्रियत इति ? अथ ज्ञायते ज्ञानमुपासनम् , आत्मा विषयभावेन तन्निर्वर्तयतीति, एवं तर्हि तदेवायातं ज्ञानेनात्माऽऽप्यत इति, तच्च कृतकरणमनर्थकम् ; नित्याप्तत्वादात्मनःसंस्कार्यत्वे चोपयोगाभाव उक्तःअतो विध्यभावादविवक्षितार्था वेदान्ताः, इति धर्मजिज्ञासानन्तरं स्नाने प्राप्त इदमारभ्यतेअथातो ब्रह्मजिज्ञासेतिअनन्तरं ब्रह्म जिज्ञासितव्यं, स्नातव्यमित्यभिप्रायःकर्माभिधायिनोऽपि कृत्यप्रत्ययान्नियोगसंप्रत्ययान्न नियोक्तृत्वं निराकर्तुं शक्यते ; ‘कटस्त्वया कर्तव्यः’ ‘ग्रामस्त्वया गन्तव्यःइतिवत्यत्तूक्तंद्रव्यपरत्वे प्रयोजनाभावादानर्थक्यं नियोगस्येति, तदसत् ; अविद्योच्छेदस्योपलभ्यमानत्वात्अविद्या संसारहेतुभूता

आशङ्कानिराकरणेन सिद्धान्तैकदेशिनामारम्भप्रकारं दूषयितुमनारम्भवादी तं दर्शयति -

अत्र केचिदिति ।

(अधीतवाक्यात् अधीत)प्रामाण्यं दर्शितमिति ।

विधिरहितवाक्यमप्रमाणमित्यभिप्रायेण विधेः प्रामाण्यं दर्शितमित्यर्थः ।

विधिरहितमपि वाक्यं विधियुक्तवाक्येन एकवाक्यत्वेन सम्बध्यते । अतो न सर्वत्र विधिश्रवणापेक्षा इत्याशङ्क्य विधेरनुपपत्तिरेवेत्यभिप्रेत्याह -

यत्रापीति ।

तत्रापि विधेरनुपपत्तिरिति भावः ।

कृत्यप्रत्ययानां कृत्याश्चेति विधौ स्मरणात् तव्यप्रत्ययेन ज्ञान विधीयत इति तत्राह -

यद्यपि कृत्या इति ।

तथापि इह तु विधिर्न सम्भवतीत्यर्थः ।

अविशेषेणेति ।

भावकर्मणोः स्मरणवदिति भावः ।

गन्तव्यमिति गमनविधानवत् । ज्ञानं विधीयतामित्याशङ्क्य तव्यप्रत्ययस्य धात्वर्थविषयत्वे सति धात्वर्थस्य प्राधान्येन स्वतन्त्रफलाय विधानं युक्तं न त्वन्यत्रेत्याह -

यो भावाभिधायीति ।

क्रियासमवेतनियोगाभिधायित्वेन क्रियायां पर्यवसायी प्रत्यय इत्यर्थः ।

क्रियाप्रतिपत्तस्येतिप्रधानत्वादिति ।

क्रियासमवेतनियोगाभिधायित्वे प्रत्ययस्य क्रियायां कर्मण्यतिशयहेतुत्वेन तं प्रति गुणभूतत्वाभावादेव स्वतन्त्रफलसाधनत्वेन प्रधानत्वं भवतीत्यर्थः ।

नियोक्तुं शक्नोतीति ।

क्रियासमवेतनियोगं पुरुषं प्रति बोधयितुं शक्नोतीत्यर्थः ।

स्वाध्यायोऽध्येतव्य इतिवत् कर्माभिधायितव्यप्रत्ययादपि धात्वर्थविधिरवगम्यतामित्याशङ्क्य तथापि स्वतन्त्रफलाय वा धात्वर्थो विधीयताम् , किं वा कर्मकारकगतफलायेति विकल्प्य न तावत् स्वतन्त्रफलायेत्याह -

यत्र पुनः कर्म प्राधान्येनोच्यत इति ।

अत्र कर्मेति पदच्छेदः । क्रियाविषयद्रव्यमित्यर्थः ।

न कार्यान्तरसम्बन्धित्वेनेति ।

अतिशयहेतुत्वेन तं प्रति गुणभूत क्रिया स्वतन्त्रादृष्टं प्रति गुणभूतां कर्तुं न क्रियाप्रधानत्वादिति नास्तिशक्नोतीत्यर्थः ।

अथ कर्मकारकसमवायिफलाय विधिस्तत्राह -

द्रव्यपरत्व इति ।

अनादित्वात् अविकारित्वात् नित्यप्राप्तत्वात् निर्गुणत्वादिति क्रमेण अनुत्पाद्यत्वादीनां हेतुर्द्रष्टव्यः ।

आत्मनि गुणप्रधानाख्यसंस्कारसम्भवे विहितक्रियासामर्थ्यात् अज्ञानाधर्मादिमलापकर्षणसंस्कारः स्यात् - नेत्याह -

संस्कृतस्य चेति ।

संस्कृतव्रीह्यादेर्यागजन्यापूर्वोपयोगवदात्मनः अपूर्वोपयोगभावादित्यर्थः ।

ईप्सिततमत्वमिति ।

क्रियाजन्यातिशयविशिष्टतया कर्मत्वमित्यर्थः ।

विपरीतो गुणप्रधानभाव इति ।

आत्मनि क्रियाजन्यातिशयासम्भवात् आत्मानमिति क्रियाजन्यातिशयविशिष्टतया क्रियां प्रति प्राधान्यं प्रतीयमानं विहाय आत्मना उपासीतेति क्रियां प्रति कारकत्वेन आत्मनो गुणभावः कल्प्यते । उपासनस्यापि आत्मनि दृष्टादृष्टातिशयहेतुत्वेन तं प्रति गुणभावं प्रतीयमानं विहाय आत्मना उपासीतेति स्वतन्त्रादृष्टहेतुत्वात् प्राधान्यं कल्प्यत इत्यर्थः ।

सक्तुन्यायेनेति ।

सक्तून् जुहोतीति क्रतुप्रकरणे श्रवणात् । सक्तुहोमस्य क्रत्वङ्गत्वे वक्तव्ये सक्तुगतातिशयहेतुत्वेन संस्कारकर्मत्वप्रतीतेः, प्रयाजादिवत् अङ्गत्वायोगात् सक्तूनां अन्यत्रोपयोगासम्भवात् संस्कारकर्मत्वस्याप्ययोगात् वैयर्थ्ययोगाच्च सक्तूनिति प्रतीयमानं प्राधान्यं विहाय सक्तुभिरिति गुणभावमङ्गीकृत्य होमस्यापि प्रतीयमानगुणभावं विहाय स्वतन्त्रादृष्टहेतुतया प्राधान्यमभ्युपगम्य प्रयाजादिवत् अङ्गता सक्तुहोमस्य निर्णीता, तद्वदित्यर्थः ।

तत्र यथाशब्दतो होमप्राधान्येऽपि सकर्मकत्वाद्धातोः सक्तव एवार्थतः कर्मकारकतया स्वीक्रियन्ते । एवमवगमस्यापि सकर्मकत्वादेवार्थतः कर्माभावेन विधानमिति परिहरति -

तत्रापि न ज्ञायत इति ।

शब्दतः रणत्वेऽपि इतिकरणत्वेऽपि अर्थतः कर्मता आत्मन एवेत्याशङ्कते -

अथ ज्ञायत इति ।

अर्थतः कर्मत्वे सति आत्मनि क्रियाजन्यातिशयो वक्तव्यः, तत्रोत्पाद्यत्वविकाविकार्यत्वासम्भवात्र्यत्वयोरसम्भवात् आप्यत्वं संस्कार्यत्वं वा गतिः स्यात् । तत्र तावदर्थतः (आत्मनः ? ) प्रतीतितश्चावाप्तिः अनादिसिद्धासंस्कार्यस्य चोपयोगाभाव उक्तः । अतो निष्कर्मकं विज्ञानं न विधातुं शक्यत इत्याह -

एवं तर्हीति ।

अविवक्षितार्था अप्रमाणभूता इत्यर्थः ।

यत्र पुनः कर्मेत्यत्र कर्मसमवाय्यदृष्टाभिधानेन कर्मपर्यवसितप्रत्ययः क्रियायां नियोगं न बोधयतीत्युक्तं परिहरति -

कर्माभिधायिनोऽपीति ।

संप्रत्ययादिति ।

प्रतीतेरित्यर्थः । नियोक्तृत्वं नियोगबोधकत्वमित्यर्थः ।

प्रयोजनाभावादिति ।

द्रव्यपरत्वे आत्मनि क्रियाजन्यातिशयाभावादित्यर्थः ।

अविद्योच्छेदरूपसंस्कारस्यान्यत्र विनियोगो नास्तीत्याशङ्क्य संसारहेतूच्छेदरूपसंस्कारत्वादेव पुरुषार्थत्वात् नान्यत्र विनियोगापेक्षा इत्याह -

अविद्या च संसारहेतुभूता इति ।