अत्रोच्यते — नारब्धव्यम् ; गतार्थत्वात् । कथम् ? यस्तावत् प्रथम आरम्भप्रकारः कर्मणि कृत्यप्रत्यये न नियोगसंप्रत्यय इति, तत् स्वयमेव विधायकत्वं दर्शितम् । प्रसिद्धं चैतत् ‘स्वाध्यायोऽध्येतव्यः’ इत्येवमादीनां विधायकत्वम् । नात्राधिकाशङ्काकारणं किञ्चित् । ननु चतुर्विधस्यापि क्रियाफलस्यात्मन्यसम्भव उक्तः । यद्येवं सक्तुन्यायो भविष्यति ? तदपि न ; आत्मविषयज्ञानस्य नित्यसिद्धत्वादित्युक्तम् । सिद्धस्यैव पुनरभ्यासो विधिनिमित्त उपासनाख्यो भविष्यति ; अभ्युदयफले हिरण्यधारणवत् । ननु न विधानतोऽप्यात्मविषयज्ञानसन्तानः कर्तव्यः, स तु नित्यमात्मनि जाग्रतः सिद्धः ? एवं तर्ह्यर्थाविरुद्धेषु कालेष्वात्मन्येव चेतस्समाधानं भविष्यति ॥
सिद्धान्तैकदेशिनामारम्भप्रकारं पूर्ववादी निराचष्टे -
अत्रोच्यत इत्यादिना ।
वेदान्तेषु विधिर्नास्तीत्युक्तामभ्यधिकाशङ्कां प्रथमं दूषयति -
यस्तावदिति ।
संप्रत्यय इति ।
प्रतीतिरित्यर्थः ।
लोके कृत्यप्रत्ययो न नियोगं गमयतीति उच्यते, किं वा वेद इति विकल्प्य प्रथमं दूषयति -
तत् स्वयमेवेति ।
प्रथमारम्भवादिनैव कटस्त्वया कर्तव्य इत्यादिषु प्रदर्शितमित्यर्थः ।
वेदे कृत्यप्रत्ययस्य नियोगबोधकत्वाभावं दूषयति -
प्रसिद्धं चैतदिति ।
आशङ्काकारणमिति ।
वेदान्तेषु विधिर्नास्तीत्याशङ्काकारणं नास्तीत्यर्थः ।
असम्भव उक्त इति ।
अतो निष्कर्मकज्ञाने विध्यसम्भव उक्त इति भावः ।
सक्तुन्यायो भविष्यतीति ।
कर्तृसमवायिमोक्षफलाय आत्मना ज्ञानं कर्तव्यमिति विधिः स्यादित्यर्थः ।
सक्तुन्यायेन ज्ञानविध्यभ्युपगमेऽपि स्वरूपविधिरितिअपूर्वविधिः किं वा नियमविधिः किं वा परिसङ्ख्या विधिरिति विकल्प्याविकल्प्य विधिरितिपूर्वविधिर्न सम्भवति, अत्यन्तमप्राप्तत्वाभावादित्याह -
तदपि नेति ।
कदाचिदनुष्ठाननिवृत्तये सिद्धस्यैव ज्ञानस्याभ्यासे नियमविधिः स्यादिति चोदयति -
सिद्धस्यैवेति ।
अभ्युदयफल इति ।
कर्तृसमवायिनि अन्यफल इत्यर्थः ।
हिरण्यधारणवदिति ।
हिरण्यं बिभृयादित्यत्र भरणेन संस्कृतहिरण्यस्यान्यत्र विनियोगाभावात् । विनियोगाभावेऽपि संस्काराश्रयहिरण्यस्य क्रतावेवानुप्रवेशात् तद्वारेण क्रत्वनुप्रवेशनियम इति च न सम्भवति । आश्रयहिरण्यस्यआश्रयहिरण्यक्रतवेवेति क्रतावेवअनुप्रवेश नियमाभावेन नियतद्वारत्वाभावात् , अतः सक्तुन्यायेन स्वतन्त्रविधिविधिरितित्वमितित्वमभ्युपगम्य रागतः पक्षे प्राप्तभरणस्य नियमविधित्वमभ्युपगम्यते, तद्वदत्रापीत्यर्थः ।
आत्मविषयज्ञानसन्तानस्य सर्वदा अनुवृत्तेः पक्षे प्राप्त्यभावान्न नियमविधिरिति चोदयति -
ननु विधानतोऽपीति ।
तर्हि अनात्मप्रतिभासनिवृत्तये परिसङ्ख्याविधिः अदृष्टार्थः स्यादित्याह -
एवं तर्हीति ।
अर्थाविरुद्धेष्विति ।
देहयात्रानिर्वाहकालव्यतिरिक्तकालेष्वित्यर्थः । अतो वेदान्तेषु विधिर्नास्तीत्यभ्यधिकाशङ्कानवकाश इति भावः ।