पञ्चपादिका
वक्तव्यकाशिका
 

ननु पितुः पुत्रोत्पादनविधिरनुशासनपर्यन्तः श्रूयते — ‘तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासती’तिअतः पुत्रोत्पादनस्य नित्यत्वात् तस्य चानुशासनपर्यन्तत्वात् तदाक्षिप्तत्वाच्चोपनयनाध्ययनयोः कथमाचार्यकरणविधिरनित्यः स्यात् ? कथं वाऽध्ययनस्यार्थावबोधपर्यन्तता भवेत् ? उच्यतेनानेन पुत्रानुशासनं विधीयते, पुत्रोत्पादनविधिशेषत्वेन स्वतन्त्रमेव वा, किन्तु सम्पत्तिकर्मविधिशेषोऽयमर्थवादः ; तेनैकवाक्यत्वात्अतो यथाप्राप्तमनुशासनमनुवदतिकिं तदनुशासनम् ? कथं वा तत् प्राप्तवदनूद्यते ? उच्यतेनित्यस्य पुत्रोत्पादनविधेः प्रयोजनं यत् पितॄणां लुप्तपिण्डोदकक्रियाणां नरकपातश्रवणात् पितृपिण्डोदकक्रियाद्यनुष्ठानेन नरकपातत्राणम् शास्त्रीयेण परिज्ञानेन विना तदनुष्ठानं सम्भवतितेन पित्रा नित्यमात्मनः पुत्रोत्पादनाधिकारं परिसमापयितुं पुत्रस्यावश्यकर्तव्यार्थविषयं गर्भाष्टवर्षेण ब्राह्मणेन त्वयोपनयनाख्यः संस्कारः कारयितव्यः, यः स्वाध्यायाध्ययनार्थो विहित इति यदनुशासनम् , तदिहानूद्यते — ‘तस्मादेनमनुशासतीति’ ॥ तथाच लिङ्गं — ‘श्वेतकेतुर्हाऽऽरुणेय आसतं पितोवाच श्वेतकेतो वस ब्रह्मचर्यम् वै सोम्यस्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवती’तितदेवमनित्येनाचार्यकरणविधिना कथं नित्यं प्रयुज्यत इति वाच्यम्किं आचार्ये प्रेत आचार्यान्तरकरणं प्राप्नोति ; नह्यधिकारी प्रतिनिधीयते, नाप्यधिकारःअधिकारी स्वाधिकारसिध्यर्थं साधनान्तरभ्रेषे साधनान्तरं प्रतिनिधाय स्वाधिकारं निर्वर्तयतीति युक्तम् ; एवमेषा बहुदोषा कल्पना दृश्यतेतस्माद् माणवकस्यैवैष नियोगःकथं गुणकर्तृव्यापारसम्बद्धो विधिः प्रधानकर्तृस्थो भवति ? यथा — ‘एतया ग्रामकामं याजयेदि’ति ग्रामकामस्य यागो विधीयते, गुणकर्तृव्यापारः प्राप्तोऽनूद्यते ; तस्य याजनस्य वृत्त्यर्थत्वात् , एवमिहापि गुणकर्तृव्यापारो वृत्त्यर्थत्वेन प्राप्तोऽनूद्यते

अनुशासनस्य उपनयनाध्यापनार्थज्ञानसंवादनेतिसम्पादनार्थानुष्ठापनअनुष्ठापनरूपत्वमित्यधिकं दृश्यतेरूपत्वं तस्मादिति वाक्यस्य पुत्रोत्पादनविधिशेषत्वमनुशासनविधायकत्वं च मन्वानः स्वतो नित्यत्वाभावेऽपि नित्यपुत्रोत्पादनविधिशेषानुशासनतया उपनयनाध्यापनयोः नित्यत्वात् नित्याध्ययनप्रयोजकत्वमुपपद्यत इति चोदयति -

ननु पितुरिति ।

पुत्रोत्पादनविधिशेषतया अनुशासनविधायकत्वेनाभिमतं वाक्यमाह -

तस्मात्पुत्रमिति ।

लोक्यमिति ।

जनकस्य लोकप्राप्तिं प्रति हेतुमित्यर्थः ।

कथं वा अध्ययनस्येति ।

अर्थज्ञानसम्पादनस्याप्यनुशासनान्तर्भूतत्वादिति भावः ।

पुत्रोत्पादनविधेः पुत्रकृतकर्मणा पितॄणां तृप्तिरूपफलपर्यन्तत्वानुपपत्त्या पूर्वमेव प्राप्तानुशासनानुवादेन सम्प्रतिकर्मविधेरर्थवादत्वमस्य वाक्यस्येत्याह -

उच्यत इति ।

अथातः सम्प्रत्तिर्यदा प्रैष्यान् मन्यते, अथ पुत्रमाह त्वं ब्रह्म, त्वं यज्ञस्त्वं लोक इत्यहं ब्रह्माहं यज्ञोऽहं लोक इत्यनेन सम्प्रत्तिकर्मविधिवाक्येनोक्तं वेदतदर्थतत्फलानां पितुरनुष्ठेयानां पित्रा पुत्रे समर्प्यमाणानां पुत्रेणानुष्ठेयतया स्वीकरणं सम्प्रत्तिकर्मेत्युच्यते ।

पितॄणामिति ।

परलोकं गतानामिति भावः ।

अनुष्ठानेनेतिअनुष्ठापनेनेत्यर्थ इति दृश्यते यश्च नान्वितो भवति ।

त्राणमिति ।

त्राणमनेन तृप्तिसम्पादनमित्यर्थः ।

तदनुष्ठानं सम्भवतीति ।

पुत्रस्येति भावः ।

अधिकारं परिसमापयितुमिति ।

नियोगं निष्पादयितुं प्राप्तमनुशासनमित्यर्थः । उपनयनाध्यापनात् व्यतिरिक्तं पुत्रस्यावश्यकर्तव्यार्थोपदेशनमिति अनुशासनस्य स्वरूपमाह ।

पुत्रस्यावश्यकर्तव्यार्थोपदेशनमेवानुशासनं नोपनयनाद्यनुष्ठापनमिति कथमवगम्यत इति तदाह -

तथा च लिङ्गमिति ।

अननूच्य अध्ययनमकृत्वेत्यर्थः ।

ब्रह्मबन्धुरिवेति ।

द्विजाधम इवेत्यर्थः ।

माणवकस्याध्ययनानुष्ठापननियोगानङ्गीकरणात् स्वनियोगेनैव प्रेर्यमाणः स्वनियोगं निष्पादयितुमाचार्ये प्रेते आचार्यान्तरं सम्पादयतीति न वक्तुम् , शक्यं नाप्याचार्यआचार्ययोगमितिनियोगं सम्पादयितुं आचार्यान्तरं सम्पादयति । नियोगप्रतिनियोगप्रतिराचार्यस्येतिपत्तुराचार्यस्य मृतत्वात् । स्वस्य च कर्तव्यतया अप्रतिपन्नत्वात् अकर्तव्यनियोगनिष्पादनाय आचार्यान्तरसम्पादनायोगात् अध्यापनविधिप्रयुक्तानुष्ठानमध्ययनस्य न सम्भवतीत्याह -

किं चाचार्ये प्रेत इति ।

न च अधिकारी प्रतिनिधीयत इति ।

अधिकारिणि स्थिते अस्यावश्यकर्तव्यनियोगस्य अननुष्ठाने प्रत्यवायात् तदनुष्ठानाय मुख्याभावे प्रतिनिधिरादीयते । अधिकार्यभावे अवश्यकर्तव्यताया अप्रतिपन्नत्वात् तन्निष्पादनाय नाधिकारी प्रतिनिधीयत इत्यर्थः ।

नाप्यधिकार इति ।

विधिपुरुषसम्बन्धनिमित्तमपि न प्रतिनिधीयत इत्यर्थः ।

प्रतिनिध्युपादानस्य न क्वाप्यवकाश इति स्यादिति तत्राह -

अधिकारी स्वाधिकारसिद्ध्यर्थमिति ।

स्वनियोगसिध्यर्थमित्यर्थः ।

स्वविधिप्रयुक्तत्वे सति उपगमनाध्ययनयोस्तत्प्रयुक्ततत्प्रवृत्ततयैवेतितयैव उपनयनाध्यापनसिद्धेस्तत्र विधानमनर्थकमित्याशङ्क्य नायं प्रयोजकव्यापारयोर्विधिः किन्तु उपगमनाध्ययनयोः कर्तृव्यापारयोर्विधिरित्याह -

तस्मान्माणवकस्यैवैष नियोग इति ।

अध्यापयीतेति णिजर्थप्रयोजकव्यापारसंसृष्टस्वार्थाभिधायिनि विधिपदे प्रधानकर्तृव्यापारे अध्ययने विधिसंसर्गो वाक्यप्रमाणविरुद्ध इति चोदयति -

कथं गुणकर्तृव्यापारसम्बद्ध इति ।

कर्तेति प्रयोजककर्तेत्यर्थः ।

प्रधानकर्तृस्थो भवतीति ।

प्रधानकर्तृव्यापारस्थो भवतीत्यर्थः ।

किं न्यायविरोध उच्यते किं वा शब्दविरोधः ? न तावत् शब्दविरोधः अन्यत्रापि दर्शनादित्याह -

यथाअथैतयेति एतयेति ।

नापि न्यायविरोधः । प्राप्तानुवादेनाप्राप्तविधानादित्याह -

ग्रामकामस्य यागो विधीयत इत्यादिना ।