अनुशासनस्य उपनयनाध्यापनार्थज्ञानसंवादनेतिसम्पादनार्थानुष्ठापनअनुष्ठापनरूपत्वमित्यधिकं दृश्यतेरूपत्वं तस्मादिति वाक्यस्य पुत्रोत्पादनविधिशेषत्वमनुशासनविधायकत्वं च मन्वानः स्वतो नित्यत्वाभावेऽपि नित्यपुत्रोत्पादनविधिशेषानुशासनतया उपनयनाध्यापनयोः नित्यत्वात् नित्याध्ययनप्रयोजकत्वमुपपद्यत इति चोदयति -
ननु पितुरिति ।
पुत्रोत्पादनविधिशेषतया अनुशासनविधायकत्वेनाभिमतं वाक्यमाह -
तस्मात्पुत्रमिति ।
लोक्यमिति ।
जनकस्य लोकप्राप्तिं प्रति हेतुमित्यर्थः ।
कथं वा अध्ययनस्येति ।
अर्थज्ञानसम्पादनस्याप्यनुशासनान्तर्भूतत्वादिति भावः ।
पुत्रोत्पादनविधेः पुत्रकृतकर्मणा पितॄणां तृप्तिरूपफलपर्यन्तत्वानुपपत्त्या पूर्वमेव प्राप्तानुशासनानुवादेन सम्प्रतिकर्मविधेरर्थवादत्वमस्य वाक्यस्येत्याह -
उच्यत इति ।
अथातः सम्प्रत्तिर्यदा प्रैष्यान् मन्यते, अथ पुत्रमाह त्वं ब्रह्म, त्वं यज्ञस्त्वं लोक इत्यहं ब्रह्माहं यज्ञोऽहं लोक इत्यनेन सम्प्रत्तिकर्मविधिवाक्येनोक्तं वेदतदर्थतत्फलानां पितुरनुष्ठेयानां पित्रा पुत्रे समर्प्यमाणानां पुत्रेणानुष्ठेयतया स्वीकरणं सम्प्रत्तिकर्मेत्युच्यते ।
पितॄणामिति ।
परलोकं गतानामिति भावः ।
अनुष्ठानेनेतिअनुष्ठापनेनेत्यर्थ इति दृश्यते यश्च नान्वितो भवति ।
त्राणमिति ।
त्राणमनेन तृप्तिसम्पादनमित्यर्थः ।
तदनुष्ठानं सम्भवतीति ।
पुत्रस्येति भावः ।
अधिकारं परिसमापयितुमिति ।
नियोगं निष्पादयितुं प्राप्तमनुशासनमित्यर्थः । उपनयनाध्यापनात् व्यतिरिक्तं पुत्रस्यावश्यकर्तव्यार्थोपदेशनमिति अनुशासनस्य स्वरूपमाह ।
पुत्रस्यावश्यकर्तव्यार्थोपदेशनमेवानुशासनं नोपनयनाद्यनुष्ठापनमिति कथमवगम्यत इति तदाह -
तथा च लिङ्गमिति ।
अननूच्य अध्ययनमकृत्वेत्यर्थः ।
ब्रह्मबन्धुरिवेति ।
द्विजाधम इवेत्यर्थः ।
माणवकस्याध्ययनानुष्ठापननियोगानङ्गीकरणात् स्वनियोगेनैव प्रेर्यमाणः स्वनियोगं निष्पादयितुमाचार्ये प्रेते आचार्यान्तरं सम्पादयतीति न वक्तुम् , शक्यं नाप्याचार्यआचार्ययोगमितिनियोगं सम्पादयितुं आचार्यान्तरं सम्पादयति । नियोगप्रतिनियोगप्रतिराचार्यस्येतिपत्तुराचार्यस्य मृतत्वात् । स्वस्य च कर्तव्यतया अप्रतिपन्नत्वात् अकर्तव्यनियोगनिष्पादनाय आचार्यान्तरसम्पादनायोगात् अध्यापनविधिप्रयुक्तानुष्ठानमध्ययनस्य न सम्भवतीत्याह -
किं चाचार्ये प्रेत इति ।
न च अधिकारी प्रतिनिधीयत इति ।
अधिकारिणि स्थिते अस्यावश्यकर्तव्यनियोगस्य अननुष्ठाने प्रत्यवायात् तदनुष्ठानाय मुख्याभावे प्रतिनिधिरादीयते । अधिकार्यभावे अवश्यकर्तव्यताया अप्रतिपन्नत्वात् तन्निष्पादनाय नाधिकारी प्रतिनिधीयत इत्यर्थः ।
नाप्यधिकार इति ।
विधिपुरुषसम्बन्धनिमित्तमपि न प्रतिनिधीयत इत्यर्थः ।
प्रतिनिध्युपादानस्य न क्वाप्यवकाश इति स्यादिति तत्राह -
अधिकारी स्वाधिकारसिद्ध्यर्थमिति ।
स्वनियोगसिध्यर्थमित्यर्थः ।
स्वविधिप्रयुक्तत्वे सति उपगमनाध्ययनयोस्तत्प्रयुक्ततत्प्रवृत्ततयैवेतितयैव उपनयनाध्यापनसिद्धेस्तत्र विधानमनर्थकमित्याशङ्क्य नायं प्रयोजकव्यापारयोर्विधिः किन्तु उपगमनाध्ययनयोः कर्तृव्यापारयोर्विधिरित्याह -
तस्मान्माणवकस्यैवैष नियोग इति ।
अध्यापयीतेति णिजर्थप्रयोजकव्यापारसंसृष्टस्वार्थाभिधायिनि विधिपदे प्रधानकर्तृव्यापारे अध्ययने विधिसंसर्गो वाक्यप्रमाणविरुद्ध इति चोदयति -
कथं गुणकर्तृव्यापारसम्बद्ध इति ।
कर्तेति प्रयोजककर्तेत्यर्थः ।
प्रधानकर्तृस्थो भवतीति ।
प्रधानकर्तृव्यापारस्थो भवतीत्यर्थः ।
किं न्यायविरोध उच्यते किं वा शब्दविरोधः ? न तावत् शब्दविरोधः अन्यत्रापि दर्शनादित्याह -
यथाअथैतयेति एतयेति ।
नापि न्यायविरोधः । प्राप्तानुवादेनाप्राप्तविधानादित्याह -
ग्रामकामस्य यागो विधीयत इत्यादिना ।