किन्तु कर्तुरधिकार इत्यपि स्थिता न्यायविदः । किं चेह न माणवको जातिवयोविशिष्ट उपादेय उपनयने, किं तूपनयनमेव तदर्थं विधीयते ; संस्कारस्य संस्कार्योद्देशेन विधानात् । अतः संस्कार्यस्यावच्छेदकत्वं वयोजात्यवच्छिन्नं सद् भवति नित्यनिमित्तं माणवकस्य संस्कार्यत्व इति । तदेवमुपनयनस्याध्ययनार्थत्वात् तस्य च साधिकारत्वात् तेन चाधिकारेण साधिकारोऽध्ययनविधिः । अक्षरग्रहणमात्रेण चाधिकारसिद्धिः, अर्थावबोधस्तु कारणान्तरादिति ॥
भावनावाक्यार्थपक्षे कर्त्रन्वयस्य प्राथम्यादुपादेयकर्तृविशेषणतया विधिं प्रति गुणभूतस्य भोक्तृविशेषणत्वात् तं पक्षमाश्रित्यापि माणवकस्योपादेयस्य विशेषणमेव अधिकारित्वविशेषणं भवतीत्याह -
किन्तु कर्तुरिति ।
इष्टसाधनवाक्यार्थपक्षाङ्गीकारात् अष्टवर्षं ब्राह्मणमिति द्वितीयया उपनयनजन्याचार्यसमीपदेशप्राप्तिरूपदृष्टफलेन तत्समवेतसंस्काराख्यादृष्टफलेन च विशिष्टरूपेण उपगमनकर्तृरूपेण च माणवकः प्रतीयते । तस्मिन्नुपगमने सामान्येन श्रेयःसाधनत्वं विधिपदेन बोध्यते । सामान्यस्य श्रेयसो विशेषाकाङ्क्षायां माणवकगतसंस्काराख्यश्रेयोविशेषसाधनत्वं तेनैव विधिपदेन प्रतिपाद्यते तस्मिन् हितसाधनेहतसाधने इति प्रथमं ममेदमभिलषितसाधनमिति माणवको भोक्तृत्वेनान्वेति तस्य स्वामिनो भोक्तुरधिकारिणो विशेषणं ब्राह्मण्यादि भवति पश्चात् साधनत्वधर्म्युपगमनक्रियायां कर्तृत्वेनान्वेतीत्येव भोक्त्रन्वयपुरःसरत्वात् कत्रन्वयस्यानुअनुवादेयेतिपादेय विशेषणमधिकारिहेतुरिति सिद्ध्यतीत्याह -
किं चेति ।
उपादेय उपनयन इति ।
प्रथममुपगमने कर्तृत्वेनान्विततया उपादेयो न भवतीत्यर्थः ।
तदर्थं विधीयत इति ।
हितसाधनोपगमने प्रथमं स्वामित्वेनान्वय उपगमनं माणवकार्थं हितसाधनतया बोध्यत इत्यर्थः