आनन्तर्यमुपकार्यब्रह्मावबोधस्य उच्यत इति चोदयति -
ननु इह कर्मावबोधानन्तर्यमिति विशेष इति ।
अथ शब्देन पुष्कलकारणं किञ्चिदस्तीति सामान्येन समर्पितस्य धर्मावबोधो विशेष इत्यर्थः ।
धर्मब्रह्मविचारयोरुपकार्योपकारकभावोऽस्ति । तयोरुपकार्योपकारकभावस्य वृत्त्यन्तरे वर्णितत्वादित्याह -
तथा चेति ।
अधिकारः प्रवृत्तिः अनुष्ठानं संस्कारः फलं कर्मणामनुष्ठानपरम्परया फलभोगपरम्परया वेत्यर्थः । अथवा संस्कार इति कर्मभिः पुरुषसंस्कारोऽभिधीयते । शब्द इति च पुरषसंस्कारत्वे प्रमाणमुच्यते ।
तादर्थ्यावगमादिति ।
ब्रह्मजिज्ञासाशेषत्वावगमादित्यर्थः । अधिगत्यअधिगतानन्तरमितिनन्तरं धर्माधिगत्यानन्तर्यमभिधत्त इत्यर्थः ।
धर्मावबोधानन्तरं ब्रह्मजिज्ञासेत्यस्मिन्नर्थे शास्त्रकारसंवादान्तरमाह -
अन्यैरपीत्यादिना ।
तत्रेति ।
अथातो ब्रह्मजिज्ञासेति सूत्र इत्यर्थः ।
प्रथमसूत्रे वर्णिताविति ।
तस्मान्नान्येन केनचिदध्यायान्तरे सूत्रान्तरे वा प्रकृतेन सङ्गतिरस्तीत्यर्थः ।
कस्तर्ह्यत्राथशब्दार्थ इति तत्राह -
अथेतीति ।
पूर्वनिर्दिष्टस्यैवेति ।
अथशब्दनिर्दिष्टधर्मजिज्ञासाया एवेत्यर्थः ।
कृत्स्नस्वाध्यायाध्ययनस्य एकफलत्वं कृत्स्नवेदार्थविचारस्य तत्प्रयुक्तत्वं च तावत्तिष्ठतु, नैतावतानैतावद्धर्मेति धर्मब्रह्मजिज्ञासयोरुपकार्योपकारकभाव इत्याह -
न, धर्मजिज्ञासायाः प्रागपीति ।
धर्मावबोधस्य ब्रह्मजिज्ञासां प्रति हेतुकारत्वमेवेतित्वमेव नास्तीति भाष्यस्य अभिप्रायमाह -
वेदान्ताध्ययनमिति ।
धर्मजिज्ञासायां व्युत्पन्नवेदप्रामाण्यपदपदार्थवाक्यार्थतदपेक्षितन्याय कलापस्यैव ब्रह्म विचारयितुं शक्यत इति चोदयति -
कथमिति ।
अनुपकारं दर्शयितुं धर्मजिज्ञासां करणभावकर्मव्युत्पत्त्या सिद्धार्थरूपेण विभजते -
तत्र तावदिति ।
जिज्ञास्यतेऽनेति करणव्युत्पत्त्या सहस्राधिकरणसिद्धन्यायसहस्रमेका जिज्ञासेत्याह -
द्वादशलक्षण इति ।
जिज्ञासनं जिज्ञासेति भावव्युत्पत्त्या धर्मविषयवाक्यार्थनिर्णयज्ञानमपि जिज्ञासेत्याह -
तदनुग्रह इति ।
जिज्ञास्यत इति कर्मव्युत्पत्त्या अर्थरूपाग्निहोत्रादिकं कर्मापि जिज्ञासेत्याह -
वाक्यार्थश्चेति ।
प्रथमपादोक्तवेदप्रामाण्यापेक्षितन्यायकलापस्य अथशब्दसूचितन्यायस्य च ब्रह्मजिज्ञासायामुपयोगेऽपि तस्य प्रथमपादस्य धर्मब्रह्मजिज्ञासयोः साधारणत्वात् तदानन्तर्यं न धर्मजिज्ञासानन्तर्यमित्यभिप्रेत्याह -
तत्र य इति ।
स्वाध्यायस्येति ।
अध्ययनविधेः दृष्टार्थावबोधफलपर्यन्ततापेक्षितो न्याय इत्यर्थः । सम्बन्धसङ्केताय पुरुषापुरुषेतिपुरुषानपेक्षत्वे हेतुः सम्बन्धनित्यत्वेनेति । अर्थोपलब्धिपूर्वकवाक्यरचनाय पुरुषानपेक्षत्वे हेतुः अपौरुषेयत्वेनेति ।
तदुभयमिति ।
प्रथमपादोक्तन्यायकलापस्य उपलक्षणमिति द्रष्टव्यम् ।
लोकप्रसिद्धा एव श्रुत्यादय उपादीयन्ते न ते प्रथमतन्त्रसिद्धा इति मत्वाह -
इतरस्येति ।
प्रथमतन्त्रसिद्धस्य कार्यापेक्षितन्यायस्याननुष्ठेयभूतवस्तुप्रतिपादने न उपयोग इत्यर्थः ।
कार्यशेषतया ब्रह्मापि प्रथमतन्त्रे निर्णीतमिति नेत्याह -
यतो न निरस्ताशेष इति ।
गुणोपसंहारपादे विध्यपेक्षितोऽपि न्याय उपजीव्यत इति तत्राह -
यत्पुनः प्रथमतन्त्रसिद्ध इति ।
सगुणविद्यापि विज्ञानमेवेत्यत आह -
तत्र च मानसी क्रियेति ।
क्रियात्वे हेतुः उपासनेत्यादि ।
मा भूद्धर्मजिज्ञासानन्तर्यमथशब्दार्थः वेदप्रामाण्यविचारानन्तर्यं स्यादिति नेत्याह -
यत्पुनः स्वाध्यायस्येति ।
न केवलमिति ।
पुष्कलकारणं न भवतीत्यर्थः ।
किं धर्मनिर्णयो ब्रह्मविचारप्रवृत्त्युपयोगी स्यात् किं वा ब्रह्मनिर्णयोपयोगीति बहिर्विकल्प्य न तावत् प्रथमः कल्प इत्याह -
न ह्यन्यविषय इति ।
नापि द्वितीयद्वितीयमिति इत्याह -
तदपि इह नास्तीति ।
सम्बन्धानिरूपणादिति ।
कार्यकार्यकरणेतिकारणभावस्य धर्मातिरिक्तप्रपञ्चेनापि भावात् धर्मब्रह्मणोरसाधारणसम्बन्धानिरूपणादिति भावः ।
सन्ध्योपासनमारभ्य पूर्वपूर्वाल्पतरं कर्मानुष्ठाय तत्प्रहाणेन उत्तरोत्तरमहत्तरकर्मोपादानेन सहस्रसंवत्सरे निरतिशयकर्मण्यवसितेऽतः परमनुष्ठेयाभावादेव परिशेषात् ब्रह्मज्ञानेऽवतरतीत्यस्मिन् पक्षे एककर्मानुष्ठानमितरकर्मानुष्ठाने हेतुः, कृत्स्नकर्मानुष्ठानं ब्रह्मज्ञाने प्रवृत्तौ उपकारीत्येतन्न सम्भवति प्रमाणाभावादित्याह -
केयमधिकारपरम्परेति ।
तत् क्रियाहेतुतयेति ।
ब्रह्मविचारकरणहेतुतयेत्यर्थः ।
प्रमाणाभावादिति ।
एकपर्वारोहणम् इतरपर्वारोहणहेतुः, सकलपर्वारोहणं प्रासादप्राप्तिहेतुरिति सम्भवति, तथा दृष्टत्वात् । इह तु न सम्भवति, प्रमाणाभावादित्यर्थः ।
अनुष्ठेयाभावात् ब्रह्मज्ञानेऽवतारासम्भवेऽपि परम्परया कृत्स्नकर्मफलावाप्तौ तत्र कामनाभावात् निवृत्तकामः परमानन्दकामनया तत्रावतरतीत्याशङ्कते -
अथ कामोपहतमना इति ।
तदभिमुखः कामितविषयाभिमुख इत्यर्थः ।
तदेव प्रपञ्चयति -
तथा चेति ।
अधिकारपरम्परयेति ।
फलपरम्परयेत्यर्थः ।
मर्मेतिकर्मानुष्ठानफलप्राप्त्यनन्तर भावित्वात् । ब्रह्मविचारस्य न मनुष्याधिकारं शास्त्रं स्यादित्यभिप्रेत्य परिहरति -
कर्मानुष्ठानानन्तर्यमिति ।