पञ्चपादिका
वक्तव्यकाशिका
 

नन्विह कर्मावबोधानन्तर्यं विशेषःतथाच वृत्त्यन्तरे वर्णितम्-'कर्मणामधिकारपरम्परया शब्दतो वा संस्कारतया वा यथाविभागं तार्दथ्यावगमाद् निःश्रेयसप्रयोजनत्वाच्चानन्तर्यवचनोऽथशब्दोऽधिगतानन्तरमि'तिअन्यैरपि स्ववृत्तौ वर्णितम्—'तत्राथातःशब्दौ प्रथम एवाध्याये प्रथमसूत्रे वर्णितौअथेति पूर्वप्रकृतां धर्मजिज्ञासामपेक्ष्यानन्तरं ब्रह्मजिज्ञासाप्रारम्भार्थःअत इति पूर्वनिर्दिष्टस्यैवार्थस्य हेतुतामाचष्टे ब्रह्मजिज्ञासां प्रती'तिअत्राह-

; धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति

वेदान्ताध्ययनं यद्यपि केवलं पुष्कलं कारणम् ; तथाऽपि तेन विनोत्पद्यते ब्रह्मजिज्ञासा, उपपद्यते तु धर्मावबोधनं विनाऽपीत्यभिप्रायःकथम्? तत्र तावद् धर्मजिज्ञासायां त्रयं वृत्तम्-द्वादशलक्षणे प्रतिपादितन्यायसहस्रम् , तदनुग्रहोपजा-तश्च वाक्यार्थनिर्णयः, वाक्यार्थश्चाग्निहोत्रादिकं कर्मतत्र यः प्रथमसूत्रेऽथशब्दोपादानसूचितो न्यायः स्वाध्यायस्यार्थावबोधोपयोगप्रतिपत्तिहेतुः, यदप्यौत्पत्तिकसूत्रे शब्दार्थयोः सम्बन्ध-नित्यत्त्वेन वेदान्तानां चापौरुषेयत्वेन कारणेनानपेक्षत्वं नाम प्रामाण्यकारणमुक्तम् , तदुभयमि-हाप्युपयुज्यते ; अपेक्षितत्वात् , इतरस्य पुर्नन्यायकलापस्य ब्रह्मजिज्ञासायामुपयोगोस्ति, यतो निरस्ताशेषप्रपञ्चं ब्रह्मात्मैकत्वं प्रतिज्ञातं तत्र तत्प्रतिपादने तत्प्रतिपादनसामर्थ्ये वा शब्दानां कश्चित् न्यायोऽभिहितःयत्पुनः प्रथमतन्त्रसिद्धन्यायोपजीवनमस्मिन्नपि तन्त्रे , तत् सगुणविद्याविषयम्तत्र मानसी क्रियोपासना विधेयाऽनित्यफला धर्मविशेष एवतदेवं न्यायकलापस्य ब्रह्मजिज्ञासायामुपयोगःअतो तदपेक्षोऽथशब्दःयत्पुनः स्वाध्याय-स्यार्थावबोधोपयोगेऽनपेक्षत्वेन स्वतःप्रामाण्यसिद्धौ न्यायद्वयम् , तत् अपेक्षितमपि केवलं ब्रह्मजिज्ञासाकारणम् ; स्वाध्यायवदेव, तेन तदपेक्षोऽथशब्दःयः पुनर्वाक्यार्थनिर्णयः, कथमपि ब्रह्मजिज्ञासायामुपयुज्यते ह्यन्यविषयं ज्ञानमन्यत्र प्रवृत्तौ हेतुःप्रतिपत्तौ कदाचित् स्यादपि यथाऽनुमानादौ, तदपीह नास्ति ; धर्मब्रह्मणोः सम्बन्धानिरूपणात् , अतः कर्मणामुप-योगः परिशिष्यतेतथा तैरप्युक्तम्—कर्मणामधिकारपरम्परया शब्दतो वा संस्कारतया वा यथाविभागं तार्दथ्यावगमात्' इतिअत्रेदं निरूप्यते- केयमधिकारपरम्परा? कथं वा तार्दथ्य-मिति? यथा तावत् प्रासादमारुरुक्षोः सोपानपरम्परा क्रमशः प्राप्यमाणा प्रासादारोहणहेतुः, तथेह ब्रह्मजिज्ञासां चिकीर्षोः कर्माणि सहस्रसंवत्सरपर्यन्तानि तत्क्रियाहेतुतया स्थितानि ; प्रमाणाभावात्अथ कामोपहतमनास्तदभिमुखो ब्रह्मजिज्ञासायां नावतरति, कर्मभिस्तु कामा-वाप्तौ तदुपशमाद् ब्रह्वजिज्ञासायामवतरतितथाच सार्वभौमत्वाद्युत्तरोत्तरशतगुणोत्कर्षावस्थितान् ब्रह्मलोकावाप्तिपर्यन्तान् कामानवापयन्त्यधिकारपरम्परया कर्माणि ; ब्रह्मलोकात् परं कामयितव्याभावात् , निर्विषयस्य कामस्यानुपपत्तेर्दग्धेन्धनाग्निवत् कामोपशमे ब्रह्मजिज्ञासां करोति ; कर्मानुष्ठानानन्तर्यं तर्हि वक्तव्यम् धर्मावबोधानन्तर्यम्

ननु इह कर्मावबोधानन्तर्यमिति विशेष इति ; तथा चेति ; तादर्थ्यावगमादिति ; अन्यैरपीत्यादिना ; तत्रेति ; प्रथमसूत्रे वर्णिताविति ; अथेतीति ; पूर्वनिर्दिष्टस्यैवेति ; न, धर्मजिज्ञासायाः प्रागपीति ; वेदान्ताध्ययनमिति ; कथमिति ; तत्र तावदिति ; द्वादशलक्षण इति ; तदनुग्रह इति ; वाक्यार्थश्चेति ; तत्र य इति ; स्वाध्यायस्येति ; तदुभयमिति ; इतरस्येति ; यतो न निरस्ताशेष इति ; यत्पुनः प्रथमतन्त्रसिद्ध इति ; तत्र च मानसी क्रियेति ; यत्पुनः स्वाध्यायस्येति ; न केवलमिति ; न ह्यन्यविषय इति ; तदपि इह नास्तीति ; सम्बन्धानिरूपणादिति ; केयमधिकारपरम्परेति ; तत् क्रियाहेतुतयेति ; प्रमाणाभावादिति ; अथ कामोपहतमना इति ; तथा चेति ; अधिकारपरम्परयेति ; कर्मानुष्ठानानन्तर्यमिति ;

आनन्तर्यमुपकार्यब्रह्मावबोधस्य उच्यत इति चोदयति -

ननु इह कर्मावबोधानन्तर्यमिति विशेष इति ।

अथ शब्देन पुष्कलकारणं किञ्चिदस्तीति सामान्येन समर्पितस्य धर्मावबोधो विशेष इत्यर्थः ।

धर्मब्रह्मविचारयोरुपकार्योपकारकभावोऽस्ति । तयोरुपकार्योपकारकभावस्य वृत्त्यन्तरे वर्णितत्वादित्याह -

तथा चेति ।

अधिकारः प्रवृत्तिः अनुष्ठानं संस्कारः फलं कर्मणामनुष्ठानपरम्परया फलभोगपरम्परया वेत्यर्थः । अथवा संस्कार इति कर्मभिः पुरुषसंस्कारोऽभिधीयते । शब्द इति च पुरषसंस्कारत्वे प्रमाणमुच्यते ।

तादर्थ्यावगमादिति ।

ब्रह्मजिज्ञासाशेषत्वावगमादित्यर्थः । अधिगत्यअधिगतानन्तरमितिनन्तरं धर्माधिगत्यानन्तर्यमभिधत्त इत्यर्थः ।

धर्मावबोधानन्तरं ब्रह्मजिज्ञासेत्यस्मिन्नर्थे शास्त्रकारसंवादान्तरमाह -

अन्यैरपीत्यादिना ।

तत्रेति ।

अथातो ब्रह्मजिज्ञासेति सूत्र इत्यर्थः ।

प्रथमसूत्रे वर्णिताविति ।

तस्मान्नान्येन केनचिदध्यायान्तरे सूत्रान्तरे वा प्रकृतेन सङ्गतिरस्तीत्यर्थः ।

कस्तर्ह्यत्राथशब्दार्थ इति तत्राह -

अथेतीति ।

पूर्वनिर्दिष्टस्यैवेति ।

अथशब्दनिर्दिष्टधर्मजिज्ञासाया एवेत्यर्थः ।

कृत्स्नस्वाध्यायाध्ययनस्य एकफलत्वं कृत्स्नवेदार्थविचारस्य तत्प्रयुक्तत्वं च तावत्तिष्ठतु, नैतावतानैतावद्धर्मेति धर्मब्रह्मजिज्ञासयोरुपकार्योपकारकभाव इत्याह -

न, धर्मजिज्ञासायाः प्रागपीति ।

धर्मावबोधस्य ब्रह्मजिज्ञासां प्रति हेतुकारत्वमेवेतित्वमेव नास्तीति भाष्यस्य अभिप्रायमाह -

वेदान्ताध्ययनमिति ।

धर्मजिज्ञासायां व्युत्पन्नवेदप्रामाण्यपदपदार्थवाक्यार्थतदपेक्षितन्याय कलापस्यैव ब्रह्म विचारयितुं शक्यत इति चोदयति -

कथमिति ।

अनुपकारं दर्शयितुं धर्मजिज्ञासां करणभावकर्मव्युत्पत्त्या सिद्धार्थरूपेण विभजते -

तत्र तावदिति ।

जिज्ञास्यतेऽनेति करणव्युत्पत्त्या सहस्राधिकरणसिद्धन्यायसहस्रमेका जिज्ञासेत्याह -

द्वादशलक्षण इति ।

जिज्ञासनं जिज्ञासेति भावव्युत्पत्त्या धर्मविषयवाक्यार्थनिर्णयज्ञानमपि जिज्ञासेत्याह -

तदनुग्रह इति ।

जिज्ञास्यत इति कर्मव्युत्पत्त्या अर्थरूपाग्निहोत्रादिकं कर्मापि जिज्ञासेत्याह -

वाक्यार्थश्चेति ।

प्रथमपादोक्तवेदप्रामाण्यापेक्षितन्यायकलापस्य अथशब्दसूचितन्यायस्य च ब्रह्मजिज्ञासायामुपयोगेऽपि तस्य प्रथमपादस्य धर्मब्रह्मजिज्ञासयोः साधारणत्वात् तदानन्तर्यं न धर्मजिज्ञासानन्तर्यमित्यभिप्रेत्याह -

तत्र य इति ।

स्वाध्यायस्येति ।

अध्ययनविधेः दृष्टार्थावबोधफलपर्यन्ततापेक्षितो न्याय इत्यर्थः । सम्बन्धसङ्केताय पुरुषापुरुषेतिपुरुषानपेक्षत्वे हेतुः सम्बन्धनित्यत्वेनेति । अर्थोपलब्धिपूर्वकवाक्यरचनाय पुरुषानपेक्षत्वे हेतुः अपौरुषेयत्वेनेति ।

तदुभयमिति ।

प्रथमपादोक्तन्यायकलापस्य उपलक्षणमिति द्रष्टव्यम् ।

लोकप्रसिद्धा एव श्रुत्यादय उपादीयन्ते न ते प्रथमतन्त्रसिद्धा इति मत्वाह -

इतरस्येति ।

प्रथमतन्त्रसिद्धस्य कार्यापेक्षितन्यायस्याननुष्ठेयभूतवस्तुप्रतिपादने न उपयोग इत्यर्थः ।

कार्यशेषतया ब्रह्मापि प्रथमतन्त्रे निर्णीतमिति नेत्याह -

यतो न निरस्ताशेष इति ।

गुणोपसंहारपादे विध्यपेक्षितोऽपि न्याय उपजीव्यत इति तत्राह -

यत्पुनः प्रथमतन्त्रसिद्ध इति ।

सगुणविद्यापि विज्ञानमेवेत्यत आह -

तत्र च मानसी क्रियेति ।

क्रियात्वे हेतुः उपासनेत्यादि ।

मा भूद्धर्मजिज्ञासानन्तर्यमथशब्दार्थः वेदप्रामाण्यविचारानन्तर्यं स्यादिति नेत्याह -

यत्पुनः स्वाध्यायस्येति ।

न केवलमिति ।

पुष्कलकारणं न भवतीत्यर्थः ।

किं धर्मनिर्णयो ब्रह्मविचारप्रवृत्त्युपयोगी स्यात् किं वा ब्रह्मनिर्णयोपयोगीति बहिर्विकल्प्य न तावत् प्रथमः कल्प इत्याह -

न ह्यन्यविषय इति ।

नापि द्वितीयद्वितीयमिति इत्याह -

तदपि इह नास्तीति ।

सम्बन्धानिरूपणादिति ।

कार्यकार्यकरणेतिकारणभावस्य धर्मातिरिक्तप्रपञ्चेनापि भावात् धर्मब्रह्मणोरसाधारणसम्बन्धानिरूपणादिति भावः ।

सन्ध्योपासनमारभ्य पूर्वपूर्वाल्पतरं कर्मानुष्ठाय तत्प्रहाणेन उत्तरोत्तरमहत्तरकर्मोपादानेन सहस्रसंवत्सरे निरतिशयकर्मण्यवसितेऽतः परमनुष्ठेयाभावादेव परिशेषात् ब्रह्मज्ञानेऽवतरतीत्यस्मिन् पक्षे एककर्मानुष्ठानमितरकर्मानुष्ठाने हेतुः, कृत्स्नकर्मानुष्ठानं ब्रह्मज्ञाने प्रवृत्तौ उपकारीत्येतन्न सम्भवति प्रमाणाभावादित्याह -

केयमधिकारपरम्परेति ।

तत् क्रियाहेतुतयेति ।

ब्रह्मविचारकरणहेतुतयेत्यर्थः ।

प्रमाणाभावादिति ।

एकपर्वारोहणम् इतरपर्वारोहणहेतुः, सकलपर्वारोहणं प्रासादप्राप्तिहेतुरिति सम्भवति, तथा दृष्टत्वात् । इह तु न सम्भवति, प्रमाणाभावादित्यर्थः ।

अनुष्ठेयाभावात् ब्रह्मज्ञानेऽवतारासम्भवेऽपि परम्परया कृत्स्नकर्मफलावाप्तौ तत्र कामनाभावात् निवृत्तकामः परमानन्दकामनया तत्रावतरतीत्याशङ्कते -

अथ कामोपहतमना इति ।

तदभिमुखः कामितविषयाभिमुख इत्यर्थः ।

तदेव प्रपञ्चयति -

तथा चेति ।

अधिकारपरम्परयेति ।

फलपरम्परयेत्यर्थः ।

मर्मेतिकर्मानुष्ठानफलप्राप्त्यनन्तर भावित्वात् । ब्रह्मविचारस्य न मनुष्याधिकारं शास्त्रं स्यादित्यभिप्रेत्य परिहरति -

कर्मानुष्ठानानन्तर्यमिति ।