तत्र यदन्यैर्वृत्तिकारैर्ब्रह्मशब्दस्यार्थान्तरमाशङ्क्य निरस्यते । न खलु ब्राह्मणजातिरिह गृह्यते ; प्रत्यक्षसिद्धत्वाद् जिज्ञास्यत्वाभावात् , नापि तत्कर्तृका जिज्ञासा ; त्रैवर्णिकाधिकारात् , नापि जीवपरिग्रहः ; तत्कर्तृत्वे विशेषणानर्थक्यात् , कर्मत्वे नित्यसिद्धत्वात् , न शब्दराशेर्ग्रहणम् ; तस्य धर्मजिज्ञासौत्पत्तिकसूत्राभ्यामर्थवत्त्वप्रमाणत्वयोर्निरूपितत्वात् , नापि हिरण्यगर्भस्य ; तदवाप्तेरपि विरक्तस्य ब्रह्मजिज्ञासोपदेशात् , नापि तत्कर्तृकता ; ज्ञानवैराग्ययोः सह सिद्धत्वात् इति, तदपि न कर्तव्यमित्याह —
अत एव न ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यमिति ॥
कथं निरस्यत इत्याशङ्कायां जातिजीवकमलासनशब्दराशीनां ब्रह्मशब्दाभिधेयतया जिज्ञासां प्रति कर्तृत्वेन कर्मत्वेन वा प्रतिपादनानुपपत्तेरस्मिन्प्रयोगे न ब्रह्मशब्दस्य जात्याद्यर्थतेत्यन्यवृत्तिकारैर्निराकृतप्रकारमाह -
न खल्विति ।
विशेषणानर्थक्यादिति ।
अन्यस्य प्रसङ्गाभावात् जीवकर्तृकेति विशेषणानर्थक्यादित्यर्थः । शब्दराशेरचेतनत्वादेव कर्तृत्वप्रसङ्गाभावात् । कर्तृत्वं न दूषितमिति द्रष्टव्यम् ।