अन्यज्जिज्ञास्यमिति ।
ब्रह्मलोकजिज्ञासेत्यत्र ब्रह्मणोऽन्यलोकस्य जिज्ञास्यत्ववदिहापि अन्यज्जिज्ञास्यमित्यर्थः ।
तदर्थं
तत्परिहारार्थमित्यर्थः ।
शेष इति सम्बन्धसामान्यमुच्यते । न कारकपञ्चकव्यतिरिक्ताः स्वस्वामित्वादिसम्बन्धविशेषा उच्यन्ते । अतः सामान्याभिधानेऽपि कर्मत्वाख्यसम्बन्ध विशेषे पर्यवसानात् इच्छापेक्षितकर्मत्वप्रतीतिसिद्धेः शेषषष्ठ्येवाभ्युपेयेति चोदयति -
ननु शेषषष्ठीपरिग्रहेऽपि इति ।
भाष्यं व्याचष्टे -
यद्यपीति ।
अर्थात् विशेष इति । व्यवहारान्यथानुपपत्त्या विशेषे पर्यवसानभूमित्वेनाभ्युपगम्यमाने सतीत्यर्थः ।
क्रियोपादानादिति ।
जिज्ञासाशब्देनोपादानादित्यर्थः ।
साधारणे शब्द इति ।
सम्बन्धसामान्यस्य कर्मत्वाख्यविशेषस्य च षष्ठ्याख्यशब्दे साधारणे सतीत्यर्थः ।
अभिप्रेतमर्थं विहायेतिविहायेति न दृश्यते ।
इच्छापेक्षितत्वात् अभिप्रेतं कर्मत्वं विहायेत्यर्थः । अर्थान्तरं सामान्यमित्यर्थः । कर्मणि षष्ठीपरिग्रहे वृत्या व्यक्तेःव्यक्ती इति प्रधानतयाप्रधानतया इति प्रतीतत्वात् स्फुटत्वमस्तीत्यभिप्रेत्य प्रत्यक्षत्वमुच्यत इति द्रष्टव्यम् । शेषे षष्ठीपरिग्रहे सामान्यमभिधाय तत्र ग्रस्ततया कर्मत्वबोधनात् अस्फुटं भवतीति परोक्षमित्युच्यते ।