पञ्चपादिका
वक्तव्यकाशिका
 

ननु किमिति व्यर्थः ? शेषषष्ठीपरिग्रहे सामान्येन यत् किञ्चिद् ब्रह्मसम्बन्धि येन येन जिज्ञासितेन विना ब्रह्म जिज्ञासितं भवति तत्सर्वं जिज्ञास्यत्वेन प्रतिज्ञातं स्यात् ; अतो विशिष्टसम्बन्धो विवक्ष्यते ; सामान्ये तस्याप्यन्तर्भवादिति यद्युच्यते, तदाह

व्यर्थः ; ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेति

स्वयमेव परोक्तमाशङ्क्योत्तरमाह

; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वादिति

सङ्क्षेपतो वस्तुसङ्ग्रहवाक्यम्एतदेव प्रपञ्चयति

ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात् प्रधानम्तस्मिन् प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं भवति, तान्यर्थाक्षिप्तान्येव, इति पृथक् सूत्रयितव्यानियथाराजाऽसौ गच्छती’त्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वदिति

शेषषष्ठ्या ब्रह्मसम्बन्धिजिज्ञासेत्युक्ते ब्रह्मस्वरूपप्रमाणयुक्तिसाधनप्रयोजनानां जिज्ञास्यत्वमुक्तं स्यादिति चोदयति -

ननु किमिति व्यर्थ इति ।

प्रधानपरिग्रह इति ।

विचारसाध्यज्ञाननिमित्तापरोक्ष्यफलभागित्वादापरोक्ष्यस्य च ब्रह्मसुखापरोक्षत्वात् विशिष्टं ब्रह्मविचारप्रवृत्तेः प्रधानं भवति । तस्य प्रधानभूतस्य ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मस्वरूपनिर्णयापेक्षितप्रमाणादिविचाराणाम् अर्थाक्षिप्तअर्थाक्षितत्वादितित्वादित्यर्थः ।